________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५५. १९०
१९९ ॥
९९२ ॥
१९३ ॥
२०१ ॥
लोकचित्रकरं साधुं चित्रभूर्ति मनोहरम् । निनाय वासगेहं सा वैबुधं भवनं यथा ॥ १९० ॥ सुभद्रादिककन्यानां सप्तानां प्रतिरूपकम् । सजीवमिव तत्रेदं वासगेहे लिलेख सः ॥ विलोक्य पतितं तत्र चेलनोपरि लाञ्छनम् । दृष्ट्वा नरेन्द्रकोपं च स्थितं मानसधामनि ॥ चेलनारूपसंयुक्तं लिखित्वा पटमादरात् । चित्रभूतिस्तमादाय ययौ राजगृहं पुरम् ॥ चित्रभूतिः पटं तं च चेलनारूपचित्रितम् । तदानीं दर्शयामास श्रेणिकस्य महात्मनः ॥ १९४ ॥ निरूप्य तं पटं राजा विह्वलीभूतमानसः । पपात विष्टरादाशु मोहतो भुवमागतः ॥ १९५ ॥ भूयोऽपि चेतनां प्राप्तः सिक्तश्चन्दनवारिणा । मूर्च्छायाः कारणं पृष्टः श्रेणिको हितबन्धुभिः ॥ १९६ ॥ निशम्य तद्वचो राजा जगादेमान् पुरः स्थितान् । पट्टसंदर्शनात्प्राप्ता मूर्च्छा मे कथितं हि वः ॥ १९७॥ श्रुत्वाऽभयकुमारोऽस्य वचनं काममोहितः । बभाण जनकं शीघ्रमानयामि तकामहम् ॥ विश्रब्धीकृत्य तं तातं भूपरूपं विधाय सः । पटेऽभयकुमारोऽयं मनोहारि सतामपि ॥ वणिग्वेषं विधायायं सार्थवाहो जनावृतः । विशालिकां पुरीं प्राप्य क्रमेण कृतसंमदः ॥ २०० ॥ आदाय साररत्नानि बहुमूल्यानि भूरिशः । ददर्श चेटकं भूपं कुमारोऽभयपूर्वकः ॥ ततो नराधिपस्तुष्टः प्राहेमं विनयस्थितम् । किमत्र याचसे स्पष्टं कथयाशु ममाधुना ॥ २०२ ॥ श्रुत्वा चेटकराज्ञोऽस्य वचनं स जगावमुम् । नगरेऽत्र प्रभूतं ते करोमि क्रयविक्रयम् ॥ २०३ ॥ भवत्कन्यागृहान्ते च करोमि विशिखं नृप । दानं ददामि सर्वस्मै वोट्टोऽहं वणिगुत्तमः ॥२०४॥ प्रसार्य पट्टकं राजन् वाणिज्यं विदधाम्यहम् । यो यगृह्णाति मे भाण्डं ददाम्यस्मै धनं विना ॥२०५॥ एवमत्र प्रकुर्वाणो भूपवाक्येन तत्पुरे । तिष्ठति प्रीतचेतस्को वाणिजो वोट्टनामकः ॥ २०६ ॥ चित्रकर्म विधायेदं पट्टके जनविस्मयम् । पुष्पधूपादिकं दत्त्वा चकार स्तुतिमस्य सः ॥ २०७ ॥ पश्चान्महाजनव्रातैः कोलाहलविधायिभिः । समं वोट्टवणिक् तत्र करोति क्रयविक्रयम् ॥ 20 अत्रान्तरे कलालापाश्चेलनाचेटिका मुहुः । गमागमं प्रकुर्वन्ति 'वोट्टवाणिजकापणे ॥ वोट्टो वणिक्पुनस्तासां चेटिकानां मुहुर्मुहुः । श्रेणिकस्य स्वनाथस्य माहात्म्यं कथयत्यसौ ॥ २१०॥ पटस्थं चित्रकर्मेदं श्रेणिकस्य विलोक्य ताः । चेलनां प्राप्य संतुष्टा निगदन्ति समं तदा ॥ २१९ ॥ स्वामिन्यस्मत्पुरे कोऽपि मूर्खोऽसौ वोट्टवाणिजः । आत्मनाथवरं रूपं लेखयित्वा पटे पुनः ॥ २१२ ॥ सजीवचित्रकर्मेदं "स्वपतिप्रतिरूपकम् । प्रभाते पूजनं कृत्वा स्तुत्वा स्तुतिशतैरपि ॥ २१३ ॥ 25 पश्चाद्यो यद्वरं द्रव्यं "याच्यते मूल्यतो विना । तस्मै यथेप्सितं वत्से ददाति प्रीतमानसः ॥ २१४॥ निशम्य तद्वचः कन्या कौतुकव्याप्तमानसा । चेलना प्राप्य तद्रूपं पश्यति स्म मनोहरम् ॥ २१५॥ श्रेणिकस्य परं रूपं प्रत्यङ्गं प्रविलोक्य च । मुमोह चेलना कन्या विश्रब्धा स्वगृहं ययौ ॥ २१६ ॥ भूयो गमागमं कृत्वा चेटिका हृष्टचेतसः । तत्रत्यं श्रेणिकस्यासां माहात्म्यं निगदन्ति ताः ॥२१७॥ चेटीवचनमाकर्ण्य कन्याः कन्दर्पविह्वलाः । कौतुकव्याप्त चेतस्कास्तत्पटं द्रष्टुमाययुः ॥ २९८ ॥ विलोक्य श्रेणिकं रूपं पटस्थं वरकन्यकाः । वोहं वदन्ति चैकान्ते कामबाणसमाहताः ॥ २१९ ॥ * गृहीत्वाऽस्मान् व्रज क्षिप्रं वोट्ट वै श्रेणिकान्तिके । जीवामो येन तं प्राप्य सुखेन कलिताः प्रियम् ॥ २२० तद्वाक्यतः कुमारोऽपि सुरङ्गां निचखान सः । खवासान्तर्गतां यावत्कन्याप्रासादमादरात् ॥२२१॥ ततोऽभयकुमारोऽपि प्राग्निर्मितसुरङ्गया । निनाय चेलनां कन्यां ज्येष्ठया सहसा सह ॥ २२२ ॥
२०८ ॥
२०९ ॥
13
5
10
15
30
८४
1 पफज युग्मम्. 2 पफज युग्मम्. 3 फ महात्मभिः. 6 फज करोति. 7 पफज चतुष्कलम्. 8 फ जनत्रातः 9 फज वोट 12 प कन्या 13 फज समाहृताः.
Jain Education International
१९८ ॥
१९९ ॥
4 ज कृतसंमहः 5 पफज युग्मम्. 10 फज खपिति 11 [ याचते ].
For Private & Personal Use Only
www.jainelibrary.org