________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
५६. कर्कण्डमहाराजकथानकम् ।
१२ ॥
१३ ॥
॥
१४ ॥
१५ ॥
अथ लङ्कापुरि श्रीमान् राजाऽऽसीद्रावणान्वये । सूर्यप्रभोऽस्य भार्या च श्रीषेणा श्रीसमप्रभा ॥ १ ॥ अन्यदाऽतिमनःकान्ते मलये विषयान्तके । मलयाख्यगिरिं यातो भूपतिः श्रीतमानसः ॥ २ ॥ मलयाचलमूर्धानं दृष्ट्वेमं रामणीयकम् । तोषपूरितचेतस्को दध्याविति स विस्मितः ॥ ३ ॥ सितीकृतनभोभागान् कारयित्वा जिनालयान् । ऋषभादिजिनेन्द्राणामेष्वर्चाः स्थापयाम्यहम् ॥ ४ ॥ कैलासशिखरे रम्ये यथा भरतचत्रिणा । स्थापिताः प्रतिमा वर्ण्या जिनायतनपक्षुि ॥ ५ ॥ तथा सूर्यप्रभेणापि मणिकाञ्चननिर्मिताः । जिनालयेषु दिव्येषु स्थापिता जिनभक्तितः ॥ ६ ॥ विद्याधरजनैः साकं विनिर्वर्त्य महामहम् । तद्भूमिखातिकां कृत्वा जगामायं यथागतम् ॥ ७ ॥ विजयार्धे नगोत्तुङ्गे चोत्तरश्रेणिसंभवम् । विमानं चामरं वास्ति पुरं गगनवल्लभम् ॥ ८ ॥ 10 तत्र द्वौ भ्रातरौ स्यातां सर्वविद्याधराधिपौ । सुवेगामितवेगाख्यौ सम्यग्दर्शनभूषितौ ॥ ९ ॥ कुत्रिमा कृत्रिमार्चानां सर्वपर्वदिने युतौ । मन्दिरादिषु कुर्वाणौ वन्दनां कुं विचेरतुः ॥ १० ॥ लङ्कादक्षिणभागे तौ विधाय जिनवन्दनाम् । दक्षिणापथ देशस्थे मलये विषयान्तिके ॥ ११ ॥ भूतिपर्वतमायातौ श्रीखण्डतरुसंकुलम् । भक्तिनिर्भरचेतस्कौ जिनबिम्बानि वन्दितुम् ॥ तत्र तौ वन्दनां कृत्वा भक्तिनिर्भरमानसौ । पश्यन्तौ प्रतिमां जैने मन्दिरे तस्थतुर्मुदा ॥ तिष्ठतोरनयोस्तत्र पार्श्वदेवस्य यातनाम् । विलोक्यामितवेगेन सुरूपां चिन्तितं तदा कारयित्वा परां दिव्यां विजयार्थे ' जिनालये । प्रतिमां पार्श्वदेवस्य स्थापयामीदृशीमहम् ॥ व्रजन्नमितवेगोऽयं गृहीत्वा प्रतियातनाम् । कलिकुण्डस्य तां भूयो मुमोच लयनान्तरे विधाय तां नुतिं भक्त्या यावदुत्क्षिपति प्रभुः । तावत्तत्प्रतिमाऽत्रैव तस्थौ निश्चलविग्रहा ॥ ततो मज्जूषिकान्तस्थां तदच भूमिसंगताम् । विधायासौ प्रयत्नेन तेराख्यं पुरमाययौ ॥ १८ ॥ सहस्रकूटसंख्याने समुत्तुङ्गे जिनालये । मुनिर्यमधरस्तत्र तिष्ठति स्थिरमानसः ॥ १९ ॥ ततस्ताभ्यां विनीताभ्यां तन्नतिं प्रविधाय च । पार्श्वनाथस्य वृत्तान्तः सकलोऽस्य निवेदितः ॥२०॥ अस्माभिः पार्श्वनाथाच प्रारब्धा पूतपर्वतात् । आनेतुमत्र संलग्ना स्थिता सा तन्नगोपरि ॥ २१ ॥ किं निमित्तमिदं नाथ न विज्ञातं प्रयोजनम् । अस्माभिस्तत्पुनः क्षिप्रं कथयेश ममाधुना ||२२|| ' निशम्य तद्वचो योगी जगादेमं च तद्विरौ । भविष्यति मनोहारि दिव्यमायतनं खगः ॥ २३ ॥ 25 अयं सुवेगखेटोऽपि तदर्चां वीक्ष्य निश्चितम् । अपरत्र भवे साधो जिनधर्मं ग्रहीष्यति ॥ २४ ॥ श्रुत्वाऽन्यभवसंबन्धं सुवेगस्य महामुनेः । " दीक्षाम मितवेगोऽपि तत्समं सहसाऽग्रहीत् ॥ २५ ॥ अथ मिथ्यात्वमासाद्य सुवेगमुनिरर्दितः । परीषहभटैरार्तध्यानतो मृतिमाप सः ॥ २६ ॥ तत्पर्वतसमीपे च तदर्चास्थानके सकः । बभूव भीषणाकारः श्वेतवर्णो महागजः ॥ २७ ॥ विधायामितवेगोऽयं तपो घोरं महामुनिः । बभूव भासुराकारो देवो दिवि महर्द्धिकः ॥ २८ ॥ पूर्वोक्तप्रतिमा सा च निक्षेपविहिताऽत्र या । आनीताऽमितवेगेन लङ्कायां स्थापिता पुनः ॥ २९ ॥ विलोक्य प्रतिमामेतां कर्कण्डाख्यो " नराधिपः । अधोलयनमध्यस्थां चकारायं विशुद्धधीः ॥ ३० ॥ इदं कथान्तरं भव्यं भव्यानां निगदन्त्यमी । जिनराद्धान्तनिष्णाताः सूरयस्तत्त्ववेदिनः ॥ ३१ ॥
॥
१६ ॥
१७ ॥
15
20
30
5
૯૮
1 पफ विनिर्वत्य, प (= निर्माध्य). 2 फज वामरं. 3 पफज युग्मम्. 4 ज यातनां= प्रतिमाम् 5 फज वैजयार्थे 6 पफ तदर्थां 7 प युग्मम्, फज युगलमिदम्. 8 [ खग ]. 9 प युग्मम् ज युगलमिदम्. 10 पज तद्दीक्षा 11 फ कार्कण्डाख्यो.
Jain Education International
[ ५६.१
For Private & Personal Use Only
www.jainelibrary.org