________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५४. ६५धूमध्वजस्य दीप्तस्य ज्वलतस्तद्भयादिव । उपसर्गो गतः क्वापि जनानां भीतचेतसाम् ॥ ६५॥ तं तदाऽतिशयं दृष्ट्वा रुद्रदत्तः प्रशान्तधीः । शिवधर्म विहायायं जिनधर्म गृहीतवान् ॥ ६६ ॥ केचिन्मध्यस्थतां प्राप्य चान्येऽपि बहवो नराः। सम्यक्त्वादिकमासाद्य बभूवुः श्रावकाः परे ॥६७॥ ॥ इति श्रीरुद्रदत्तप्रियाप्रबोधसम्यक्त्वयुक्तिकथानकमिदम् ॥५४॥
५५. श्रेणिककथानकम् । अथास्ति मगधे देशे पुरं राजगृहं परम् । तत्रोपश्रेणिको राजा तद्भार्या सुप्रभा प्रभा ॥१॥ तयोरन्योन्यसंप्रीतिसंलग्नमनसोरभूत् । तनयः श्रेणिको नाम सम्यक्त्वकृतभूषणः ॥ २॥ अथ प्रत्यन्तवासी च नागवर्माऽभवन्नृपः । भृत्यः प्रश्रेणिकस्यायं निर्जितारातिसंततेः ॥३॥ मुक्तस्थिरो महारूपो धृतवेगोऽस्य भूपतेः । पूर्ववैरानुबन्धेन जात्याश्वः प्रेषितोऽमुना ॥४॥ " दृष्ट्वाऽमुं वाजिनं दिव्यं सप्तिलक्षणलक्षितम् । प्रश्रेणिकोऽधिरूढोऽयं कौतुकव्याप्तमानसः ॥५॥ ततस्तेन तुरङ्गेण भूपतिः कन्दुकक्षितेः । नीतो महाटवीं वेगात् सिंहव्याघ्रादिसेविताम् ॥ ६ ॥ यमदण्डोऽभवत्तत्र पल्लिनाथो महाबलः । तद्भार्या रूपसंपन्ना विद्युदादिमतिः श्रुता ॥७॥ योषितां तिलकीभूता कलाविज्ञानकोविदा। तिलकादिमती पुत्री समुत्पन्नाऽनयोः परा ॥ ८॥
तदा प्रश्रेणिकं भूपं हरिपृष्ठव्यवस्थितम् । ददर्श पलिमायातं यमदण्डो यमोपमः ॥९॥ 15 शय्यास्नानान्नपानाधैरुपचारैरनेककैः । हृत्वा श्रमं नरेन्द्रस्य धराऽन्ते प्रणतेन च ॥ १० ॥
अनयाऽवस्थयाऽनेन वितीर्णाऽस्य स्वकन्यका । यो भविष्यति पुत्रोऽस्यास्तस्य राज्यसमागमः॥११॥ प्रश्रेणिकनरेन्द्रेण स्वप्रयोजनमिच्छता । परिणीता च तत्कन्या जयमङ्गलनिखनैः ॥ १२ ॥ तिलकादिमती कन्यां परिणीय विधानतः । केतुध्वजवितानाढ्यं विवेश स्वपुरं नृपः ॥ १३॥
रूपयौवनसंपन्नः प्रतापाक्रान्तशात्रवः । कालेन बहुना तस्याश्चिलाताख्योऽभवत् सुतः ॥ १४ ॥ 20 यौवनस्थमिमं दृष्ट्वा पुत्रं प्रश्रेणिको नृपः । मद्राज्यं कस्य भावीदं दध्यौ मनसि धीरधीः ॥ १५ ॥ चिन्तयित्वा चिरं राजा प्राप्य नैमित्तिकान्तिकम् । पप्रच्छेमं सुतः को वा मद्राज्ये प्रभविष्यति ॥१६॥ प्रश्रेणिकवचः श्रुत्वा संदेहेन समन्वितम् । नैमित्तिकः पुनः प्राह भूपतिं वीतसंशयः ॥ १७॥ यः सिंहासनमारूढः कलभेरी प्रवादयेत् । ददच पायसं श्वभ्यः स्वयं भुंक्ते स राज्यभाक् ॥१८॥ नैमित्तिकवचः श्रुत्वा तत्परीक्षार्थमादरात् । नैमित्तिकोदितं सर्वं कारयामास भूपतिः ॥ १९ ॥ 25 श्रेणिकः शुभनक्षत्रे दिने वारे च शोभने । सिंहासनमितः साधुः तदानीं जनकाज्ञया ॥ २० ॥ रुच्यानि तत्र दिव्यानि वस्त्राणि विविधानि च । निधाय भूपतिर्मन्दं राजपुत्रान् बभाण सः॥२१॥ यद्यन्मनोगतं वस्तु तत्तद् गृह्णातु शोभनम् । कुमारैरुचितं स्वस्य गृहीतं सकलं तदा ॥ २२ ॥ भेरी प्रताड्य संस्थाय श्रेणिको हरिविष्टरे । दत्त्वा च पायसं श्वभ्यो बुभुजे तत्स्वयं मुदा ॥२३॥ भूयोऽपि मण्डला मुक्ता भूभुजा सिंहविक्रमाः। कपिलाक्षा बृहद्वका युक्ताः पञ्चशताख्यया ॥२४॥ श्रेणिको मण्डलान् दृष्ट्वा स्वसन्मुखसमागतान् । भेरी प्रताडयंस्तेभ्यः पायसं संप्रयच्छति ॥ २५ ॥ धीरो 'नदीनगम्भीरो नगराजस्थिरो महान् । कुमारस्तत्पुनः पश्चात् पायसं परिभुक्तवान् ॥ २६ ॥ प्रश्रेणिको विलोक्यमं श्रेणिकं प्रीतमानसः । दध्यौ विस्मितचेतस्कस्तथ्यं नैमित्तिकोदितम् ॥२७॥
1पमध्यस्थितां. 2 प परिपूर्णम्. ३ फज मगधादेशे. 4 फज शुभा. 5 फ पल्लिमायान्तं. 6 फ विधाय. 7 फ नदानगम्भारो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org