________________
९८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५६. ३२५
प्राप्य दन्तिपुरासन्नं श्मशानं भीषणं सुत । उत्पन्नोऽसि भवानत्र' मम पुण्यानुभावतः ॥ ३२५ ॥ वर्धितो बालदेवेन द्युगेन स्वपदेच्छया । सुत दीक्षा मया जैनी गृहीताऽभवदायिनी ॥ ३२६ ॥ बलवाहनराजेन्द्रे मृतिं प्राप्ते सुतोत्तम । स्थापितोऽयं महाराज्ये त्वं मुदा राजहस्तिना ॥ ३२७ ॥ तस्मादुत्थाय पुत्र त्वं कुरु तातक्षमापणम् । तत्सन्मुखं परिप्राप्य नीरोषः पत पादयोः ॥ ३२८ ॥ स्थूरीपृष्ठात् समुत्तीर्य तदानीं मातृवाक्यतः । जगाम सन्मुखं हृष्टः कर्कण्डो जनकस्य सः ॥३२९॥ दृष्ट्वा तनूजमायान्तं सहसोत्तीर्य वाजिनः । तत्सन्मुखमभीयाय नरेन्द्रो दन्तिवाहनः ॥ ३३० ॥ परस्परं समासज्य स्नेहनिर्भरमानसौ । नितान्तं जनताऽध्यक्ष्यं तदानीमालिलिङ्गतुः ॥ ३३१ ॥ अन्योन्यकुशलं पृष्ट्वा तोषगद्गदभाषिणौ । उपविष्टौ यथास्थानं तकौ हृष्टतनूरुहौ ॥ ३३२ ॥ तूर्याणि समतालानि कारयित्वा नराधिपः । राजपट्टे धरायोग्यं कर्कण्डस्य बबन्ध सः ॥ ३३३ ॥ सामन्तमत्रियोधानां प्रकृतीनां प्रयत्नतः । सुतं समर्पयामास सस्नेहं दन्तिवाहनः ॥ ३३४ ॥ हस्तिनो वाजिनः कोशं स्यन्दनान् पदिकानपि । समस्तां मेदिनीं राजा ददौ पुत्राय धीमते ॥ ३३५ ॥ नीतियुक्तः सतां सेव्यः प्रजापालनतत्परः । चिरं कालं निरातङ्कः पाहि भूमण्डलं सुत ॥ ३३६ ॥ एवमुक्त्वा सुतं सर्वं जनं संभाष्य सक्रमम् । राजा वैराग्यसंपन्नो नन्दनाख्यवनं ययौ ॥ ३३७॥ तत्र दृष्ट्वा मुनिं वीरं वन्दित्वा बहुभक्तितः । पृष्ट्वा धर्मं श्रुतं ज्ञात्वा स्वहितं च यथाक्रमम् ॥ ३३८ ॥ 15 बाह्यमाभ्यन्तरं संगं हित्वा बहुनरेश्वरैः । दीक्षां श्रीधर्मसेनान्ते दधौ श्रीदन्तिवाहनः ॥ ३३९ ॥ * अथ चम्पापुर श्रीमान् साधितारातिमण्डलः । चकार सरसं राज्यं तदा कर्कण्डभूपतिः ॥ ३४० ॥ अङ्गवङ्गकलिङ्गादिसामन्ताः पृथुकीर्तयः । मस्तकेन प्रतीच्छन्ति शासनं यस्य भीतितः ॥ ३४९ ॥ द्रविलोपपदे देशे चेटचोटौ' सपाण्ड्यकौ । कर्कण्डस्य नरेन्द्रस्य न वशौ तौ बभूवतुः ॥ ३४२ ॥
चेटकादिनृपान् ज्ञात्वा कर्कण्डो नतिवर्जितान् । दूतं कृतज्ञमात्मज्ञं प्रजिघाय तदन्तिकम् ||३४३|| 20 ततः क्रमेण संप्राप्य दूतस्तान् सकलानपि । पुरः स्थितो बभाणेति कुशलप्रश्नपूर्वकम् ॥ ३४४ ॥ युष्मान् वदति कर्कण्डो मन्मुखेन महाप्रभुः । मत्पादाराधनाहेतोरागच्छन्तु त्रयोऽप्यरम् ॥ ३४५ ॥ निशम्य तद्वचस्ते च त्रयोऽपि हरिविक्रमाः । निगदन्ति तकं दूतं वचनैः सत्यतावहैः ॥ ३४६ ॥ अर्हन्मुनिपदाम्भोजं संसारोच्छेदकारणम् । विहाय पावनं नृणां कुर्मोऽन्येषां न वन्दनाम् ॥३४७॥ श्रुत्वा तद्वचनं दूतो नतिहीनं रुषाऽन्वितः । प्राप्य चम्पां विनीतात्मा पतिमेवमभाषत ॥ ३४८ ॥ 25 आस्तां 'त्वदन्तिकं राजन् पदमेकं पदादपि । सैन्यलक्ष्मीमदोन्मत्ता नागच्छन्ति त्रयोऽपि ते ॥ ३४९ ॥ निशम्य भारतीमस्य कोपारुणनिरीक्षणः । प्रस्थितो नगरं गन्तुं सेनया चतुरङ्गया ॥ ३५० ॥ ततोऽश्वैर्वायुरंहोभिः कुञ्जरैर्मदशालिभिः । रथैः कनकनिर्माणैः पत्तिभिः शस्त्रभीषणैः ॥ ३५१ ॥ चम्पापुराधिपो वेगात्तद्दर्पदलनेच्छया । दक्षिणापथदेशोत्थं तेराख्यं नगरं ययौ ॥ ३५२ ॥ ततो दक्षिणदिग्भागे तेराख्यनगरस्य च । स्कन्धावारोऽस्य संतस्थे तन्मार्गश्रमहानये ॥ ३५३ ॥ ॐ ज्ञात्वा कर्कण्डमायातं" शिवो मिलाधिपस्तदा । आजगाम तकं द्रष्टुं बहुनाहलसेनया " ॥ ३५४ ॥ नृपद्वारं समासाद्य द्वारपालनिवेदितः । तन्मतेन शिवः प्राप कर्कण्डाभ्याशमादरात् ॥ ३५५ ॥ दूरान्ननाम भूपालं सभामध्यस्थितं शिवः । मस्तकेन धरास्थेन करकुट्मलयोजिना " ॥ ३५६ ॥
5
10
1 फज भवान्नत्र. 2 प ( हस्तिपृष्ठात् ) 3प नन्दनादि, ज नन्दनानि 4 पफज युग्मम्. 5 फ चलचोटौ, ज चटचोटौ 6 फज आस्तांस्त्वदन्तिकं. 7 पफज युग्मम्. 8फ सुखेन प्रस्थितो गन्तुं . 9 पफज युग्मम्.. 10 फज कर्कण्डमायान्तं 11 फ 'सेवया. 12 फ योजितः, ज योजिनः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org