________________
९६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५६.२५९
1
I
आराममापणं सौधं सारं सरितां तटम् । वाप्यादिकमतिक्रम्य श्मशानं प्राप्य कुञ्जरः ॥ २५९ ॥ त्रिःपरीत्य स कर्कण्डं सुप्तं तरुतले तदा । करकुम्भजलैः स्नाप्य स्वपृष्ठे कृतवान् करी ॥ २६० ॥ राजहस्ती तमादाय कन्दर्पसमविभ्रमम् । वरवलं' निनायाशु तूर्यमङ्गलनिस्वनैः ॥ २६१ ॥ आस्थानमण्डपं प्राप्य मणिस्तम्भविनिर्मितम् । सिंहासने मुमोचायं कर्कण्डं कलकुञ्जरः ॥ २६२ ॥ • अथ हेमघटैः स्नाप्य कुङ्कुमेनाभिलिप्य च । पुष्पमालाभिरापूज्य भूषयामास तं करी ॥ २६३ ॥ पट्टबन्धं विधायास्य कर्कण्डस्य नराधिपाः । मत्रिणस्तलवर्गाश्च विनेमुः पदपङ्कजम् || २६४ ॥ कनकं रजतं रत्नं तुरङ्गं करिवाहनम् । ददुर्महत्तरा हृष्टा याचकेभ्यो मुहुर्मुहुः ॥ २६५ ॥ श्रीमद्दन्तिपुरे राज्यं कर्कण्डो जितशात्रवम् । चकार धर्मसामर्थ्यात् पाकशासनवद्दिवि ॥ २६६ ॥ एकेन शतपत्रेण विहितं जिनपूजनं । धनदत्तेन गोपेन भक्तिनिर्भरचेतसा ॥ २६७ ॥ " अस्य धर्मस्य सामर्थ्यात् स्वर्गे देवो बभूव सः । नान्दीतूर्यकलास्वाने देवदेवीमनोरमे ॥ २६८ ॥ तत्सुखं वैबुधं भुक्त्वा मानसेष्टं च्युतोऽमुतः । दन्तिवाहनभूपस्य पद्मावत्याः सुतोऽभवत् ॥ २६९॥ एकपद्मकृतं पुण्यं ज्ञात्वा गोपस्य सज्जनाः । धर्मं करुत जैनेन्द्रं येन जात' जिनेशिताम् ॥ २७० ॥ पट्टबन्धं विलोक्याशु कर्कण्डस्य महीपतेः । प्रादुरासन् महाविद्या बालदेवस्य तद्दिने ॥ २७९ ॥ आस्थानमण्डपस्थस्य कर्कण्डस्य नरेशिनः । जगाद सकलान् सभ्यान् बालदेवो नमः स्थितः ॥ २७२ ॥ 1s भो भो जनसमूहाशु' मदीयं वचनं परम् । आकर्णयैकचित्तेन प्रविहाय महारवम् ॥ २७३ ॥ एतन्मातङ्गरूपेण श्मशानं रक्षितं मया । कर्कण्डाख्यः कुमारोऽपि तथाऽयं परिपालितः ॥ २७४ ॥ नाहं भवामि मातङ्गो न मातङ्गसुतोऽपि च । कुमारः सुकुमारोऽयं महावंशसमुद्भवः ॥ २७५ ॥ अङ्गकाख्यजनान्तेऽभूच्चम्पायां पुरि भूपतिः । दन्तिवाहननामाऽस्य प्रिया पद्मावती प्रिया ॥२७६॥ तस्याः सुतः कुमारोऽयं रूपराजितविग्रहः । इहानीतः परं वृद्धिं मया मातङ्गवेषिणा ।। २७७ || 20 पद्मावती महादेवी तपो जैनं विधाय च । अत्रैव नगरे साध्वी स्थिताऽर्या शीलशालिनी ॥ २७८॥ इदं विद्याधरः सर्वं कुमारस्य सुचेष्टितम् । कथयित्वा स्वकीयं च लोकस्य स्वपुरं ययौ ॥ २७९ ॥ कर्कण्डभूभुजा तेऽत्र त्रयो वंशाः कपालजाः । छत्राङ्कुशध्वजानां हि कृता दण्डा मनोहराः २८० ॥ ततः सुमतिसंज्ञाय ब्राह्मणाय विधानतः । कर्कण्डोऽयं महाराजो महामत्रिपदं ददौ ॥ २८९ ॥ पद्मावत्यर्जिकाऽऽगत्य कलिङ्गविषयाधिपम् । कर्कण्डभूपतिं प्रापत् सुतवात्सल्यकारणात् ॥ २८२ ॥ 25 दृष्ट्वा स्वमातरं प्राप्तं प्रोत्थाय हरिविष्टरात् । चकार महतीं पूजां कर्कण्डोऽस्या विधानतः ॥ २८३ ॥ अथ सिंहासनस्थस्य कर्कण्डस्य महीपतेः । दन्तिवाहनदूतोऽयं प्रापाभ्याशं जगावमुम् ॥ २८४ ॥ अङ्गदेशाधिपो राजा दन्तिवाहननामकः । महाराजाधिराजोऽयं भवन्तं वक्ति मन्मुखात् ॥ २८५ ॥ यथा चम्पापुरीं पुण्यां कलिङ्गविषयाधिप । स्वसैन्यसमुदायेन त्वमागच्छ मदन्तिके ॥ २८६ ॥ दन्तिवाहनदूतस्य निशम्य वचनं तदा । बभाणेमं महाकोपात् कलिङ्गविषयाधिपः ॥ २८७ ॥ किमङ्गाख्येन देशेन किं चम्पाख्यपुराऽपि वा । त्वन्नाथेन न मे कार्यं दन्तिवाहनभूभुजा ॥ २८८ ॥ किं त्वत्प्रसादतो राज्यं किं गजाः किं तुरङ्गमाः । मे रथाः किं च पादाता येनैवं वक्ति त्वत्पतिः २८९ एवं निगद्य तं दूतं खलीकृत्य स्वहस्ततः । कर्कण्डभूपतिः शीघ्रं प्राहिणोत्तं तदन्तिकम् ॥ २९० ॥
3
1 फ वरवल्भं [ वरबालं ]. 2 फ नराधिपः 3 [ यात ]. 4 प जनसमूहाच. 5 फज कुमारसुकुमारो. 6 फ नामोस्य 7 फज विनाधिना 8 All the Mss. interchange the places of 283 and 284; but I have followed the marginal suggestion of q looking to the trend of the story. 9फ प्रपाभ्यासं. 10 प विषयाधिपः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org