________________
-५४. ६४]
रुद्रदत्तप्रियाप्रबोधकथानकम् अस्ति पूर्वदिशो भागेऽरण्यानी तरुसंकुला । 'म्लेच्छनाहलसंकीर्णा व्यावसिंहादिसेविता ॥ ३२॥ अन्यदाऽऽगत्य तद्देशाद् भिल्लसंघेन वेगतः । अग्निना ज्वालितं सर्व नगरं गुडखेडकम् ॥ ३३॥ ततोऽग्निना प्रदीप्तेऽस्मिन् नगरे सकलो जनः । पुत्रदारादिभिः सार्धं जगामाकुलतां पराम् ॥३४॥ चतुर्वपि च पार्श्वषु ज्वालोद्योतितपुष्करः । रुद्रदत्तगृहाभ्याशं संप्राप्तोऽग्निज्वलंस्तराम् ॥ ३५ ॥ अत्रान्तरे परिप्राप्य रुद्रदत्तं हरप्रियम् । जगौ जिनमतिः कान्तं विकसन्मुखपङ्कजा ॥ ३६॥ शिवधर्मस्तव स्वामिनितान्तं गदितोऽपि मे । तथाऽपि न स्थितश्चित्ते मदीये जिनरञ्जिते ॥ ३७॥ मयाऽपि निगदन्त्या हि जिनधर्म परं प्रभो । तथाऽप्ययं बुधप्रीतिजननो रुचितो न यः ॥ ३८॥ उपसर्गादतः स्वामिन् यो देवो रक्षति स्फुटम् । अस्मानस्मगृहं सोऽयं देवः शरणमावयोः ॥३९॥" जिनमत्या वचः श्रुत्वा रुद्रदत्तोऽपि तां जगौ । भद्रे जनमनोहारि शोभनं गदितं त्वया ॥ ४० ॥ गौरीसखं महादेवं महावृषभवाहनम् । विहाय देहिनामन्यः परित्राणं करोति कः॥४१॥ 10 अथवाऽन्यस्य देवस्य जगदानन्ददायिनः । प्रवर्तन्ते वशे किं वा भुवनानि चतुर्दश ॥४२॥ भूतग्रामः समस्तोऽपि देवताक्रियया वशे । वर्तन्ते यस्य देवस्य वर्ण्यन्ते तद्गुणाः कथम् ॥४३॥ निशम्य तद्वचो भूयस्तदा जिनमतिः प्रियम् । जगाद विभ्रमोपेतं रुद्रभक्तिपरायणम् ॥४४॥ भवदेवस्य माहात्म्यं विद्यते यदि किंचन । अग्निविध्मापनं कान्त स देवो विदधात्वरम् ॥ ४५ ॥ स्वभार्यावाक्यमाकर्ण्य रुद्रदत्तो बमाण ताम् । जिनभक्तिसमासंगतोषकण्टकिताङ्गकाम् ॥४६॥ 15 हरभक्तिसमेतस्य कृतकृत्यस्य सांप्रतम् । मम किं वह्निना गण्यं नश्वरेण नितम्बिनि ॥४७॥ एवमुक्त्वा प्रियां सोऽपि दधिदूर्वादिसंभृतम् । अर्घ्यपात्रं समादाय समुत्तस्थौ कृतध्वनिः ॥४८॥ रुद्रदेवनमस्कारं रुद्रदत्तो विधाय च । उत्तराभिमुखो भूत्वा मस्तकेऽयं चकार सः॥४९॥ भो भो शृणुत मे वाक्यं लोकपाला मनोहरम् । लोकपालनकोयुक्तो रुद्रदत्तो जगौ तदा ॥५०॥ यदि माहेश्वरो धर्मो देवो वा परमः शिवः । तस्येच्छया प्रवर्तेत जगत्सर्वं हृदि स्थितम् ॥ ५१ ॥ 20 यदि निर्वाणदीक्षा स्यान्निर्मलाऽवद्यवर्जिता । स देवो रक्षतान्मां च सर्वं लोकं सबान्धवम् ॥५२॥ महादेवस्य सन्नाम गृह्णतोऽप्यस्य सत्वरम् । द्विगुणस्त्रिगुणो वाऽग्निर्वर्धतेऽसौ तथाऽधिकम् ॥५३॥ ततो जिनमतिः प्राह रुद्रदत्तं भयाकुलम् । भूयोऽप्यन्यस्य देवस्य स्मर त्वं सुसमाहितः ॥ ५४ ॥ ब्रह्मस्कन्दहरीनग्निरविचन्द्रबृहस्पतीन् । आयर्यां गौरी च संदध्यौ रमणीवचनादसौ ॥ ५५ ॥ जाज्वलीति शिखी तत्र ज्वालाभासितपुष्कलः । क्षयमारुतसंदीप्तो रुद्रदत्तो जगौ प्रियाम् ॥५६॥ 25 प्रिये लौकिकदेवानां मध्ये देवो न कोऽपि सः। योऽस्मान् स्मरणभूयो वा शिखिनः परिरक्षति ॥५७॥ सांप्रतं जिनचन्द्राय द्योतिताशाय सुन्दरि । अयं देहि वयं येन भवामो निरुपद्रवाः ॥ ५८ ॥ श्रुत्वा तद्वचनं स्वस्य भर्तृपुत्रादिकस्य सा । प्रत्याख्यानं विधायाशु द्विविधं निजगौ पुनः ॥ ५९॥ केवलज्ञानसंपन्ना वीतरागा गतापदः । रागमोहपरित्यक्ता यद्यर्हन्तो भवन्त्यमी ॥६॥ अहिंसालक्षणो धर्मः सर्वसत्त्वदयापरः । लोकद्वयसुखाधारस्तदुक्तो विद्यते यदि ॥ ६१॥ यदि निर्वाणदीक्षा स्यात् संसारोच्छेदकारिणी । ततो मां पतिपुत्रादिसंयुक्तां रक्षतु द्रुतम् ॥ ६२॥ एवमुक्त्वा कलध्वाननादिताशेषभूतला । अयं दत्त्वा जिनायासौ कायोत्सर्गेण तरथुषी ॥ ६३॥" कायोत्सर्गेण यावत्सा तिष्ठति स्थिरमानसा । "तावदग्निर्गतः कापि म्लेच्छसंघोऽपि तद्भयात् ॥६४॥
1प म्लेच्छनाहर..फज हरिप्रियम्.3 पफ चतुष्कलम्, ज चतुष्कम्. । पज कण्ट किताङ्गिकाम्. 5 फ वर्जितो. 6 फ रक्षतात्सा च. 7 प षड्भिः कुलकम् , फज षट्कलकम्. 8 [स्मरणभूतो ]. 9 पफज निकला. 10 पफ चतुष्कलम्, ज चतुष्कम्, 11 फज तावदग्निगिरिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org