________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५६. १९४
कलिङ्गविषयस्यान्ध्रविषयस्यापि सुस्थितः ' । सन्धौ रामगिरिर्भाति विलिखन् शिखरैर्नभः ॥ १९४॥ तस्योपरि यतो मेऽरं विद्रुमावलिभासिनः । विमानं कामगं नाम जगाम स्थिरतामिदम् ॥ १९५ ॥ ततो मया द्रुतं भद्रे कृत्वा दिगवलोकनम् । अधो विलोकितं पश्चात् संभ्रमासक्तचेतसा ॥ १९६॥ एवं विलोकिते तत्र वीरः सत्यव्रतो मुनिः । सर्वसत्त्वानुकम्पी च मया दृष्टोऽघवर्जितः ॥ १९७ ॥ दैनं योगिनं तत्र ध्यानाचलमधिष्ठितम् । धर्मं 'वापघनोपेतं परिध्यातमिदं मया ॥ १९८ ॥ प्रियायुक्तस्य मेऽनेन गच्छतो दिवि सत्वरम् । नगे क्रीडितुकामस्य विमानं स्तम्भितं कथम् ॥ १९९॥ उपसर्गे मयाऽप्यस्य मतिभ्रंशकारिणः । कोपाद्विधातुमारब्धः पाषाणसमचेतसा ॥ २०० ॥ एवं कृतवतो मेऽलं मुनिना कोपमीयुषा । दुष्टचेतोचितान्याऽस्य दत्तः शापोऽयमीदृशः ॥ २०१ || यथा पाप दुराचार धर्मवर्जितचेतसः । भूयात् ते सर्वविद्यानां छेदः कारुण्यवर्जितः ॥ २०२ ॥ 10 तत्क्षणात् साधुवाक्येन विद्याच्छेदो मम स्फुटम् । जातो भूयो मया साधुर्विज्ञप्तो दीनचेतसा ॥२०३॥ सर्वलोककृतानन्द सर्वलोकदयापर | मम धर्मविहीनस्य कथं शापो गमिष्यति ॥ २०४ ॥ निशम्य मद्वचो योगी तदानीं कृपयाऽऽर्द्रधीः । जगाद मामिति स्पष्टं दिव्यज्ञाननिरीक्षणः ॥ २०५ ॥ अस्त्यङ्गाख्यमहादेशे चम्पायां पुरि भूपतिः । दन्तिवाहननामाऽस्य भार्या पद्मावती परा ॥ २०६ ॥ गर्भिणीं तां समादाय नर्मदातिलकः करी । कलिङ्गविषये दिव्ये पुरं दन्तिपुरं गतः ॥ २०७ ॥ 15 तत्र राजा प्रजापालो बलवाहन नामकः बभूव तत्प्रिया चावीं विनीता बलवाहना ।। २०८ ॥ पृथिवीमण्डलोपेतश्चतुरङ्गबलान्वितः । धनी पुनरयं राजा पुत्रहीनोऽवतिष्ठते ॥ २०९ ॥ अत्रैव नगरे सारे मालाकारो भटाभिधः । तद्भार्या मारिदत्ताऽऽख्या क्रूरनिष्ठुरमानसा ॥ २१० ॥ पूर्वोक्तदन्तिना नीतां तकां दन्तिपुराटवीम् । मालाकारो भटस्तत्र द्रक्ष्यति प्रीतमानसः ॥ २११ ॥ मालाकारेण सा नीता स्वकीयं गृहमादरात् । भूयः प्रसवकालेन घाटिता मारिदत्तया ॥ २१२ ॥ 20 प्राप्य भीष्मं श्मशानं च सर्वलक्षणसंयुतम् । पद्मावती सुतं तत्र प्राप्स्यति स्थिरचेतसा ॥ २१३ ॥ कुमारः सुकुमाराङ्गः सर्वलोकमनोहरः । पृथिवीमण्डलेऽमुष्मिन् स भविष्यति भूपतिः ॥ २१४ ॥ पद्मावती महादेवी प्रसूता दारकं तदा । श्मशाने पश्यसि क्षिप्रं बालादित्यसमप्रभम् ॥ २१५ ॥ पुनस्तं बालकं दिव्यं स्फुरन्तं तनुतेजसा । गृहीत्वा स्वगृहं नीत्वा वृद्धिं प्रापय सांप्रतम् ॥ २१६ ॥ ततोऽसौ वर्धितस्तत्र यस्मिन् काले महागुणम् । राज्यं प्राप्स्यति विस्तीर्णं पुरे दन्तिपुरे परे ॥ २१७॥ तस्मिन्नहसि प्राप्ते भवतां सानुरागतः । भविष्यन्ति पुनर्विद्या मुनिना गदितं वचः ॥ २९८ ॥ मुनेरादेर्शतस्तन्वि श्मशानं भीषणाकृतिम् । इयन्तं कालमासाद्य रक्षन्नहमिदं स्थितः ॥ २१९ ॥ पूर्वं निवेदितोऽस्माकमादेशो मुनिना यकः । सकोऽधुना हि संजातो नान्यथा मुनिभाषितम् ॥ २२०॥
मं दारकं भद्रे स्वगृहं प्राप्य वेगतः । वर्धापयाम्यतो बालं मावक्ष त्वं करिष्यसि ॥ २२९ ॥ विद्याधरवचः श्रुत्वा तकं पद्मावती जगौ । एवमस्त्विति मे भ्राता पुत्रयत्नं करिष्यसि ॥ २२२ ॥ ३० नत्वा पद्मावतीं भक्त्या गृहीत्वा त्वत्सुतं " पुनः । बालदेवो जगामाशु स्वगृहं हृष्टमानसः ॥२२३॥ ततः समादरं तस्याः स्नेहनिर्भरमानसः । बालकं हेममालाया बालदेवो ददौ करे ॥ २२४ ॥ मन्दिरे बालदेवस्य हेममालाप्रयत्नतः । वृद्धिं व्रजन्नसौ स्थेयात् तदानीं बालचन्द्रमाः ॥ २२५ ॥ पद्मावती महादेवी हित्वा तच्च श्मशानकम् । तस्मिन् दन्तिपुरे तस्थौ दिनानि कानिचित्तदा ॥२२६॥
5
25
९.४
1 फ सुस्थितिः 2 फ चापधनोपेतं. 3 [ कारुण्यवर्जित ]. 4 प प्रसवकाले निर्धाटिता. 5 फ मुनेरादेशित. 6 फ भीषणाकृतिः 7 फ स्थितिः 8 फज मावक्षां, [माऽवज्ञां ]. 9 पफज कुलकम्. 10 [ तं सुतं ].
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International