________________
-५५. २५४ ]
श्रेणिककथानकम् विलोक्य चलना ज्येष्ठां स्खसमं निर्गतां पुरात् । ईर्षयेमां जगादैषा मद्रुच्यानि' गृहान्नय ॥२२३॥ यावदादाय रुच्यानि स्वगृहं याति सत्वरम् । ज्येष्ठा तावदसौ जाता चेलना तत्समं मुदा ॥२२४॥ अभयादिकुमारोऽपि गृहीत्वा चेलनामरम् । तोषपूरितचेतस्कः प्राप राजगृहं पुरम् ॥ २२५ ॥ ततो ज्येष्ठाऽपि “तत्पृष्टा तन्मार्गेण विनिर्गता । चेलनां तामपश्यन्ती बभ्रामाकुलमानसा ॥ २२६॥ ततो यशोमतिं प्राप्य स्वसारं जनकस्य सा । अर्जिकां गुरुमानम्य दीक्षां जग्राह तत्पुरे ॥२२७॥ । अथाभयकुमारोऽपि सभामध्यानुयायिनः। श्रेणिकस्य नरेन्द्रस्य दर्शयामास चेलनाम् ॥ २२८॥ विलोक्य चेलनां राजा तोषविस्फारितेक्षणः । 'व्रजनं च विधायास्या महादेवीपदं ददौ ॥२२९॥ ततोऽभयकुमारं च चेलनाऽऽनयनादलम् । ग्रामादिसंपदा हृष्टः पूजयामास भूपतिः ॥ २३० ॥ परस्परमुखाम्भोजवीक्षणासक्तलोचनौ । अन्योन्यप्रेमसंबद्धौ दम्पती तौ बभूवतुः ॥ २३१॥ अथ कालानुभावेन चेलनाया गुणाकरः । बभूव वारिषेणाख्यो नन्दनः कुलनन्दनः ॥ २३२ ॥ 10 तथा हि धारिणीगर्भे समुत्पन्नः प्रियंवदः । कोणकाख्यः सुतः श्रीमान् विनयी रूपराजितः ॥२३३॥ जातः श्रेणिकभूपालो भगवासक्तमानसः । चेलनाऽपि महादेवी जिनभक्तिपरायणा ॥ २३४ ॥ ॲणिको भगवद्धर्म चेलना जैनमुत्तमम् । वक्ति चान्योन्यसंवादो वर्तते सर्वदाऽनयोः ॥ २३५ ॥ एवं याति तयोलोंके कलहेन दिवानिशम् । श्रेणिकश्चेलनां प्राह विनयेन पुरःस्थिताम् ॥ २३६ ॥ रमणो देवता नार्या लोकानां ब्राह्मणस्तथा । इदं बुधमनोहारि श्रूयते वचनं भुवि ॥ २३७ ॥ 15 भर्ताऽहं देवता तेऽत्र कुरु भक्तिं ममाधुना । यो धर्मों मम देवो वा कर्तव्यस्तेन स त्वया ॥२३८॥ ये मत्तपस्विनः केचिद्विष्णुदेवसमक्रियाः । अर्चितव्यास्त्वया तेऽपि संगरोऽयं मम प्रिये ॥२३९॥ श्रेणिकस्य वचः श्रुत्वा चेलना वदति स्म तम् । आज्ञां दत्से यथा भर्तस्तथैवाहं करोमि ताम् ॥२४०॥ एवमुक्त्वा धवस्यान्ते परिव्राजकसंहतिम् । परिप्राप्य जगादैतां चेलना भर्तृवाक्यतः ॥ २४१॥ मगृहेऽद्य प्रभोक्तव्यं भवद्भिः सकलैरपि । एवमस्त्विति तैरुक्ता जगाम स्वगृहं सका ॥ २४२ ॥ 20 ततो मध्याह्नवेलायां श्रुत्वा सर्वेऽपि माहनाः । महादेवीगृहं प्राप्ता मणिनिर्मितभित्तिकम् ॥२४३॥ कृत्वा सर्वोपकारं च तेषामासनयायिनाम् । चेलना श्रेणिकप्रीत्या पुष्पधूपादिकं ददौ ॥ २४४॥ अवतारं प्रकुर्वन्तु विष्णुपादा धवप्रियाः। एवं निगद्य तान्पार्चे शिखी "प्रज्वालितेऽनया ॥२४५॥ एवं "प्रज्वालिते वह्नौ परिव्राजकसंहतिः । भयवेपितसङ्गिा नष्टा सर्वाऽपि तत्क्षणात् ॥ २४६॥ ज्ञात्वा वृत्तान्तमेतेषां श्रेणिकः क्रुद्धमानसः । जगाद चेलनां तत्र क्रोधारुणनिरीक्षणः ॥ २४७ ॥ 25 यदि त्वं श्राविका देवि परमाऽसि नितम्बिनि । यशोव्याप्तसमस्ताशे स धर्मस्ते न रोचते ॥२४८॥ ततो मध्याह्नवेलायां क्षुधापम्पाकदर्थिताः । किं कदर्थयितुं युक्तं वद देवि तपस्विनः॥२४९॥ श्रेणिकोक्तं निशम्योचे चेलना रमणं तदा । कारणेन विना नाथ किं कुप्यसि ममोपरि ॥२५०॥ ये ते तपखिनो देव देवता वाऽधिकं भुवि । ते मेऽपि देवता किंतु पुण्यवन्तस्तपस्विनः ॥२५१॥ येषां करोषि सुष्ठु त्वं भक्तिं निर्मलचेतसाम् । तेषामहमपि स्पष्टं करोमि स्थिरमानसा ॥२५२॥ 30 ततो भक्त्या मया वह्निस्तत्समीपे नरेश्वर । प्रज्वालितो न रोषेण शृणु तत्त्वं कथानकम् ॥२५३॥ विषये वत्सकावत्यां कौशाम्बी नगरी नृपः । प्रजापालो बभूवास्यां तद्भार्या च यशोमतिः ॥२५४॥
1ज रुच्यानि-आभरणानि. 2 [याता]. 3फ प्राप्य. 4 फज तन्मृष्टा, [तत्पृष्ठात् ]. 5 प अर्यिकां. 6 फज दर्शयामास चेलनाम् ; प also like that, but corrected later in this manner. 7 पव्रजनविवाहम्. 8 ज चतुष्कम्, पफ चतुष्कलम्.9 [सर्वोपचारं]. 10 [प्रज्वालितो]. 11फ प्रज्वालितो. 12 [कदार्थतान]. 13 पफज त्रिकला.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org