________________
८२
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५५. १२७
कुरु प्रसादमस्माकं नन्दिताशेषभूतल : ' । हृताखिलमहाराते माऽऽज्ञाभङ्गो भवेदयम् ॥ १२७ ॥ वशीकरणमध्ये तु समस्ते वसुधातले । भवन्ति योषितः पुंसां वशीकरणमुत्तमम् ॥ १२८ ॥ ददाति किं न वा किं न करोति वनितार्थिनः । अवाजी वाजितामेति मुण्डितकमपर्वणि ॥ १२९ ॥ तथोक्तं वररुचिना -
15
आरण्योऽपि महाहस्ती न करिण्या विना यथा । धर्तुं वा वारिबन्धं वा न नेतुं शक्यते नरैः ॥१३१॥ एवं स वटकूपोऽपि भूप कूपिकया विना । आनेतुं मत्तहस्तीवत् त्वत्समीपं न शक्यते ॥ १३२ ॥ स्वच्छमृष्टजलापूर्णा ललिता वरकूपिका । नदीसरोवरत्राता वारिबन्धप्रवेशदा ॥ १३३ ॥ 10 अस्मद्रामे द्विजापूर्णे द्विजातिभिरुपासिते । आज्ञाभङ्गो भवेदाशु भूपालेमां प्रवेशय ॥ १३४ ॥ येनानया समं राजन् प्रेमनिर्भरमानसः । वटकूपः समायाति त्वत्पुरं परमोदयम् ॥ १३५ ॥ एवमेभिस्तदा विप्रैर्वेदध्वनिविशारदैः । विज्ञापितो नरेन्द्रोऽसौ तूष्णीभावमुपाश्रितः ॥ १३६ ॥ निर्धाटितुं निजाद्देशान्न शक्तो हन्तुमप्यहम् । प्रकटागसोऽपि क्षुद्रान् बिभ्यलोकापवादतः ॥ १३७॥ अन्यदा श्रेणिको राजा नन्दग्रामनिवासिनाम् । नरं प्रवेशयामास ब्राह्मणानां कुधाऽन्वितः ॥ १३८ ॥ विह्वलीभूतचेतस्कान् सूत्रकण्ठान् कृतागसः । स नरः प्राप्य विश्रब्धमुवाचेति विचक्षणः ॥ १३९॥ मयैको 'मत्तमातङ्गो गृहीतो बहुमूल्यतः । अस्मत्पुरे न कोऽप्यस्ति तन्मानकुशलः पुमान् ॥१४०॥ तुलया तोलयित्वेमं पलभारप्रमामसौ । यः करोति कलाधारः स बुद्धितुलितावनिः ॥ १४१ ॥ भवद्रामे पुनर्विप्रा वेदस्मृतिविशारदाः । कलाविज्ञाननिष्णाता भवन्ति विधिसंनिभाः ॥ १४२ ॥ भवन्तस्तेऽपि सर्वेऽपि पलभारप्रमाणकम् । तुलया तोलयित्वाऽऽशु ब्रूतैतस्य गजस्य हि ॥ १४३ ॥ 20 अन्यथा धनमादाय पुत्रदारादिबन्धुभिः । समं निपातयामीति संगरोऽयं ममेदृशः ॥ १४४ ॥ एवं निगद्य हृष्टात्मा श्रेणिकस्य महानरः । तेभ्यः समर्पयामास करिणं बहुमूल्यकम् ॥ १४५ ॥ ततोऽभयकुमारेण कोविदेन मनस्विना । जलमध्ये गजो नावि स्थापितो बहुभिर्नरैः ॥ १४६ ॥ सका दन्तिसमायुक्ता तज्जले नौमहत्यपि । एतावन्मात्रनिर्मग्नामवधार्यावसाय ताम् ॥ १४७ ॥ नावं हस्तिप्रमाणेन ग्रावभिः परिपूर्य च । तानुत्तार्य ततः क्षिप्रं सकलानपि भूतले ॥ १४८ ॥ 25 तुलया तोलयित्वेमान् पलभारप्रमाणकम् । विधाय दन्तिनोऽनेन प्रहितं तन्नृपान्तिकम् ॥ १४९ ॥ तच्चेष्टितं विलोक्येदं जगदाश्चर्यकारणम् । तदानीं विस्मितखान्तः श्रेणिको लोकरञ्जकः ॥ १५० ॥ अन्यदा भूपतिः सर्वान् नन्दग्रामद्विजानरम् । आज्ञापयति विस्पष्टं स्वकीयपुरुषेण तान् ॥ १५१ ॥ नन्दग्रामस्य सर्वस्य वटकूपोऽस्य पश्चिमे । तिष्ठत्वरं दिशाभागे निर्विकल्पं मदुक्तितः ॥ १५२ ॥ ततः पश्चिमदिग्भागे नृपवाक्येन वेगतः । स्थापितो वटकूपस्य नन्दग्रामो द्विजैरयम् ॥ १५३ ॥ 30 नन्दग्रामस्य सा वार्ता भूपस्य कथिता नरैः । निशम्यैतां पुना राजा तूष्णीभावमुपागमत् ॥ १५४॥ अथ राजा रुषं प्राप्य नन्दग्रामोपरि द्रुतम् । यावदायाति तं दग्धुं तावदुक्तो नरेण सः ॥ १५५ ॥ नन्दग्रामस्य नो दोषो भूप ज्ञातमिदं मया । माहेन्द्री कोऽपि तद्रामे नरस्तिष्ठति दुष्टधीः ॥१५६॥ तन्मतेन हृतं सर्वं त्वदीयं वचनं नृप । ततो निर्धाट्यतामेष खलीकृत्य स्वदेशतः ॥ १५७ ॥
किं न कुर्यात् किं न दद्यात् स्त्रीभिरभ्यर्थितो नरः । अश्वोऽप्यश्वतां यात्यपर्वणि मुण्डितं शिरः ॥ १३० ॥
1 [भूतल ]. 2 पफज कुलकम्. 3 फज निर्धाटितं. 4 फज मयैकोत्तममातङ्गो 5 पफज षट्कुलकम्. 6 पज चतुष्कलम् फ चतुष्कुलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org