________________
१००
हरिषेणाचार्यकृते बृहत्कथाकोशे [५६. ३८७एवं स्थितस्य तस्यात्र विह्वलीभूतचेतसः। तदा नागकुमारोऽरं कार्यवित्तं' समाययौ ॥ ३८७ ॥ विधायालापमेतेन कुमारो नागपूर्वकः । लयनादिकथाबन्धं प्रारेभेऽस्य प्रभाषितुम् ॥ ३८८ ॥ स्यातां नील-महानीलौ विजयार्धनगोत्तमे । भ्रातरौ स्नेहसंपन्नौ रूपयौवनशालिनौ ॥ ३८९ ॥ विद्याच्छेदं विधायाशु दायादैः पुरुविक्रमैः । ततो निर्धाटितौ सन्तौ तेराख्यं पुरमागतौ ॥३९०॥ 5 ततो नील-महानीलौ सर्वान् भूगोचरानिमान् । वशीकृत्य पुरेऽत्रैव तस्थतुर्मुदमागतौ ॥ ३९१ ॥
श्रुत्वा पार्श्वजिनेन्द्रस्य महामाहात्म्यसंगतम् । चरितं मुनिसमीपे पवित्रं भव्यपुण्यदम् ॥ ३९२॥ लयनं पार्श्वदेवस्य सहस्रस्तम्भनिर्मितम् । ताभ्यामिदं गिरावत्र भूप कारापितं परम् ॥ ३९३ ॥ लयनाभ्यन्तरे सर्वा रत्नस्वर्णविनिर्मिताः । प्रतिमाः पार्श्वनाथस्य महातिशयसंगताः ॥ ३९४ ॥
राजन् नील-महानीलौ सर्वबान्धवसंगतौ । कालत्रयेऽपि तौ भक्त्या वन्दारू. परमोदयौ ॥३९५॥ 10 महाविभवसंपन्ने नानाजनसमाकुले । राज्यं विदधतौ स्फीतं तस्थतुस्तरपत्तने ॥ ३९६ ॥
अमितोपपदो वेगो विजयार्धनगादरम् । महानीलस्य नीलस्य मित्रं लङ्कां समाययौ ॥ ३९७॥ जिनेन्द्रप्रतिमाः सर्वा वन्दित्वाऽत्र स खेचरः । स्वर्णरत्नमयीमेकामर्चामादाय निर्ययौ ॥ ३९८ ॥ गच्छन् विहायसा सोऽरं लयनं वीक्ष्य शोभनम् । गगनाद् भक्तिमापन्नो वेगतो भुवमाप सः॥३९९॥ ततः पार्श्वजिनेन्द्रस्य तामों वामलूरके । स्थापयित्वा स खेटोऽधोलयनं भक्तितोऽगमत् ॥४००॥ 15 वन्दित्वा स्तुतिभिस्तत्र प्रतिमा भक्तितत्परः । भूयः प्रागुक्तवल्मीकं प्राप खेटोऽतिवेगतः ॥४०१॥ यावदागत्य ताम_मुत्क्षिपत्ययमादरात् । तावद् बभूव सा तत्र पर्वतोपरि निश्चला ॥ ४०२॥ एवं तां निश्चलां दृष्ट्वा तत्रत्यां प्रतियातनाम् । भूमौ निधाय खेटोऽगात्तदानीं खमनीषितम् ॥४०३॥ कालेन बहुना भद्र जातोऽयं वामलूरकः । अहमेतं प्रयत्नेन रक्षन् तिष्ठामि सर्वदा ॥ ४०४॥ इदं च लयनं दिव्यं नीलेन जिनभक्तितः । महानीलयुतेनार्य कारितं मणिभासुरम् ॥ ४०५॥ 20 इदं लयनमुत्तुङ्गं विनष्टं जलधारया । रक्षितुं न समर्थोऽहं मौनमादाय संस्थितः ॥ ४०६॥ सुवर्णरत्ननिर्माणा लयनाभ्यन्तरा स्थिताः । अर्चास्तिष्ठन्तु राजेन्द्र जैन्यो रूपसमन्विताः॥४०७॥ अमुष्मिन् दुःषमाकाले शक्यन्ते ता न रक्षितुम् । विनश्य लयनं नीराद् दृष्ट्वोदासीनतामितः॥४०८॥ तेनेदं लयनं सारं तिष्ठताजलपूरितम् । अस्योपरि परं त्वन्यं त्वं कारापय सांप्रतम् ॥ ४०९॥ निवेद्य सकलं राज्ञः कुमारो नागपूर्वकः । जगामादर्शतां सद्यो भूयोऽप्यस्मात्समुत्थितः॥४१०॥ 25 अथ हस्ती परिप्राप्य दृष्ट्वा रथ्यं विनाशितम् । गजेन्द्रः पर्वतं तुङ्गमारुरोह त्वरान्वितः ॥४११॥ सर्वाहारं परित्यज्य समाधि प्राप्य कुञ्जरः । कालं कृत्वा सहस्रारे बभूव विबुधो महान् ॥४१२॥ अधोलयनमाच्छाद्य शिलाभिः शोभने दिने । राजा सर्वशिलाकुट्टान् शीघ्रमाहूतवानसौ ॥ ४१३॥ ततः स्वस्य महादेव्या क्षुल्लकस्य च शोभनम् । लयनानां त्रयं शीघ्रं कारितं तैर्महीभुजा ॥४१४॥
लयनानां त्रयस्यापि तूर्यमङ्गलनिखनैः । चकार महती पूजां कर्कण्डो भक्तितत्परः ॥ ४१५॥ 30 कर्कण्डः कृतकर्तव्यः सेनया चतुरङ्गया । आज्ञास्खलनतो रुष्टो द्रविलं विषयं ययौ ॥ ४१६ ॥
श्रुत्वा कर्कण्डमायातं बलिष्ठं सैन्यसंपदा । निर्गत्य स्वपुरादाशु तेऽमुना यो मुद्यताः ॥ ४१७॥ शस्त्रघातसमुद्भूतवह्निज्वालाप्रभोज्वले । अन्योन्यमारणासक्तभटगर्जितभीषणे ॥ ४१८ ॥ • हस्तिवाजिरथारावराविताकाशभूतले । धानुष्कमुक्तबाणौघविद्धाशेषपदातिके ॥ ४१९ ॥ वैतालिककलालापबधिरीभूतदिग्मुखे । छत्रचामरसंघातरुद्धादित्यप्रभोत्करे ॥ ४२० ॥
1फ कार्यचित्तं. 2 [मुनिसामीप्ये]. 3फ जलसमाकुले. 4 फ interchanges 400 and 401. 5[विनष्टं]. 6पनीरा. 7 पफज कुलकम. 8 फज त्रयस्यास्य. 9फ कर्कण्डमायान्तं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org