________________
-५६. ६२]
कर्कण्डमहाराजकथानकम् अत्रान्तरे सुरः खर्गेऽमितवेगचरो महान् । अवधिज्ञानमासाद्य दध्याविति स धीरधीः ॥ ३२ ॥ सुवेगखेचरो दिव्यः कनीयान् मे सहोदरः। पञ्चतां प्राप्य मिथ्यात्वात् क चोत्पन्नः सुधीरधीः॥३३॥ अवधिज्ञानतो दृष्टः पूतिपर्वतमस्तके । सितदन्तो महाहस्ती प्रालेयगिरिसंनिभः ॥ ३४ ॥ अणुव्रतानि पञ्चापि त्रिभिः सह गुणवतैः । शिक्षाव्रतैश्चतुर्भिश्च रात्रिभोजनवर्जनम् ॥ ३५ ॥ मधु मद्यं तथा मांसं पंचुंबरपरिच्युतिम्' । सम्यक्त्वपूर्वकं देवो ग्राहयामास तं गजम् ॥ ३६॥ । सागारधर्ममादाय मुनिदेवोपदेशतः । दध्यौ हस्तिवरस्तत्र तदालोकनतत्परः ॥ ३७॥ पापोऽहं पापकर्माऽहं पापनिर्मितदेहकः । पूर्वजन्मान्तरभ्रष्टस्तिर्यग्गतिमुपागतः ॥ ३८ ॥ गच्छन् महाटवीमध्ये क्व जिनार्चा व योगिनम् । पश्याम्यत्र नगे भीमे दृष्टं मे पुण्यतो द्वयम् ॥३९॥' एवं वैराग्यमापन्नं कुञ्जरं प्रविलोक्य सः । भूयो देवमुनिः प्राह स्नेहनिर्भरमानसः ॥४०॥ प्रदेशेऽस्मिन् गजाधीश पार्श्वदेवप्रयातना । निखातपूर्वा साऽस्माभिस्तिष्ठत्वद्यापि निश्चितम् ॥४१॥ ॥ अतः सरोवराद्भव्यात् पद्माद्यादाय भक्तितः । इष्ट्वाऽमूभिर्जिनं पाच त्रिकालं तन्नुतिं कुरु ॥ ४२ ॥ यदा कोऽपि त्विमाम_मुत्खाय च ग्रहीष्यति । तदा त्वं सर्वमाहारं हित्वा सल्लेखनां कुरु ॥४३॥ अग्र स्खं निवेद्यास्यामितवेगखगेश्वरः । इदमुक्त्वा गजं शीघ्रं मुनिदेवो ययौ दिवम् ॥४४॥ . गजः करेण पद्मानि गृहीत्वा सरसो जलम् । विस्तीर्णपद्मिनीपत्रे सितमुक्तासमाकृति' ॥४५॥ अभिषिच्य जलेनाा पद्मः पूजां विधाय च । त्रिःपरीत्य नुतिं कृत्वा वनं याति सुलीलया ॥४६॥ 15 अथेह भरतक्षेत्रे भव्यशस्यफलप्रदे । स्थितं तदक्षिणे भागे विजयार्धमहीभृतः ॥४७॥ पुरं च चक्रवालाख्यं रथनूपुरपूर्वकम् । धनदस्य पुरस्येदं करोति विजिगीषुताम् ॥ ४८॥" तत्र नील-महानीलौ भवेतां भ्रातरौ परौ । युद्धे पराजितावन्यैर्विद्याधरकुमारकैः ॥४९॥ महापराक्रमोपेतैः स्ववीर्यबलशालिभिः । विद्याच्छेदं विधायाशु धाटितौ तौ स्वपत्तनात् ॥ ५० ॥ धाराशिवप्रपाल्यां" च दृष्ट्वा निक्षेपयातनाम् । भूयो विद्या भविष्यन्ति चानयाऽवस्थया हि तौ ॥५१॥ 20 अभीराख्यमहादेशे तेराख्यनगरं परम् । तदा नीलमहानीलौ प्रयातो विजिगीषया ॥५२॥ सर्वत्र विषयेऽमुष्मिन् ये केचन महानृपाः । तान् सर्वान् स्ववशे कृत्वा निर्गतौ तत्पुरात् पुनः॥५३॥ तेरादक्षिणादिग्भागे गन्यूतित्रयसंगतम् । अध्वानं तावतिक्रम्य प्रविष्टौ भीषणं वनम् ॥ ५४॥ तत्र धाराशिवाभिख्यौ महाबलसमन्वितौ । सर्वभिल्लाधिपौ भिल्लौ वसतः स्म बलोत्कटौ ॥ ५५ ॥ ततो नीलमहानीलौ विद्याधरकुमारको । आगत्य पूजितौ ताभ्यां विनीताभ्यां धनादिना ॥ ५६ ॥ 25 नीलेन भ्रातृयुक्तेन सभामध्यस्थितेन तौ । इदं प्रयोजनं पृष्टौ तदानीं पुरतः स्थितौ ॥ ५७॥ विचरद्भ्यां वने वत्सौ भवद्भ्यां शूरभीतिदे । किं वापि दृष्टमाश्चर्य बुधविस्मयकारणम् ॥ ५८॥ श्रुत्वा तद्वचनं धारस्तदा शिवसमन्वितः । जगाद हृष्टरोमाऽयं नीलं भ्रातृसमन्वितम् ॥ ५९॥ अभिषिञ्चन् जलैरथ्यं पूजयन् कमलैस्तथा । महासरोवरान्नीतैः करेण त्रिःपरीत्य तं ॥ ६॥ गिरीन्द्रसदृशाकारो मन्दमन्दगतिक्रियः । अस्माभिः स व्रजन् दृष्टो राजन् सिततनुः करी ॥६१॥ ॥ ततो नीलमहानीलौ तदानीं तत्पुरस्सरी । प्राप्य वल्मीकसंस्थानं दृष्टवन्तौ महागजम् ॥ ६२॥
1प पंचुंबरि०. 2 प युग्मम् , फज युगलमिदम्. 3 फज योगिनाम्. 4 प युग्मम् , फ युगलम् , ज युगलमिदम्. 5 पज पद्मान्यादाय. 6 प चतुःकुलकम् , फ चतुष्कलमिदम् , ज चतुष्कलकमिदम्.7 समाकृतिः. 8 प खलीलया. 9 प युग्मम् , फज युगलमिदम्. 10 फ भव्यवास्य. 11 प युग्मम्, फ युगलम् , ज युगलमिदम्. 12 ज प्रपल्या. 13 प केचिन्महानृपाः. 14 [जलेरN ].
बृ० को० १२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org