________________
-५६. २५८]
कर्कण्डमहाराजकथानकम् समाधिगुप्तिमानम्य मुनि भोगपराङ्मुखी । पद्मावती प्रवव्राज सुव्रतार्याऽन्तिकेऽमला ॥ २२७ ॥ घृतादिपूरकान् पूरान् मोदकान् शोकवर्तिनी । पद्मावती समादाय बालदेवगृहं ययौ ॥ २२८॥ भक्ष्यभोज्यादिकं दत्त्वा तनयाय मनःप्रियम् । विलोक्य स्नेहतः पुत्रं ययौ सा स्वमनीषितम् ॥२२९॥ अन्यदाऽऽगत्य तं स्नेहात्तत्करौ वीक्ष्य सा पुनः। कण्डूकच्छूसमायुक्तौ पादौ चास्य सुदुःखिता॥२३०॥ विधाय नन्दनस्याशु बालदेवपुरःसरम् । कर्कण्डाख्यां गुणोपेतां पद्मावत्यर्यिका ययौ ॥ २३१॥ । कुमारोऽपि क्रमेणायं कर्कण्डाख्यो महानभूत् । श्मशानं जनकेनासौ रक्षन् सन् स वितिष्ठते ॥२३२॥ कपोलात्तच्छमशानस्थात् त्रयो वंशाः समुत्थिताः । एको मुखेन निर्यातो द्वावक्षिभ्यां विनिर्गतौ ॥२३३॥ अथ संघेन संयुक्तो महताऽवद्यभीरुणा । दिव्यादिज्ञानसंपन्नौ गुणशीलमहोदधी ॥ २३४॥ विहरन्तौ तकौ क्वापि तदा दन्तिपुरान्तिके । यशोवीरादिको भद्रौ तस्थतुस्तत्स्मशानके ॥२३५॥ एको युवा यतिस्तत्र दृष्ट्वा वंशत्रयं जगौ । पश्याश्चर्यमिदं नाथ लोकातिशयकारणम् ॥ २३६ ॥ इदं नरशिरो भित्त्वा त्रयो वंशा विनिर्ययुः । यशोभद्रो विलोक्यमान् जगादेमं विशुद्धधीः ॥२३७॥ छत्रध्वजाङ्कुशानां च यस्य दण्डा मनोरमाः । इमे वंशा भविष्यन्ति स राजा सकलावनौ ॥२३८॥ श्रुत्वा मुनेर्वचः सत्यं सुमतिर्ब्राह्मणस्तदा । तिष्ठन्नेकोऽत्र हृष्टात्मा दध्याविति स चेतसि ॥२३९॥ अप्रमाणं न जायेत मुनिवाक्यं महीतले । अवश्यमेव कर्तव्यं मया राज्यमतः स्थिरम् ॥ २४०॥ अन्यदा चिन्तयित्वेदं छित्त्वा वंशत्रयं ततः । गच्छन् स माहनः शीघ्रं कर्कण्डेन विलोकितः॥२४१॥ 15 दृष्ट्वा पलायमानं तं सवंशं हृष्टचेतसम् । कर्कण्डेन त्रयो वंशा गृहीतास्तत्करादरम् ॥ २४२ ॥ ततः स सुमतिर्विप्रः कुमारं वीक्ष्य रूपिणम् । सर्वलक्षणसंपूर्ण दध्यौ विस्मितमानसः ॥ २४३॥ यो यथा मुनिनाऽऽदिष्टः समस्तधरणीतले । राजा सोऽयं मया दृष्टो भूपतिर्न भवाम्यहम् ॥२४४॥ कर्कण्डोऽवाचि विप्रेण मया विस्मयमीयुषा । भो भो कुमार मद्वाक्यं श्रूयतामेकचित्ततः॥२४६॥ वंशत्रयमिदं वीक्ष्य श्मशानस्थितसाधुना । आदेशोऽयं समादिष्टो मत्पुरोऽवितथो महान् ॥२४६॥ 20 यो मेदिनीतले कोऽपि वंशानेतान् गृहीष्यति । स भविष्यति भूपालः साधितारातिमण्डलः २४७॥ इदानीं सोऽयमादेशः संयातो” यो यतीरितः । तेनाखिलमहीमध्ये भूपतिस्त्वं भविष्यसि ॥२४८॥ वंशो भावी तवैकोऽत्र सितच्छत्रस्य दण्डकः । अन्योऽङ्कुशस्य शुक्लस्य ध्वजस्यान्यो यथाक्रमम् ॥२४९॥ तेन वंशत्रयस्यापि त्वया यत्नो विधीयताम् । यत्ने कृतेऽत्र वंशस्य श्रियमेषि" हि भूपते ॥२५०॥ तव राज्ये हि संजाते मम मत्रिपदं त्वया । अवश्यमेव दातव्यं धर्मनिश्चितचेतसा ॥ २५१ ॥ 25 एवं निगद्य तं तत्र सुमतिः सुमतिर्द्विजः । जगाम प्रीतचेतस्कस्तदानीं निजमालयम् ॥ २५२ ॥ कर्कण्डोऽपि तकान् वंशानादाय द्विजपाणितः । श्मशानवृक्षमूले च सुप्तोऽयं श्रमहानये ॥२५३॥ अथ दन्तिपुराधीशो राजाऽयं बलवाहनः । पुत्रहीनो गुणाधारो ममार वसुधाधिपः ॥ २५४ ॥ राज्ययोग्यो न कोऽप्यस्ति तद्वंशे प्रथिते भुवि । तदभावेऽखिलो" लोको जगामाकुलतां पराम् २५५ स्नानं विधाय नीरेण कुकुमेन च चर्चनम् । सुगन्धिपुष्पमालाश्च तथा धूपेन धूपनम् ॥ २५६ ॥ तूर्याणि समतालानि बधिरीभूतखानि च । अष्टापदविनिर्माणा घण्टा रटनहारिणी ॥ २५७ ॥ यस्येदं सकलं लोकैर्विहितं राजहस्तिनः । मुमुचुः करकुम्भं तं सुगजं भूपमत्रिणः ॥ २५८ ॥"
1प कर्कण्डाख्यं गुणोपेतं. 2 प युग्मम् , फज युगलम्. 3 पफ कपालात्तत्स्मशान. 4 फज पद्मभीरुणा. 5 प युग्मम् , फज युगलम्. 6 पज युग्मम्. 7 [तदा]. 8 पज स्मशानस्थितं. 9 फ संजातो. 10 फ विधीयते. 11 फज श्रियमपि. 12 पफज कुलकम्. 13 फ तदभावेखिले. 14 पफज चतुष्कलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org