________________
-५५. ६१] श्रेणिककथानकम्
७९ अयं राज्यधुरां गुर्वी धारयिष्यति मे सुतः। कलाविज्ञानसंपन्नः प्रतापाक्रान्तशात्रवः ॥ २८ ॥ अयं मण्डलकोसिष्टभक्षणोदितमानसः । एतस्य भोजनं वासो यो ददाति स दोषभाक् ॥ २९ ॥ विधाय घोषणामेवं नगरे विषयेऽपि च । श्रेणिको भूभुजा शीघ्रं शत्रुभीतेरपाकृतः ॥३०॥ तदा मध्याह्नवेलायां क्षुधापंपाकदर्थितः । एकाकी ब्राह्मणावासं नन्दग्रामं जगाम सः ॥ ३१ ॥ ब्राह्मणैः स पुनस्तस्माद्घाटितो नृपभीतितः । पारिवाजं मठं तत्र विवेशाविदितः परैः ॥ ३२॥ विधाय भोजनं चास्मै परिव्राजकयोगिना । तद्धर्मनिश्चितखान्तः श्रेणिको विहितस्तदा ॥ ३३॥ ततोऽपि निर्गतः शीघ्रं दक्षिणापथमण्डले । द्रविडाख्यमहादेशं प्राप्तोऽतोऽयं महामनाः ॥ ३४ ॥ एवं हि गच्छतस्तस्य नगरादिकमादरात् । इदमन्यच्च संजातं प्रकटं क्षितिपालिनः ॥ ३५ ॥ महाद्रविडदेशेऽस्ति काञ्चीनगरमुत्तमम् । वसुपालो नृपस्तस्य भार्या वसुमतिः परा ॥ ३६॥ रूपराजितसर्वाङ्गी स्त्रीलक्षणसमन्विता । विषाणदलसन्नेत्रा वसुमित्रा सुताऽनयोः ॥ ३७॥ ॥ अस्यैव भूपतेर्मत्री सोमशर्माऽभवद् द्विजः । सोमश्रीरस्य भार्या च सोमद्युतिविराजिता ॥ ३८॥ अभयादिमतिस्तस्याः कलाऽलंकृतविग्रहा । बभूव तनया चार्वी कलापारमिताऽवनौ ॥ ३९॥ अन्यदा सोमशर्माऽयं तद्भक्तिप्रेरिताशयः । ब्राह्मणाचारसंयुक्तः प्रयातस्तीर्थयात्रया ॥४०॥ स्नानं विधाय गङ्गायामागच्छन् स्वपुरं पुनः । मिलितः श्रेणिकस्यायं सोमशर्मा विशुद्धधीः॥४१॥ वजन्तौ द्वावपि क्षिप्रं पथि श्रेणिकभूपतिः । जगावमुं विशुद्धात्मा सोमशर्माणमादरात् ॥ ४२ ॥ मांस्कन्धेन वह त्वं भो त्वां वा पथि वहाम्यहम् । अनेन च विधानेन मार्गों गम्यो भवेद् द्विज ॥४३॥ श्रेणिकस्य वचः श्रुत्वा सोमशर्मा विचिन्त्य सः। संभावयति चित्तेऽलमेष कोऽपि गहिल्लकः॥४४॥ पथि क्षेत्रं विलोक्यायं कुमारो वदति स्फुटम् । क्षेत्रपालक किं क्षेत्रं भक्षितं भक्षयिष्यते ॥४५॥ वृक्षमूले स्थितश्छत्रं दधे शिरसि भूपतिः । ग्रीष्मे तु स्कन्धमारोप्य गच्छति प्रीतिमानसः॥४६॥ 'तथोपानधुगं भूयो जलमध्ये पदानुगम् । विधायेदं स्थले “पाणी व्रजति स्थिरमानसः ॥४७॥ 20 एवं तौ द्वावपि क्षिप्रमन्योन्यविहितोत्तरौ । वनादिकमतिक्रम्य काञ्चीनगरमीयतुः ॥४८॥ सोमशर्मा तदा कृत्वा श्रेणिकं नगराबहिः । विवेश खगृहं हृष्टः कृतरङ्गावलीचयम् ॥ ४९ ॥ विलोक्य पितरं खिन्नं यथाऽभयमतिस्तदा । विष्टरोपगतं साधुं जगादेमं विचक्षणा ॥ ५० ॥ एकाकी किं समायातः किं नरेण समं पितः । कथयैतन्मम स्पष्टं कुशलप्रश्नपूर्वकम् ॥५१॥ सुतावचनमाकर्ण्य सोमशर्मा जगावमूम् । स्नानं विधाय गङ्गायामागतः पुत्रि पत्तनम् ॥५२॥ 23 एको गहिल्लको मार्गे मया सार्धं समागतः । नगरासन्नदेशस्थस्तिष्ठति श्रमहानये ॥ ५३॥ निशम्य जनकस्योक्तं तत्तनूजा बभाण तम् । कथं 'गहिल्लकस्तात यस्त्वया सह नागतः ॥ ५४॥ सुतावचनमाकर्ण्य जनकः प्राह तां पुनः । शृणु तत्कारणं येन मयोक्तोऽयं गहिल्लकः ॥ ५५ ॥ गच्छताऽनेन पन्थानं मया सार्धं मनस्विनि । अहं निगदितो वत्से मतिवर्जितचेतसा ॥५६॥ स्कन्धारोहणकादीदं मां सुते निजगाद सः । अतो गहिल्लको प्रोक्तो मयाऽलं पुरतस्तव ॥५७॥ 30 सुतया बुद्धिशालिन्या पिता प्रोक्तोऽतिमुग्धकः । तातायं मतिसंपन्नो नानाशास्त्रविचक्षणः ॥५८॥ स्कन्धारोहणवाक्यस्य तवार्थं निगदाम्यहम् । आकर्णयैकचित्तेन तावत्त्वं मुग्धमानसः॥ ५९॥ विप्र मे ब्रूहि चित्तस्थं शोभनं हि कथानकम् । अहं वा ते गदामीति सुखेन पथि गम्यते ॥६॥ संशीतियुतचित्तस्य मतिवर्जितचेतसः। अधुना क्षेत्रवाक्यस्य निगदामि तवार्थकम् ॥ ६१ ॥
1फ शत्रुभूपेरपाकृतः, ज शत्रुभूतेरपाकृतः. 2 ज तथोपानयुगं. 3 फ भूपो. 4 फ पाणो. 5 पफज युग्मम. 6प युग्मम्. फज युगलम्. 7 फ ग्रहितकस्तात. 8 फरोहणकादीनां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org