________________
-५६. ३२४ ]
कर्कण्डमहाराजकथानकम् क्रमेण प्राप्य तं दूतो दन्तिवाहनभूभुजम् । जगाद विस्मितस्वान्तो वेपिताखिलविग्रहः ॥२९१॥ कलिङ्गाधिपतिर्नाथ नगरागमपि स्फुटम् । भवन्तं नरसिंहं स तृणायापि न मन्यते ॥ २९२ ॥ स दूतवाक्यतस्तेन सेनया चतुरङ्गया । दन्तिवाहनभूपेन निर्यये नगराद् बहिः ॥ २९३॥ अथ सान्नाहिकी भेरी दध्वान करिपृष्ठगा । श्रीकर्कण्डसमादेशान्मन्द्रं नरकराहता ॥ २९४ ॥ श्रुत्वा तन्निनदं भूपा मत्रिणो भटसेवकाः । नृपद्वारं परिणापुः संग्रामकृतबुद्धयः ॥ २९५॥ । सन्नाहभेरिरावेण कार्कण्डं सकलं बलम् । सन्नद्धं विहितारावं चातुरङ्गं रणोत्सुकम् ॥ २९६ ॥ विधाय कञ्चुकं दिव्यं धनं कार्दमिकं पुरम् । स्कन्धविन्यस्ततोणीरा द्रुतं चेलुर्धनुर्भूतः ॥ २९७ ॥ आदाय फरकां दिव्यां पूर्णिमाचन्द्रसन्निभाम् । कडितल्लकरा धीरास्तदनु प्रययुनराः ॥ २९८ ॥ यमजिह्वासमाकारकुन्तहस्ता भटोत्तमाः । तदनु प्रस्थिता गन्तुं दूरोल्ललनकारिणः ॥ २९९ ॥ चारुवंशा नगोत्तुङ्गाः सुदन्ता दानदायिनः । महामात्रसमारूढा जग्मुस्तदनु दन्तिनः ॥ ३००॥ 10 कनत्कनकनिर्माणमध्ये माणिक्यराजिताः । सारथिप्रेरिता यान्ति चलवाजियुगा रथाः ॥ ३०१॥ अश्ववारसमारूढा वातमानसयायिनः । जात्याश्च सप्तयो यान्ति हेषितव्याप्तदिग्मुखाः ॥ ३०२॥ जात्याश्वपृष्ठमारूढश्चलचामरवीजितः । “समुच्छ्रितसितच्छत्रो बन्दिवृन्दारकस्तुतः ॥ ३०३॥ तुरङ्गेषु समारूढेश्चञ्चलेषु निषादिभिः । बहुभिः संवृतो याति कर्कण्डवसुधाधिपः ॥ ३०४॥ नदीं सरोवरं घोषं पर्वतं गहनं वनम् । पुण्याश्रमं महातीर्थ देशं जनसमाकुलम् ॥ ३०५॥ 15 खसैन्यसमुदायेन महासंघट्टमीयुषा। अतिक्रम्य क्रमात् प्राप चम्पाऽऽख्यां नगरी नृपः॥३०६॥ सैन्यद्वयं महोत्साहं संग्रामरसलम्पटम् । अन्योन्यभण्डनासक्तं बभूव कृतनिस्वनम् ॥ ३०७॥ अत्रान्तरे परिप्राप्य दन्तिवाहनभूपतिम् । पद्मावत्यार्जिका शीघ्रं जगादेति विचक्षणा ॥ ३०८ ॥ किं त्वया कर्तुमारब्धं पुत्रेण सह भण्डनम् । संसारकारणं राजन्नकीर्तिपरिवर्धनम् ॥ ३०९ ॥ आकयं तद्वचो राजा संशयोत्पत्तिकारणम् । जगाद तामतिस्पष्टं कौतुकव्याप्तमानसः॥ ३१० ॥ 20 कुतः समागताऽसि त्वं किं नामा काऽसि सुन्दरि। कथं वा नन्दनस्त्वायें ब्रूहि सत्यं ममाधुना ॥३११॥ नरेन्द्रवचनं श्रुत्वा जगावार्या तकं पुनः । शृण्वेकचित्ततो राजन् यथापृष्टं वदामि ते ॥ ३१२ ॥ त्वं दन्तिवाहनो राजन्नुत्तीर्णोऽतो मदुक्तितः। अहं पद्मावती नीता त्वद्गजेन विदेशताम् ॥३१३॥ सरोवरं प्रविष्टस्य गजस्य सलिलाशया । अहं गर्भस्थितस्यास्य पुण्यैनीता जलात् स्थलम् ॥३१४॥ ततो दन्तिपुरासन्नं श्मशानं प्राप्य भीषणम् । सर्वलक्षणसंपूर्ण प्रसूतेमं शिशुं परम् ॥ ३१५ ॥ 25 बालदेवेन खेटेन वृद्धिं नीतोऽयमकः । ततो मया तपो जैनं गृहीतं त्वद्वियोगतः ॥ ३१६ ॥ अपुत्रो मृतिमापन्नो बलवाहनभूपतिः। जातो दन्तिपुराधीशः स्वपुण्यैस्तव नन्दनः ॥३१७॥ कण्डूकच्छूगृहीतः सन् शिशुत्वे बालको यतः । ततः कर्कण्डनामास्य यथार्थ विहितं मया ॥३१८॥ निशम्यार्यावचः सत्यं दन्तिवाहनभूपतिः । विहाय वैरसंबन्धं बभूव प्रीतमानसः ॥ ३१९ ॥ निगद्य पुत्रसंबन्धं दन्तिवाहनभूभुजः। पद्मावत्यर्यिका शीघ्रं जगाम स्वसुतान्तिकम् ॥ ३२० ॥ 30 वेगेन प्राप्य तत्पाचे कर्कण्डं निजगाद सा । पित्रा समं विधातुं ते पुत्र युद्धं न युज्यते ॥३२१॥ श्रुत्वा पद्मावतीवाक्यं कर्कण्डो निजगाद ताम् । कथं मातः पिताऽयं मे बेहि विस्मितचेतसः॥३२२॥ अवाचि नन्दनो भूपः पद्मावत्या स्फुटाक्षरम् । द्वेषानुरक्तचित्तस्य पिता पुत्रस्य सन्धितः॥३२३॥ पुत्राहं हस्तिना नीता भवत्तातस्य पश्यतः । सरोजलनिविष्टेन मुक्ताऽनेन सरस्तटे ॥ ३२४ ॥
1फ भूभुजाम्. 2 पज नमनागमपि, [ नगरागमनं]. 3 [खदूत ]. 4 प सन्नाहिकी. 5 फज नरकराहिता. 6प समुत्थितः. 7 पफज युग्मम्. 8 पफज युग्मम्. 9 [प्रासूतेम].
बृ० को० १३ Jain Education International For Private & Personal Use Only
www.jainelibrary.org