________________
-५५. १८९]
श्रेणिककथानकम् आकर्ण्य तद्वचो राजा कोपलोहितलोचनः । स्वकीयेन नरेणाशु नन्दग्रामजनं जगौ ॥ १५८॥ अयमागच्छतु क्षिप्रं मत्समीपं कुदेशिकः । अनेन च विधानेन महाजन विमुच्यताम् ॥ १५९ ॥ मा दिवा मा रजन्यां च मा पथा मा भुवा खलः । याने नायं सुदुष्टात्मा तूर्णमेतु मदन्तिकम् ॥१६॥ यद्येवं न समायाति दुष्टचेष्टितविग्रहः । नन्दग्रामं निहन्मीमं भवद्भिः सह निश्चितम् ॥ १६१॥ ततोऽभयकुमारोऽपि सन्ध्याकाले महामतिः। गद्धिकालम्बिकारूढो जगाम श्रेणिकान्तिकम् ॥१६२॥5 दृष्ट्वाऽभयकुमारं च श्रेणिकः प्रीतिमानसः । क्षेमं दत्त्वा पुनः स्नेहाचुचुम्ब शिरसि स्फुटम् ॥१६३॥ ततोऽभयमतिं कान्तां वसुमित्रां च सत्वरम् । आनाय्य स्वनरैस्तत्र सुखं तस्थौ नराधिपः ॥१६४॥ अथ वज्रविदे देशे, विशाली नगरी नृपः । अस्यां केकोऽस्य भार्याऽऽसीत् यशोमतिरिनप्रभा ॥१६॥ विनयाचारसंपन्नः प्रतापाक्रान्तशात्रवः । अभूत् साधुकृतानन्दश्चेटकाख्यः सुतोऽनयोः ॥ १६६ ॥ भद्रभावा सुभद्राऽस्य बभूव वनितोत्तमा । अस्या दुहितरः सप्त बभूवू रूपराजिताः ॥ १६७ ॥ 10 तन्मध्ये प्रथमा प्रोक्ता परमा प्रियकारिणी । द्वितीया सुप्रभा ज्ञेया तृतीया च प्रभावती ॥१६८॥ प्रियावती चतुर्थी स्यात् सुज्येष्ठा पञ्चमी परा । षष्ठी च चलना दिव्या सप्तमी चन्दना मता ॥१६९॥ त्रिदिवादवतीर्णानां सप्तानामपि पुण्यतः । भविष्यन्ति चरित्राणि बुधचित्तहराणि वै ॥ १७० ॥ सप्तानामपि कन्यानां स्ववासभवने प्रिये । कारयामि परं चित्रं सुभद्रां प्राह भूपतिः ॥ १७१ ॥ यदि चित्रकरः कोऽपि लभ्यते निपुणः परः । ततश्चित्रमिदं भद्रे कारयामि स्वमन्दिरे ॥१७२ ॥ 15 तत्रैको वर्धकिर्दिव्यः कोकाशो नाम विश्रुतः । तेन स्त्रीरूपसंयुक्तं कृतं यत्रशतं तदा ॥ १७३ ॥ रामारूपेण यत्रेण नरमोहनकारिणा । तेन चित्रकरा दिव्या बहवोऽपि कदर्थिताः ॥ १७४ ॥ अत्रान्तरे समायातः पुराद् राजगृहाद् भ्रमन् । विचित्रभूरिति ख्यातस्तदा चित्रकरो महान् ॥१७५॥ तत्रालेख्यं विलोक्यायं देवादीनां च तत्पुरे । चित्रभूतिहं विष्टः कस्यचिद्विस्मयाकुलः ॥१७६॥ तत्रैकं पुरुषं दृष्ट्वा पृच्छति स्म कुतूहली । लोकचित्रकरो विद्वांश्चित्रभूतिर्महादरः ॥ १७७॥ 20 भद्रात्र नगरे दिव्ये रूपकारः प्रियंवदः । नरेशवल्लभोऽतीव श्रूयते कुशलस्तराम् ॥ १७८ ॥ श्रुत्वा तद्वचनं सोऽपि जगादेमं पुरः स्थितम् । विद्यते वर्धकिः साधो कुशलः सर्वकर्मसु ॥१७९॥ सोऽपि चित्रकरः क्षिप्रं तदा तद्वचनेन च । तत्समीपं जगामाऽयं कौतुकव्याप्तमानसः॥१८० ॥ विलोक्य वर्धकिस्तत्र चित्रभूतिं समागतम् । 'ग्रासादिकं चकारास्य तदा विस्मितचेतसः ॥१८॥ चित्रभूतिरपि स्पष्टं चोपकारं विधाय सः । तस्थौ मुदितचेतस्कस्तदा वर्धकिनो गृहे ॥ १८२ ॥ 25 ततः स्वागमनं सोऽपि कथयित्वाऽस्य सत्वरम् । नक्तमेकं गृहे स्थित्वा भूपस्य भवनं ययौ ॥१८३॥ ततो भूपतिनाऽनेन कृत्वा संभाषणं मिथः। आवासो विहितोऽप्यस्य चित्रभूतिः स्थितोऽत्र सः॥१८४॥ यत्रप्रवेशनं पश्चाद्धारताडनकं तथा । हस्तग्रहणमन्यच्च कृत्वा यत्रविनाशनम् ॥ १८५॥ आत्मकुट्ये तथाऽऽलम्ब्य लेखनं प्रविधाय च । नक्तं निर्गमनं प्राप्य विधाय द्वारि मोहनम् ॥१८६॥ एतत्सर्वं परिप्राप्य तदा भूपतिशासनात् । चित्रभूतिः सुसंतुष्टो महानसगृहं ययौ ॥ १८७ ॥° 30 चित्रभूतिं समालोक्य कृतलोककुतूहलम् । अहो चित्रकरः साधुर्जगाविति जनो मुदा ॥ १८८॥ चित्रभूतिं निशम्याशु कृतलोकसुकौतुकम् । याचयित्वा सुभद्रेमं भूपतिं कृतकौतुकम् ॥ १८९॥
1 The surface of the pages of is spoiled here and there; so some words cannot be read. 2 I have followed 51; the reading is lost in , and is not clear in प. 3फ भयमतिक्रान्तां. 4 [ वज्राभिधे]. 5ज भूपकारः. 6फज चित्रभूतिसमागतम्. 7ज प्रामादिकं. 8 फ पश्चाद्वारताडनकं. 9 पफज त्रिकलम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org