________________
-५५. ५५ ]
कर्कण्डमहाराजकथानकम्
विहायापघनं येन विष्णुलोकं समागताः । विष्णुलोके प्रभुञ्जाना भोगांस्तिष्ठन्ति ते परान् ॥ २८७॥ तथा तपः प्रकुर्वन्ति हित्वा पूर्तिकलेवरम् । विष्णुलोकपरिप्राप्तेः संसारत्रस्तचेतसः ॥ २८८ ॥ कलेवरमिदं दग्ध्वा बाह्याभ्यन्तरतोऽशुचि' । इहत्यमनुजा यान्तु विष्णुलोकं महासुखम् ॥ २८९ ॥ अनेन कारणेनेश कथितं तच्छरीरकम् । दग्धं मयाऽतिभावेन तत्सुखावाप्तिकारणात् ॥ २९० ॥ ततो राजा महादेव्या निशम्य वचनं तथा । तूष्णीभावं परिप्राप्य तस्थावन्तः प्रकोपवान् ॥ २९९॥ अन्यदा प्रस्थितो राजा पापद्धय क्रुद्धमानसः । पथि स्थानस्थितं वीरं दृष्ट्वा यमधरं मुनिम् ॥ २९२ ॥ - दध्यावनेन नग्नेन श्रमणेन दुरात्मना । मृगयाप्रस्थितस्याशु कृतो मेऽशकुनः कथम् ॥ २९३ ॥ - चेलनावैरसंबन्धं स्मृत्वा पूर्वसमुद्भवम् । शुनां पञ्चशतानीतो मोचयामास तं प्रति ॥ २९४ ॥ एवं ते बन्धनोन्मुक्ताः सिंहपोता इव द्रुतम् । मुनेः समीपतां प्राप्तास्तीक्ष्णदन्ता बृहन्मुखाः ॥ २९५ ॥ तत्प्रभावेन संभूय समस्ताः शान्तचेतसः । त्रिः परीत्य तमीशानं वन्दित्वा ते पुरः स्थिताः ॥ २९६ ॥ " विलोक्य मण्डलान् भूपस्तत्पुरो' विनयस्थितान् । मुमोच बाणसंघातं लक्ष्यीकृत्य मुनिं क्रुधा ॥ २९७॥ ततस्ते मार्गणास्तस्य भूत्वा पुष्पराजोऽमलाः । मुनिपादोपरि स्पष्टं निपेतुर्गन्धशालिनीः ॥२९८॥ राजा तत्समयेनैव सप्तमे नरके द्रुतम् । त्रयस्त्रिंशत्समुद्रोत्थं बबन्धायुः कुधीरयम् ॥ २९९ ॥ भूयोऽतिशयमीदृक्षं विलोक्योपशमं परम् । जगाम विस्मितखान्तो भक्तिहृष्टतनूरुहः ॥ ३०० ॥ मुनिं प्रदक्षिणीकृत्य वन्दित्वा स्वं विनिन्द्य च । श्रेणिकस्तत्पुरस्तस्थौ विनयानतमस्तकः ॥३०१॥ स्वयोगमुपसंहृत्य सर्वसत्त्वदयापरः । श्रेणिकस्य चकारायं धर्मश्रमणमादरात् ॥ ३०२ ॥ मुनिनाऽस्य तथा धर्मः कथितो जिनदेशितः । यथाऽयं शुद्धसम्यक्त्वो बभूव क्षणमात्रतः ॥ ३०३॥ आयुर्यदर्जितं तत्र त्रयस्त्रिंशत्समुद्रजम् । तदनेन हतं सर्वं महामुनिसमागमात् ॥ ३०४ ॥ सीमन्तनरके राजा प्रथमंश्वभ्रसंभवे" । सहस्राणां बबन्धायुरशीतिश्चतुरुत्तरा ॥ ३०५ ॥ ततो निर्वाणमापन्ने महावीरे जिनेश्वरे । तिस्रस्समाश्चतुर्थस्य कालस्य परिकीर्तिताः ॥ ३०६ ॥ तथा मासाष्टकं ज्ञेयं षोडशापि दिनानि च । एतावति गते काले नूनं दुःखमनामनि ॥ ३०७ ॥ मानसेष्टान्महाभोगान् भुक्त्वा कालं विहाय " च । पूर्वोक्तं श्रेणिको राजा सीमन्तं नरकं ययौ ॥३०८॥" अथ श्रेणिकपुत्रोऽयं कोणको नाम विश्रुतः । चकार विपुलं राज्यं मगधाविषये महान् ॥ ३०९ ॥ दुःखमासुखमाकाले प्रविष्टे श्रेणिको नृपः । भुक्तस्त्वायुःप्रमाणः” सन् सीमन्तान्निर्गमिष्यति ॥३१०॥ “अष्टाविंशार्धयुक्तस्य भोगिनः कुलकारिणः । पद्मादिपुङ्गवस्यायं भविष्यति सुतः परः ॥ ३११ ॥ द्विसप्तत्यब्दसंख्यायुः सप्तहस्तशरीरकः । सर्वलोकगुरुः श्रीमानादितीर्थकरो महान् ॥ ३१२ ॥ sa भरतक्षेत्रे मध्यमादिकमण्डले । उत्सर्पिणीतृतीयाख्ये काले जनसुखावहे || ३१३ ॥ नामतोऽयं महापद्मो लोकावस्थितिदेशिकः । द्वादशाङ्गणायुक्तो गुणशीलमहोदधिः ॥ ३१४ ॥ चतुस्त्रिंशद्गुणोपेतः प्रातिहार्यसमन्वितः । धर्मं दिशन्नसौ स्वामी विहरिष्यति महीतले " ॥३१५॥ ॥ इति श्रीक्षायिक सम्यक्त्वयुक्तविरत श्रेणिकतीर्थंकरोत्पत्तिकथानकम् ॥ ५५ ॥
25
16
米
Jain Education International
1 फ शुचिः. 2 पफज युग्मम्. 3 ज पापर्धा. 4 पफज युग्मम्. 5 ज भूपतत्पुरो. 6 फ पुष्परुजोमला. 7 फ गन्धशालिनी. 8 [ धर्मश्रवण ]. 9 फज स्व. 10 पज शंभवे 11 [ विधाय ] 12 पफज त्रिकलम्. 18 [भुक्तखायुः प्रमाणः ]. 14 प ( = चतुर्दश कुलकराः ) 15 [ भूतले ]. 16 प चतुःकुलकम्, फज चतुष्कलकम्. 17 फज युक्तात् विरतः.
८७
For Private & Personal Use Only
20
www.jainelibrary.org