________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५६. १२८शर्वरीभोजनं हित्वा नागदत्ता मुनीरणात् । सुताधनमतीपार्श्वे नालन्दनगरं ययौ ॥ १२८ ॥ सुतां धनमती प्राप्य रात्रिभोजनकं तया' । पुत्रीसंसर्गतो नूनं विहितं नागदत्तया ॥ १२९ ॥ कौशाम्बी नगरी प्राप्य भुक्तं रात्रौ तया पुनः । एवं वारत्रयं भग्नं रात्रिभोजनकं व्रतम् ॥१३०॥ पुनश्चतुर्थवेलायां कौशाम्ब्याख्यपुरीस्थिताम् । कनिष्ठकां सुतां प्राप्य नागदत्ता मृतिं गता ॥१३१॥ शुभाशुभास्रवोपेता वसुपालस्य तत्पुरि । जाता वसुमतीगर्भ सुता कमानुभावतः॥१३२॥ यदा च गर्भसंभूता सका वसुमती तदा । श्वासकाशादिभी रोगैर्गृहीताऽतीव दुःखदैः ॥ १३३॥ जातमात्रां निधायाशु मञ्जूषायां प्रयत्नतः। कौशाम्ब्यां वसुपालस्य वसुमत्याः सुतामिमाम् ॥१३४॥ मुक्तां कर्मानुभावेन पूर्वोत्थेन बलीयसा । लब्ध्वा वर्धयतां कोऽपि कृपया पुण्यरक्षिताम् ॥१३५॥
इत्यङ्किताङ्गुलीरत्नरत्नकंबलसंवृता । निर्विण्णया महादेव्या निक्षिप्ता यमुदाह्रदे ॥१३६ ॥ 10 तरीव काष्ठमञ्जूषा प्रवाहस्यातिवेगतः । नीयमाना प्रयागे' सा प्राप गङ्गाप्रवाहकम् ॥ १३७॥
अङ्गकाख्यमहादेशे चम्पायां पुरि भूपतिः। दन्तिवाहननामाऽऽसीद् वसुमित्राऽस्य वलभा ॥१३८॥ चम्पापुरीसमीपेऽस्ति कुसुमोपपदं पुरम् । कच्छिकः कुन्ददन्तोऽस्य भार्या कुमुददन्तिका ॥१३९॥ तदानीं कुन्ददन्तेन निर्गतेन पुराबहिः । गङ्गापद्मदे द्रष्टा सा मञ्जूषा दिनानने ॥ १४० ॥
ततोऽसौ तां समादाय मञ्जूषां वालिकायुताम् । आजगाम गृहं शीघ्रं स्वकीयं हृष्टमानसः ॥१४१॥ 15 मञ्जूषान्तः समादाय तां बालां सुकुमारिकाम् । भविष्यति सुता तेऽसौ स्वकान्तायै करे ददौ॥१४२॥
वृद्धिं विधाय बालायाः क्षीरादिविधियोगतः । पद्मावतीति तन्नाम कृतं कुमुददन्तया ॥ १४३॥ क्रमेण यौवनं प्राप्य कामिमानसपीडनम् । पीनोन्नतकुचद्वन्द्वा रेजे पद्मावती तराम् ॥ १४४॥ ततो विलोक्य तां कन्यां दन्तिवाहनभूपतिः । दध्यौ मनसि कस्यैषा कामबाणसमाहतः ॥१४५॥
मालाकारसुता राजन् कथिता साऽस्य केनचित् । याचयित्वाऽथ तां राजोपयेमे विधिना ततः १४६ 20 दन्तिवाहनराजेन्द्रस्तद्पहृतमानसः । पद्मावत्याः कलावत्या महादेवीपदं ददौ ॥ १४७॥
तदानीं कुन्ददन्तेन पृष्टेनानेन भूभुजा । मञ्जूषायाः स वृत्तान्तः प्रारब्धोऽस्य प्रभाषितुम् ॥१४८॥ वसुपालस्य कौशाम्ब्यां वसुमत्याः सुता वरा । नामाङ्किताङ्गुलीरत्नं रत्नकम्बलकोऽप्ययम् ॥१४९॥ एषाऽपि भूप मञ्जूषा सर्वमेतत् पुरःकृतम् । विलोक्यैवं च सर्वेषां संजातः प्रत्ययो महान् ॥१५०॥"
भुञ्जानस्य परान् भोगान् पद्मावत्या सहानया । रूपयौवनयुक्तस्य दन्तिवाहनभूभुजः ॥ १५१॥ 25 योऽसौ गोपालकस्तत्र पद्मन कृतपूजनः । विष्टः पद्मावतीगर्भे जीवितेन परिच्युतः ॥ १५२॥ तस्मिन् गर्भस्थिते सत्त्वे दोहलोऽस्या बभूव च । दुर्बलां तनुमालोक्य पप्रच्छेमां महीपतिः॥१५३॥ मन्मनोलोचनानन्दे मज्जीवितविधायिनि । ब्रूहि किं कारणं देवि शरीरं तव दुर्बलम्" ॥१५४॥ भर्तृवाक्यं समाकर्ण्य जगौ पद्मावती तकम् । मद्गर्भावस्थिते सत्त्वे दोहलोऽयं ममेदृशः ॥ १५५॥ नरवेषं समादाय भवता सह वल्लभः । अधिरुह्य समुत्तुङ्गं नर्मदातिलकं" गजम् ॥ १५६॥ ॥ मेघे मुञ्चति सत्तोयं मन्दमन्दप्रगर्जितम् । प्रदक्षिणं करोम्याशु यदि चम्पापुरः प्रभो ॥ १५७॥" निशम्य तद्वचो राजा नर्मदातिलकं द्विपम् । वनरैः कारयामास सारसर्जितमण्डितम् ॥ १५८ ॥ षोडशाभरणोपेतां कृतकौतुकमङ्गलाम् । पद्मावती महादेवी नरवेषां चकार सः ॥ १५९ ॥
1 फ तथा. 2 फ पुरःस्थिता, ज पुरःस्थितां. ३ पज स्रवोपेता. 4 प मुक्त्वा. 5 फ निक्षिप्तायमुदेह्रदे, [निक्षिप्ता यमुनाह्रदे]. 6 पफज त्रिकलम्. 7 प प्रयोगे. 8प कच्छिकः-मालाकारः, 9 फहृष्टमानसः. 10 पफज युग्मम्. 11 फज दुर्लभम्. 12 पफज युग्मम्. 13 [वल्लभ ]. 14 प निर्मदातिलकं. 15 पज त्रिकलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org