________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[५५. २५५अस्यामेव पुरि श्रेष्ठी भूपतेर्धनसंयुतः । अस्ति सागरदत्तोऽस्य भार्या वसुमती परा ॥ २५५ ॥ अपरोऽपि द्वितीयोऽस्यां पुरि श्रेष्ठी महाधनः । नाना समुद्रदत्तोऽस्ति कान्ता तन्नामसंगता ॥२५६॥ अनयोः श्रेष्ठिनोरस्यां सुखेन वसतोः सतोः । बभूव परमा प्रीतिरभेद्या दुर्जनैरपि ॥ २५७ ॥ अथ सागरदत्तोऽपि स्नेहनिर्भरमानसः । समुद्रोपपदं दत्तं जगाद सरसं हितम् ॥ २५८॥ यदि मे तनया यातु' जायते तनयस्तव । ततो मयाऽस्य सा दत्ता भवत्पुत्रस्य निश्चितम् ॥२५९॥ अथवा मे सुतो भावी ते सुता दैवयोगतः । मत्पुत्राय सका देया त्वया संबन्धमिच्छता ॥२६०॥ श्रुत्वा तद्वचनं सारं स्नेहसंबन्धकारणम् । समुद्रोपपदो दत्तः प्राहेमं पुरतः स्थितम् ॥ २६१॥ शोभनं गदितं साधो त्वया स्नेहगरीयसा । प्रतिपन्नं मयाऽप्येतद्भवता सुमनीषितम् ॥ २६२॥' ततः सागरदत्तस्य वसुमत्याश्च योषितः । सो बभूव कृष्णाङ्गो रक्ताक्षो लोलजिह्वकः ॥ २६३॥ 10 दिवा भवति सोऽयं भीमभोगभयंकरः । दिव्यरूपधरो नक्तं पुरुषः सन्मनोहरः॥ २६४ ॥ देवविद्याधराकारः कर्णकुण्डलराजितः । हारराजितवक्षस्को वसुमित्राख्यया युतः ॥ २६५ ॥ ततः समुद्रदत्ताया नागदत्ता सुताऽभवत् । रूपराजितसर्वाङ्गी नागिनीव मनोहरी ॥ २६६ ॥ एषा समुद्रदत्तेन नागदत्ताऽतिरूपिणी । वितीर्णा वसुमित्राय परिणीता विधानतः ॥ २६७ ॥
वसुमित्रो दिने सर्पो नक्तं दिव्यनरो भवेत् । भोगं यथेप्सितं दिव्यं भुञ्जानो नागदत्तया ॥२६८॥ 15 पश्चात्करण्डकान्तस्थस्तोषपूरितमानसः । संतिष्ठते महाभोगी पाताले चमरो यथा ॥ २६९ ॥
तत्र समुद्रदत्तेयं नागदत्तां पुरःस्थिताम् । पप्रच्छेदं महास्नेहात्तोषकण्टकिताङ्गिका ॥ २७०॥ भवत्पतिः सुते कीदृग्गुणी रूपी न वा भवेत् । क वा वसति संप्रीतः कथयेदं ममाधुना ॥२७१॥" निशम्य जननीवाक्यं सुता प्रीतिपरायणम् । तोपपूरितचेतस्का नागदत्ता जगावमूम् ॥ २७२॥
अम्बिके वल्लभो भीमः करण्डे कनकोज्वले । दिव्येन्द्रनीलसंकाशः सो भूत्वा वितिष्ठते ॥२७३॥ 20 नक्तं पुनरसौ कान्तो दिव्यरूपधरः पुमान् । मया समं महाभोगान् भुञ्जानो व्यवतिष्ठते ॥२७४॥ प्रभातसमये सोऽयं करण्डे मणिभासुरे । भूत्वा सोऽम्बिके भोगी तिष्ठति प्रीतमानसः॥२७५॥ श्रुत्वा समुद्रदत्ताऽपि नागदत्तावचः परम् । जगौ सुतां महाप्रीत्या नानाकार्यविचक्षणा ॥२७६॥ सर्वकाले यथा पुत्रि वसुमित्रो नरो भवेत् । तथा तं ते करिष्यामि विश्रब्धीभव बालिके ॥२७७॥
एवं निगद्य तां पुत्रीं मत्तमातङ्गगामिनीम् । तदा समुद्रदत्ता सा नागदत्तागृहं ययौ ॥ २७८ ॥ 25 अथ नक्तं करण्डान्तात् कान्तासंगसमुत्सुकः। दिव्यरूपो नरः श्रीमान् वसुमित्रो विनिर्ययौ ॥२७९॥ यस्मिंस्तु समये सो निर्यातोऽतः करण्डकात् । तस्मिन्नेव स निक्षिप्तः करण्डोऽग्नौ तयाऽऽदरात् २८० करण्डो भस्मतां प्राप्तो वसुमित्रो दिवानिशम् । रूपयौवनसंपन्नो बभूव परमः पुमान् ॥ २८१॥ तस्मिन्करण्डके दग्धे भुञ्जानो यौषितं सुखम् । सर्वकालं नरो भूत्वा वसुमित्रोऽवतिष्ठते ॥२८२॥
स्वामिन् यथा तया दग्धः समुद्रादिकदत्तया । करण्डः स्वसुताहेतो गविन्यस्तचेतसा ॥ २८३॥ 30 तस्मिन्पिट्टारके दग्धे वसुमित्रः सुखान्वितः। दिव्यरूपः पुमान् भूत्वा तस्थौ मुदितमानसः ॥२८४॥
तथा मयाऽपि राजेन्द्र त्वद्देवानां खभक्तितः । विष्णुलोकं गतानां हि शरीरं दहनं कृतम् ॥२८५॥ प्रतीहि मद्वचः सत्यं मच्चेतोनयनप्रिय । न रोषेण कृतं स्वामिन् तद्देहदहनं मया ॥ २८६॥
1 [जातु]. 2 पफज त्रिकलम्. 3 प युग्मम् , फज युगलम्. 4 प युग्मम् , फज युगलम्. 5फ समुद्रदत्तोऽयं. 6 पफज युग्मम्. 7 पफज चतुष्कलम्. 8 फ यथा. 9 पफज त्रिकला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org