________________
-५६. १२७ ]
कर्कण्डमहाराजकथानकम्
९१
I
॥
तेनाहं त्वं च' संप्राप्य तत्समीपं त्वरान्वितः । अनेन शतपत्रेण कुर्वे तस्य पदानम् ॥ ९५ ॥ राजाऽयं धनदत्तेन भणितो नीलनामकः । सर्वलोकगुरुः श्रीमान् सर्वलोकनमस्कृतः ॥ ९६ ॥ समस्तसाधितारातिः समस्तजनवल्लभः । तेन तेऽनेन पद्मेन पूजयामि पदाम्बुजम् ॥ ९७ ॥ आकर्ण्य धनदत्तस्य वचनं भक्तितत्परम् । तदा नीलो बभाणेमं जिनभक्तिपरायणः ॥ ९८ ॥ सर्वलोकगुरुर्नाहं नाहं पूज्योऽखिलैर्जनैः । पूजयानेन पद्मेन सर्वसत्त्वहितं मुनिम् ॥ ९९ ॥ नीलखेटवचः श्रुत्वा धनदत्तो मुनिं जगौ । पूजयामि भवत्पादौ पद्मेन त्वद्गुरुत्वतः ॥ १०० ॥ निशम्य तद्वचो मौग्धं जगादेमं यतीश्वरः । नाहं भवामि सर्वस्य लोकस्य गुरुरूर्जितः ॥ १०१ ॥ त्रैलोक्यस्य गुरुः श्रीमान् छत्रत्रयविराजितः । सिंहासनोपविष्टोऽयं जिन ः पूज्यः सुरासुरैः ॥१०२॥ तेन त्वमस्य वन्द्यस्य पूज्यस्य विबुधाधिपैः । पूजां कुरु महाभक्त्या कमलेन विकाशिना ॥ १०३ ॥ जैनस्य पादपद्मस्य धनदत्तः प्रपूजितम् । एकेन शतपत्रेण चकार बहुभक्तितः ॥ १०४ ॥ पद्मपूजावसाने च जिनं नत्वाऽतिभक्तितः । धनदत्तोऽगमद् गेहं धनमित्रसमं मुदा ॥ अत्रास्ति भरतक्षेत्रे श्रावस्ती नगरी परा । धनधान्यसमाकीर्णा 'धानदी नगरीव सा नागदत्तोऽभवदस्यामिभ्यो' धनपतिर्महान् । नागदत्ता प्रिया चास्य नागिनीव कलखना ॥ नागदत्तस्य तस्यैको नित्यभोजी द्विजो गृहे । नागदत्तासमं सोऽपि विधर्मं कुरुते तराम् ॥ तच्चेष्टितं परिज्ञाय नागदत्तो विशुद्धधीः । मुनेः सागरसेनस्य समीपे सोऽग्रहीत् तपः ॥ उग्रं तपो विधायासौ सामान्यनरदुष्करम् । नाके मनोहरो देवः संजातस्तपसः फलात् ॥ ततोऽवतीर्य तन्नाकान्नागदत्तचरः सुरः । वसुपालस्य चम्पायां वसुमत्याः सुतोऽभवत् ॥ दन्तिवाहननामाऽयं रूपरा जितविग्रहः । कलाविज्ञानसंपन्नो रूपीव मकरध्वजः ॥ ११२ ॥ तया समं वसंस्तत्र चिरकालं स माहनः । कालेन पञ्चतां नीतः कालो हि बलवानलम् ॥ ११३॥ संसारं स परिभ्रम्य कलिङ्गविषये महान् । जातो दन्तिपुराटव्यां नर्मदा तिलकः करी ॥ ११४ ॥ 20 कदाचित् केनचित्तत्र स्वस्य गौरवमिच्छता । आनीतः प्राभृतं हस्ती दन्तिवाहनभूभुजः ॥ ११५ ॥ तामलिप्तौ पुरे श्रेष्ठी वसुमित्रो महाधनः । तस्य भार्याऽभवत् तन्वी नागदत्ता प्रियंवदा ॥ ११६ ॥ नागदत्ता चिरं भ्रान्त्वा संसारे सारवर्जिते । बभूव चानयोः पुत्री धनोपपदिका मतिः ॥ ११७ ॥ नालन्द नगरे श्रेष्ठी धनदत्तोऽभवद्धनी । उपासकोऽस्य भार्या च धनमित्राऽतिरूपिणी ॥ अनयोः प्रेमसंसक्तचेतसोः प्रीतिकारकः । रूपी विनयसंपन्नो धनपालोऽभवत् सुतः ॥ ११९ ॥ 25 बालादित्यसमानाय धनपालाय धीमते । दत्ता धनवती" तस्मै पितृभ्यां प्रीतिकारिणी ॥ १२० ॥ अन्या वसा द्वितीया स्याद् धनश्रीः श्रीसमप्रभा । रतिरूपसमाकारा कोकिलेव कलखना ॥१२१॥ विषये वत्सकावत्यां कौशाम्बी नगरी श्रुता । नृपोऽस्यां वसुपालोऽभूद् भार्या वसुमती परा ॥ १२२॥ वसुदत्तोऽस्य सच्छ्रेष्ठी श्रावको जिनभक्तितः । धनश्रीरस्य सा दत्ता पितृभ्यां श्राविकाऽभवत् १२३ एवं सति गते काले वसुदत्तो मृतिं सृतः । नागदत्ताऽतिशोकेन कौशाम्बीनगरीमिता ॥ १२४ ॥ ३७ विलोक्य मातरं प्राप्तां नागदत्ताभिधां पुरः । प्रोत्थाय स्नेहतो बाढं धनश्रीरालिलिङ्ग ताम् ॥ १२५ ॥ परस्परकृतारोदं सुखदुःखसमागमम् । माता सुखं तदा तस्थौ स्नेहनिर्भरमानसा ॥ १२६ ॥ अन्येद्युर्नागदत्तां च धनश्रीर्निजमातरम् । निनाय मुनिसामीप्यं शोकम्लानमुखाम्बुजाम् ॥ १२७ ॥
११८ ॥
Jain Education International
१०५ ॥
१०६ ॥
१०७ ॥
1 [ त्वां च ] 2 पफज युग्मम्. 3 पफज युग्मम्. 4 पफज युग्मम् 5 पफज त्रिकलम् 6 प ( = धनदस्येयं धानदी ). 7फ भवेदस्यामिभ्यो. 8 फ omits some words. 9 पफज युग्मम्. 10 पज धनमती.
For Private & Personal Use Only
5
10
१०८ ॥
१०९ ॥ s
११० ॥
१११ ॥
www.jainelibrary.org