________________
-५५. १२६ ]
श्रेणिककथानकम् अन्ते संयमसेनस्य गुरोराचारवेदिनः । विहाय सकलं संगं देक्षां दैगम्बरीमितः ॥ ९४ ॥ तदा चिलातपुत्रोऽपि मगधाविषये मुदा । चकार विपुलं राज्यं पुरे राजगृहे वरे ॥ ९५॥ कुर्वाणेनामुना राज्यं लोकोद्वेगविधायिना । प्रवर्तितास्तदाऽन्याया धर्मविध्वंसहेतवः ॥ ९६॥ ततः श्रेणिकराजस्य काञ्चीपुरनिवासिनः । मत्रिभिः प्रहितो दूतः प्राप्य तं निजगाद सः॥९७॥ राजन् भवत्पिता राज्यं स्वकीयं परमोदयम् । दत्त्वा चिलातपुत्राय बभूव श्रमणो महान् ॥९८॥ लोकश्चिलातपुत्रेण सकलः परिपीड्यते । तेन त्वं शीघ्रमागत्य कुरु राज्यं यथोचितम् ॥ ९९ ॥ दूतस्य वचनं श्रुत्वा म्लानवक्रसरोरुहः । गमनाय मनश्चके श्रेणिकः स्वपदेच्छया ॥१०॥ वसुपालनृपं सोमशर्माणं श्वशुरद्वयम् । अभयादिमतिं पृष्ट्वा वसुमित्रामपि प्रियाम् ॥ १०१॥ भूयो भार्याद्वयं प्राह श्रेणिकः प्रीतमानसः । अन्योन्यप्रेमसंबन्धं तन्मुखाम्भोजवीक्षणम् ॥ १०२॥ यदि कस्यापि मे कार्य पुरे राजगृहे परे । पाण्डुरादिकुटीं दृष्ट्वा स समागच्छतु द्रुतम् ॥ १०३ ॥ 10 एवमुक्त्वा प्रिये द्वे तु निर्गत्य श्वाशुरात् पुरात् । श्रेणिकः प्रीतचेतस्कः संप्रापज्जानकं पुरम् ॥१०४॥ चिलातं क्वापि निर्धाट्य स्थित्वा जनकविष्टरे । चकार श्रेणिको राज्यं स्थिरं राजगृहे पुरे ॥१०५॥ अन्यदा मातरं हृष्टः पप्रच्छेमं कुतूहलात् । अभयादिकुमारः स्वां व पिता मेऽवतिष्ठते ॥ १०६॥ श्रुत्वाऽभयकुमारस्य वचो विस्मितचेतसः । अभयादिमतिस्तोकं जगाद प्रीतमानसा ॥ १०७॥ मगधाविषये पुत्र पुरे राजगृहे स्फुटम् । शुक्लादिकुटिकां प्राप्य त्वत्पिता व्यवतिष्ठते ॥ १०८॥ 15 ततोऽसौ मातरं पृष्ट्वा कुमारोऽभयपूर्वकः । निर्जगाम कृतानन्दः काञ्चीपुरवरादरम् ॥ १०९ ॥ प्रापाभयकुमारस्तं नन्दग्रामं महाधनम् । अग्राहारं द्विजावासं पूर्व पितृनिषेवितम् ॥ ११०॥ यस्मिन्विप्रैः पिता पूर्व धाटितः सन्मठे स्थितः । भागवतं मठं पुत्रो विवेश श्रमहानये ॥ १११॥ माहनास्तं मठं प्राप्य चिन्ताऽऽकुलितमानसाः । एकत्र मिलिताः सर्वे दुःखिनस्तेऽवतस्थिरे ॥११२॥ विलोक्य ब्राह्मणान् भीतान् विषण्णमनसोऽखिलान् । पप्रच्छेति कुमारोऽयं कुतो ब्रूत भयं द्विजाः ११३ 20 निशम्य तद्वचो विप्रा वदन्तीमं भयाकुलाः । कुमार भूभुजाऽस्माकं दत्ताऽऽज्ञा हि किलेदृशी ॥११४॥ वटकूपो भवद्रामे लघुमृष्टजलस्तराम् । विद्यते श्रुतमस्माभिस्तमानयत मत्पुरे ॥ ११५॥ विप्रा न कुरुतैवं चेत्ततः सर्वमिमं द्रुतम् । ग्रामं विनाशयामीति संगरोऽयं मम स्फुटम् ॥११६॥ भूपप्रेषितविप्रस्य चोत्तरं दातुमक्षमाः । विषण्णास्तेन तिष्ठामः कुमाराध महामते ॥ ११७॥ विप्रवाक्यं समाकर्ण्य कुमारोऽभयपूर्वकः । जगाद तानिति स्पष्टं भयविह्वलविग्रहान् ॥ ११८॥ 25 विश्रब्धतां परिप्राप्य स्नानभोजनमादरात् । यूयं कुरुत दास्यामि चोत्तरं तस्य भूभुजः ॥११९॥" तद्वाक्यतः सहानेन भोजनं विहितं द्विजैः । तोषपूरितचेतस्कैः कृतवेदखनैरलम् ॥ १२० ॥ ब्राह्मणौ द्वौ परिप्राप्य कुमारवचनेन तम् । वारिकौ श्रेणिकं चेदमूचतुः कलनिस्वनैः ॥ १२१ ॥ महाराज भवत्पादौ नन्दग्राममहाजनः। प्रणम्योवाच सस्नेहमाशीर्वादपुरःसरम् ॥ १२२ ॥ अस्माभिः सर्वथा प्रोक्तो वटकूपो नरेश्वर । याहि त्वं स्वामिनोऽस्माकं समीपं न च याति सः॥१२३॥ 30 नन्दग्रामेण सर्वेण तथोक्तोऽपि न गच्छति । तालं दत्त्वा तदा सोऽयं "नन्दग्रामावहिष्कृतः ॥१२४॥ बहिःस्थितोऽपि संप्रोक्तो वटकूपो महाजनैः । त्वमस्मत्स्वामिनः पार्थं व्रज गन्तुं स नेच्छति ॥१२५॥" नन्दग्रामद्विजस्तोमो नत्वा त्वत्पदपङ्कजम् । भूयोऽपि ज्ञापयामास ललाटन्यस्तपाणिकः ॥ १२६॥
1 [दीक्षां]. 2 पफज युग्मम्. 3 फज सहितो. 4 पफज त्रिकलम्. 5 फ दृष्ट्रा. 6 पफज त्रिकलम. 7 पफज युग्मम्. 8 [अग्रहारं]. 9 पफज चतुष्कलम्. 10 पफज युग्मम्. 11 फवज गन्तु स नेच्छति. 12 फ omits 125.
बृ० को० ११ Jain Education International For Private & Personal Use Only
www.jainelibrary.org