________________
-५६. ३८६]
कर्कण्डमहाराजकथानकम् संभाषणं विधायास्य निविष्टस्य धरातले । ताम्बूलं च प्रदायेमं पप्रच्छेदं महीपतिः ॥ ३५७ ॥ त्वया शिवाटता कापि वनमध्ये दिवानिशम् । किं किंचिदृष्टमाश्चय तन्निवेदय मेऽधुना ॥३५८॥ नरेन्द्रवचनं श्रुत्वा जगौ म्लेच्छाधिपोऽपि तम् । दृष्टमेकं मया राजन्नाश्चर्य परमे वने ॥ ३५९ ॥ चम्पाधिपः पुनः प्राह श्रुत्वा तद्भारतीमिमाम् । कीटक संदृष्टमाश्चर्यं त्वया ब्रूहि ममाधुना ॥३६०॥ इतो दक्षिणदिग्भागे पर्वतोपरि विद्यते । जिनालयः समुत्तुङ्गः सहस्रस्तम्भनिर्मितः ॥ ३६१॥ । देवासुरनराधीशैरलक्ष्योऽग्निशिखेव सः । तस्योपरि समुत्तुङ्गश्चूडामणिरिव स्थितः ॥ ३६२ ॥ सर्वलोककृतत्राणः सर्वलोकमनःप्रियः । देवतारक्षितो नित्यं विद्यते वामलूरकः ॥ ३६३ ॥ अभिषिञ्चन् करणेमं जलैः पझैरपि स्फुटैः । अर्चयन्नपि भावेन सरोवरसमाहृतैः ॥ ३६४ ॥ कुर्वन् प्रदक्षिणं चास्य भूमिविन्यस्तमस्तकः। दृष्ट्वा सितः करी राजन् मया भूधरसंनिभः ॥३६५॥ अस्मिन् वनान्तरे राजन् दृष्टमाश्चर्यमीदृशम् । मया द्रुमलताकीर्णे मनसोऽप्यतिदुर्गमे ॥ ३६६ ॥ 10 कौतुकं यदि तेऽपि स्यात् प्रतीतिर्वा न विद्यते । राजन् पुरस्ततस्तिष्ठ दर्शयामि विसंशयम् ॥३६७॥ शिववाक्यं समाकर्ण्य राजा विस्मितमानसः। जगादेमं पुनः प्रीतो भक्तिहृष्टतनूरुहः ॥ ३६८॥ पुरतस्तिष्ठ मे वत्स यामि तं द्रष्टुमादरात् । आदरो जायते दृष्टे देहिनां चारुवस्तुनि ॥ ३६९ ॥ धर्मानुरागरक्तोऽयं तदा कर्कण्डभूपतिः । सहस्रस्तम्भसंपन्नं लयनं प्राप तत्समम् ॥ ३७० ॥ दृष्ट्वाऽत्र लयने पुष्पैः पूजयित्वा जिनं नृपः । वन्दित्वा पर्वतस्याग्रमारुरोहातिकौतुकात् ॥ ३७१॥ 15 तत्रस्थो भूपतिः पूजां वल्मीकस्य सरोरुहैः । कुर्वाणं करिणं पूज्यमतिशुभं ददर्श सः ॥ ३७२ ॥ वामलूरं विलोक्याशु करिपद्मसमप्रभम् । सोपवासो नृपस्तस्मै पुष्पधूपाक्षतं ददौ ॥ ३७३ ॥ ततः पार्थजिनेन्द्रार्चामुत्खातां तूर्यनिखनैः । अधोलयनमध्यस्थां चकार वसुधाधिपः ॥ ३७४ ॥ पुष्पमालाभिरापूज्य हरिविष्टरमध्यगाम् । अर्चा पार्श्वजिनेन्द्रस्य पश्यतीशो मनोहरीम् ॥ ३७५ ॥ सिंहासने समुत्तुङ्गे विचित्रमणिभासुरे । कर्कण्डादिमहाराजो ददर्श ग्रन्थिमिद्धधीः ॥ ३७६ ॥ 20 जिनसिंहासने ग्रन्थिः शोभते न मनागपि । दृषद्विज्ञानिनं राजा चिन्तयित्वा जुहाव सः ॥३७७॥ अश्मविज्ञानिनं सारमुपाध्यायं 'पुरःस्थितम् । कर्कण्डभूपतिः प्राह सोपचारं विशुद्धधीः ॥ ३७८॥ कलाविज्ञानसंपन्नः प्रतिमालक्षणान्वितः । सिंहासनोपरिग्रन्थिमुपाध्याय निराकुरु ॥ ३७९ ॥ निशम्य भूपतेर्वाक्यमुपाध्यायो जगावमुम्। सिंहासनोपरि ग्रन्थौ शिराऽऽस्ते जलवाहिनी॥३८०॥" पाषाणग्रन्थिनानेन निरस्तेन नराधिप । विनश्यति तरां सर्वं लयनं जलपूरितम् ॥ ३८१॥ तद्वचोऽमन्यमानेन भूभुजाऽयं प्रचोदितः । अवश्यमेव कर्तव्यं ग्रन्थेरस्य त्वयासनम् ॥ ३८२ ॥ यवात् सिंहासनग्रन्थौ मध्ये जलनिवासिनि । ददाति टङ्किकाघातं कर्कण्डवचनादयम् ॥३८३॥ तावत्तद्धातनिर्यातजलसंततिधारया । शिरया जलवाहिन्या लयनं सकलं भृतम् ॥ ३८४ ॥ ततो लयनमालोक्य जलप्लवविनाशितम् । अतीवदुःखितो जातो भूपतिस्तत्क्षणादरम् ॥ ३८५ ॥ ततः स्नातः शुचीभूय सितवस्त्रो दिनत्रयम् । सोपवासो नृपस्तस्थौ तदानीं दर्भसंस्तरे ॥ ३८६ ॥ 30
1 पफज युग्मम्. 2 [ दृष्टः ]. 3 प युग्मम् , फज युगलम्. 4 फ दृष्ट्वाश्चर्यमीदृशम्. 5 Some letters are rubbed away in फ here and there. 6फ वृषद्विज्ञानिनं. 7 पज °ध्यायपुरः. 8 फज ग्रन्थि सिरास्ते जलवाहिनी. 9फ (and ज as corrected) भूपतिर्वाक्यमुपाध्यायं. 10 फज ग्रन्थिमुपाध्याय निराकुरु. 11 फज interchange 380 and 381 and show Variants in 380. I have followed the marginal suggestion of q.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org