________________
हरिषेणाचार्यकृते बृहत्कथाकोशे कुर्वन्तं नीरसंघेन वामलूरस्य सेवनम् । पूजयन्तं तथा पद्मः करेण बहुभक्तितः ॥ ६३ ॥ त्रिःपरीत्य कृतस्थानं भूमिविन्यस्तमस्तकम् । शुक्लीकृतनभोदेशं वामलूरपुरःस्थितम् ॥ ६४॥ षष्ठोपवासमादाय तत्पुरः प्रीतमानसौ । तदा नील-महानीलौ तस्थिवांसौ विचक्षणौ ॥६५॥ देवता तो समालोक्य वल्मीकपुरतः स्थितौ । स्वरूपं दर्शयामास तद्भक्तिप्रीतमानसा ॥६६॥ 5 किमर्थं पतितौ भद्रौ वल्मीकाग्रे मनस्विनौ । ब्रूतं प्रयोजनं वत्सौ मम शीघ्रं सुचेष्टितौ ॥ ६७ ॥
देवतावाक्यमाकर्ण्य प्रोक्तवन्तौ तकौ तकाम् । स्थितावत्र प्रयत्नेन भद्रे स्वपदवान्छया ॥ ६८॥ देवता तद्वचः श्रुत्वा जगादैतौ स्फुटाक्षरम् । श्रूयतां मद्वचो भद्रौ सत्यं वच्मि सुखप्रदम् ॥६९॥ अत्र पार्श्वजिनेन्द्रस्य निखाताऽर्चाऽवतिष्ठते । मया निवेदितं सत्यं अधुना कुरुतं हितम् ॥७॥ तद्वाक्यतोऽमुतस्ताभ्यामुत्खाता प्रतिमा सका । सहस्रस्तम्भसंयुक्ते लयने स्थापिता पुनः ॥ ७१॥ 10 फाल्गुनाष्टाह्निकायां च दिनान्यष्टौ महामहम् । कृत्वा नीलमहानीलौ सविद्यौ स्वपुरं गतौ ॥७२॥
अन्ये तु सूरयोऽन्येषां वदन्ति वचनं पुरः । आचार्याणां क्रमायातं सत्यं तदपि जायते ॥ ७३ ॥ वल्मीकान्तात् समादाय कर्कण्डाख्येन भूभुजा । सहस्रस्तम्भसंपन्ने लयने स्थापिता सका॥७४॥ दृष्ट्वोत्खातामिमामों कुञ्जरो भक्तितत्परः । सल्लेखनां चकारासौ हस्तिकूटगिरौ तदा ॥ ७५ ।।
नानातूर्यकलारावे कल्पे माहेन्द्रनामनि । जातो महर्द्धिको देवो हारकुण्डलराजितः ॥ ७६॥ 15 अथ नील-महानीलभ्रातृयुग्मस्य तत्क्षणात् । दृष्ट्वा पार्श्वजिनेन्द्रस्य प्रतिमां परमोदयाम् ॥ ७७॥ छिन्ना याः सकला विद्याः संग्रामे खेचरेश्वरैः । महाप्रभावयुक्तास्ताः प्रादुरासन् सुधर्मतः॥७८॥ नीलस्य कुर्वतो राज्यं महानीलसमं तदा । तेरापुरवरे श्रेष्ठी धनमित्रोऽभवद्धनी ॥ ७९ ॥ तद्भार्या रूपसंपन्ना धनोपपदिका मतिः । एकोऽस्य धनदत्ताख्यो गोपालो धनपालकः ॥ ८॥
अन्यदा गाः समादाय कच्छं शष्पजलान्वितम् । नदीसरोवराकीण जगामायं कलं नदन् ॥८१॥ 20 दृष्ट्वा सरोवरं तत्र जलपद्मविराजितम् । गृह्णाम्यत्र वरं पद्मं बभूवास्य मतिस्तदा ॥ ८२ ॥
देवतारक्षिते तत्र सपझे सरसि स्फुटम् । प्रवेष्टुं लभते नासौ बलवानपि मागधः ॥ ८३॥ तत्रैकं मुग्धभावेन धनदत्तेन शोभनम् । प्रविश्यान्तर्महापमं गन्धामोदितदिग्मुखम् ॥ ८४ ॥ सपमं तत्र संवीक्ष्य रोषतोषसमन्विता । मुग्धभावसमायुक्तं तं जगौ नागदेवता ॥ ८५ ॥ सर्वलोकप्रधानस्य देवदेवस्य बालक । त्वया शिरसि कर्तव्यं भक्तिनिर्भरचेतसा ॥ ८६ ॥ 25 यद्येवं न करोषि त्वं मद्वचस्त्वत्सुखावहम् । तदा तव स्वहस्तेन निग्रहं विदधाम्यहम् ॥८७॥ शतपत्रं तदादाय विबुध" गन्धराजितम् । धनदत्तः पुरं प्राप्य दध्याविति सविस्मितः ॥ ८८॥ धनदत्तो मम श्रेष्ठी सर्वलोकमहत्तरः । सर्वस्वामी पुनः सर्वैः स्तूयते प्रीतमानसैः ॥ ८९॥ तेन तस्यान्तिकं प्राप्य पादपूजां करोम्यहम् । इति पद्मकरस्तस्थौ श्रेष्ठिनः पुरतः सकः ॥९०॥"
धनदत्तं समालोक्य पद्महस्तं पुरः स्थितम् । धनमित्रो जगादतं पुत्र किं कर्तुमुद्यतः ॥ ९१॥ 30 निशम्य श्रेष्ठिनो वाक्यं धनदत्तो जगावमुम् । सर्वलोकगरीयांसो भवन्तः पूजिताः सताम् ॥९२॥
युष्माकं तेन कार्येण पञनानेन पादयोः । करोमि पूजनं तात सर्वलोकमनःप्रिय ॥ ९३ ॥ धनदत्तवचः श्रुत्वा धनमित्रो वभाण तम् । अस्माकं सर्वदा स्वामी नीलः पूज्यः सतामपि ॥९४॥
__ 1 [सेचनम् ]. 2 पफज त्रिकलम्. 3 फज पुरः स्थितो. 4 फ लयिने. 5 प युग्मम् , फज युगलमू. 6 प शिष्यजलान्वितम्. 7 प नदम्, (-हृदम्). 8 फज शोभनाम्. ) फ मदचस्तत्सुखावहम्. 10 फज विदधाम्यरम्. 11 [विबुद्धं ]. 12 पत्रिकुलकम् , फज त्रिकलम्. 13 फ मन:प्रियः. 14 प युग्मम्, फज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org