________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[५५. ६२यदि भक्तं समादाय परकीयं हि युज्यते । ततो भक्षितमेवेदं क्षेत्रं जनक मूलतः॥ ६२॥ प्राप्य वेश्माथवा भक्तं सुखेन यदि भुज्यते । ततः खादति तत्क्षेत्रं सांप्रतं तन्निगद्यते ॥ ६३॥ अथ चेदं गृहं प्राप्तं जीर्णं यदि विभुज्यते । वाक्यं तदुच्यते तात खादयिष्यति निश्चितम् ॥६४॥ अन्यच्च तरुमूलस्थश्छत्रं धरति मस्तके । काकविष्ठादिसंपाते भयतः' स नरः पितः ॥६५॥ तथा प्राणहितं युग्मं कृत्वा हियु जले ततः। कण्टादिकभयात् तात स्थले पाणौ स गच्छति॥६६॥ एवंविधा मतिर्यस्य पथिकस्य महात्मनः । स गुणाम्भोधिरत्युद्धः कथं तात गहिलकः ॥ ६७ ॥ तस्मात्त्वमानय क्षिप्रं येन पश्यामि सांप्रतम् । कीर्तिव्याप्तसमस्ताशा गुणिनो हि गुणप्रियाः॥६८॥" सुतावाक्येन तेनाशु जनकेन तदन्तिकम् । प्राप्योरुपङ्कमध्येन स्वगृहं स प्रवेशितः ॥ ६९॥ विलोक्य पथिकं कन्या कर्दमालिप्तपादकम् । मार्गगमनखिन्नाय ददावस्मै वरासनम् ॥ ७० ॥ । तद्रूपहृतचेतस्का तत्परीक्षणकारणात् । तस्मै जलं ददौ तत्र विदग्धा साऽल्पवट्टके ॥ ७१ ॥ शातकम्बिकया पकं समस्तं व्यपनीय तम् । तचतुर्थांशनीरेण प्रधाव्य चरणौ स्वकौ ॥ ७२ ॥ तां वटिकां जलापू) किंचिदूनां स भूपतिः । तस्याः समर्पयामास वाढं विस्मितचेतसः ॥७३॥ ततोऽभयमतिस्तुष्टा भोजनान्ते महामतिः । जगाद पितरं तात मामेतस्मै प्रयच्छ भो ॥ ७४ ॥
पिताऽभयमतिं कन्यां तद्वाक्येन विशुद्धधीः। श्रेणिकाय कुमाराय सुकुमाराय दत्तवान् ॥ ७५ ॥ 15 ततः काञ्चीपुरे रम्ये श्रेणिकोऽपि नवोढया । तया समं प्रभुञ्जानः कामभोगान् वितिष्ठते ॥७६॥
अत्रान्तरे महाटव्यां वसुदत्तो जिनादरः । संन्यासस्थितविप्राय कर्णजापं ददौ मुदा ॥ ७७ ॥ ततो विप्रः शुभध्यानात् कालं कृत्वा समाधिना । सौधर्मे धर्मसंपन्नो जातो देवो महर्द्धिकः ॥७८॥ च्युत्वा सौधर्मनाकाग्रादभयादिमतेः सुतः । अभयादिकुमारोऽभूच्छ्रेणिकप्रीतिकारकः ॥ ७९ ॥
अन्यदाऽन्यमहादेशं विजयाहितमानसः । 'जगाम वसुपालोऽरं भूपतिः सैन्यसंपदा ॥ ८ ॥ 20 तत्रैकस्तम्भसंपन्नं 'प्रासादं बहुभूमिकम् । ददर्श वसुपालोऽयं तद्रूपहृतमानसः ॥ ८१॥ तत्प्रासादनिमित्तेन मत्रिणः सोमशर्मणः । दूतं प्रवेशयामास वसुपालो वसुप्रियः ॥ ८२ ॥ मत्रिणं सोमशर्माणं प्राप्य दूतो जगाद तम् । एकस्तम्भमयं सौधं कारापय नृपालये ॥ ८३ ॥ निशम्य तद्वचो मत्री श्रेणिकं प्राह सत्वरम् । एकस्तम्भविनिर्माणं सौधं कुरु महामते ॥ ८४ ॥
एकस्तम्भमयं दिव्यं प्रासादं तन्निदेशतः । चकार श्रेणिको राजा मन्दिरे बहुभूमिकम् ॥ ८५ ॥ 25 विधाय विजयं राजा प्रविश्य निजमन्दिरम् । एकस्तम्भं विलोक्येमं प्रासादं प्राह मत्रिणम् ॥८६॥ सोमशर्मन् कथं केन प्रासादो विहितो महान् । एकस्तम्भो महामानः कथयेमं ममाधुना ॥ ८७॥ वसुपालवचः श्रुत्वा सोमशर्माऽवदत् तकम् । अस्मद्वेशिकविज्ञानी कर्मणो" विद्यते नृप ॥ ८८ ॥ कलाविज्ञानयुक्तेन वल्लभेन मनीषिणा । मत्सुतारमणेनायं प्रासादो विहितः प्रभो ॥ ८९॥"
आकर्ण्य स्वमनःकान्तं वचनं सोमशर्मणः । जगादेमं महीपालस्तोषदृष्टतनूरुहः ॥ ९० ॥ 30 माम यस्तव जामाता ममापि स्फुटमेव सः । आहूय श्रेणिकं तस्मै वसुमित्रां ददौ सुताम् ॥९१॥"
श्रेणिकोऽभयमत्याऽमा तथा च वसुमित्रया । काञ्चीपुरवरे भोगान् भुञ्जानो व्यवतिष्ठते ॥ ९२ ॥ अथ प्रश्रेणिको राजा भोगनिःस्पृहमानसः । राज्यं चिलातपुत्राय प्रदाय नृपसाक्षिकम् ॥ ९३॥
1 [°संपातभयतः] 2 फज प्राणहितायुग्मं. 3 प कृत्वां. 4 फ हियु. 5 पफज कुलकम्. 6 फज प्रयच्छते; प has a correction like this. 7 फ जगाद. 8 प प्रसाद. 9 फ महास्तम्भो. 10 प अस्मद्वैशिक, [अस्मद्देशिक]. 11 [ कर्मण्यो ]. 12 प युग्मम् , फज युगलम्. 13 पफज युग्मम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org