________________
९३
-५६. १९३]
कर्कण्डमहाराजकथानकम् महादेवीं पुरः कृत्वा हस्तिनो मदशालिनः । पश्चात्तत्पृष्ठमारूढो दन्तिवाहनभूपतिः ॥ १६० ॥ एवं प्रदक्षिणां यावद् विदधाति महीपतिः । स्वपुरस्य समायातस्तावत् कश्चिन्नभश्वरः ॥१६१॥ गोत्रेण वायुवेगोऽयं वायुवेगः सुहृत्प्रभोः । रूपातिशयसंपन्नः षोडशाभरणान्वितः ॥ १६२ ॥ अनेन वायुवेगेन विद्यागर्जद्धनो दिवि । विसर्जितेन्द्रचीपश्रीचित्रीकृतनभस्तलः ॥ १६३ ॥ एकैकं शीतलं बिन्दु गन्धयुक्तं जलस्य च । किरन्विसर्जितोऽनेन मन्दं मन्दं समीरणः ॥१६४॥ । विलोक्य तं धनं वीभ्रं मुञ्चन्तं जलविग्रुषः । समीरणं समाघ्राय सुगन्धीभूतदिग्मुखम् ॥१६५॥ शल्लकीवनविन्ध्यस्य नानातरुविशालिनः । नर्मदातिलकः कुम्भी सस्मार स्वनिषेविणः ॥ १६६ ॥ तदानीं सर्वलोकानां पश्यतां बलिनामपि । महादन्तिपुराटव्याः सन्मुखो वलितः करी ॥१६७॥ तस्मिन् करिणि वेगेन गच्छति द्रुतलीलया । पद्मावती जगादेशं नीयमानं महाटवीम् ॥ १६८ ॥ मत्कृतेन तवापीश चोपसर्गों महानयम् । भवद्भिर्नाशमायातैर्धरा सर्वाऽपि नश्यति ॥ १६९ ॥ 10 तेन त्वं वृक्षशाखाग्रं गृहीत्वाऽऽसन्नगोचरम् । नगराजसमुत्तुङ्गान्नागादवतर द्रुतम् ॥ १७० ॥ .. अहं दुःखभरकान्ता स्वकर्मफलचोदिता । गजेन सह गच्छामि दैवमालम्ब्य भूपते ॥ १७१॥ देवीक्षमापणं कृत्वा राजा तद्वचनादरम् । वृक्षशाखां समादाय हस्तिनोऽवततार सः ॥ १७२॥ देवीगुणान्तरस्योचैः स्मरन् दुःखितमानसः । भार्यानिहितचेतस्को जगाम स्वगृहं नृपः ॥ १७३॥ पद्मावतीं समादाय कलिङ्गविषयानुगाम् । नर्मदातिलको हस्ती प्राप दन्तिपुराटवीम् ॥ १७४ ॥ 15 नानापद्मसमाकीण हंससारसनादितम् । समुद्रमिव तोयाढ्यं प्रविवेश सरोवरम् ॥ १७५ ॥ . ततः पद्मावती देवी नर्मदातिलकादरम् । उत्तीर्य भूधरोत्तुङ्गादुत्ततार जलाद्भुवम् ॥ १७६ ॥ जलदेवीव सा तस्थौ सरोवरतटे तदा । न्यग्रोधपादपाधःस्था वीक्षमाणा दिगन्तरम् ॥ १७७॥ अत्रैकक्षणमास्थाय ततः पद्मसरोवरात् । उत्तीर्य सहसा दन्ती जगाम स्वमनीषितम् ॥ १७८ ॥ पद्मावती च तत्रत्यमालाकारेण साधुना । तदा दन्तिपुरस्यान्ते दृष्टा शतभटेन सा ॥ १७९ ॥ .. 20 वनदेवीमिवालोक्य रूपयौवनसंगताम् । भगिनीप्रेमरागेण निन्ये तां स्वगृहं सकः ॥ १८ ॥ तस्मिन् दन्तिपुरे साध्वी तगृहे भोजनादिकम् । कुर्वती प्रीतचेतस्का तस्थौ पद्मावती सुखम् ॥१८१॥ यावत्तिष्ठति सा तत्र पुष्पाण्यादाय मालिकः । जगाम तानि विक्रेतुं ग्राममन्यं धनेच्छया ॥१८२॥ विपरीतमनोवृत्त्या तावत्तद्भार्यया गृहात् । निर्धाटिता तया साध्वी प्रसवानेहसि द्रुतम् ॥१८३॥ ततो दन्तिपुरासन्नं नानाऽनोकुहसंकुलम् । सका महाभयं नाम श्मशानं प्राप भीषणम् ॥१८४॥ 25 सर्वलक्षणसंपूर्ण सर्वावयवसुन्दरम् । प्रसूता दारकं तत्र तदा पद्मावती शुभम् ॥ १८५॥ तोषशोकसमायुक्ता बालादित्यसमप्रभम् । पश्यन्ती बालकं तत्र तस्थौ सा त्रस्तमानसा ॥१८६॥ अत्रान्तरे महाभीमो बालदेवो वियचरः । चितां मातङ्गरूपेण तां स रक्षन् वितिष्ठते ॥ १८७ ॥ दृष्ट्वा तां दूरदेशस्थो विनयानतविग्रहः । पद्मावती महादेवीं प्राह विद्याधरो गिरम् ॥ १८८॥ यथा भगवति स्पष्टं मद्वृत्तान्तप्रवृत्तकम् । आकर्णयैकचित्तेन समासेन ब्रवीमि ते ॥ १८९॥ 10 अत्रास्ति भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । सर्वरूप्यमयस्तुङ्गो विजया| महीधरः ॥१९॥ तत्रास्ति दक्षिणश्रेण्यां मणिप्रासादभासितम् । बहुविद्याधरावासं पुरं विद्युत्प्रभं परम् ॥ १९१ ॥ तत्र विद्याधराधीशो राजा विद्युत्प्रभः प्रभुः । बभूव तन्महादेवी विद्युल्लेखा प्रभोज्वला ॥ १९२॥ तत्पुत्रो बालदेवोऽहं हेममाला मम प्रिया । दक्षिणाशां प्रहृत्यामा निवृत्तस्तत्प्रदेशतः ॥१९३॥
1 प चतुष्कुलकम् फज चतुष्कलकम्, १ फज चापाश्री. 3 पफ युग्मम् , ज युगलम्, 4 4 चतुकुलकम् , फज चतुष्कलकम्. 5 पज तत्र सा माला. 6 पतं. 7 प विद्युत्पुर. ४प निर्वृत'. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org