________________
६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[५४. १५४. रुद्रदत्तप्रियाप्रबोधकथानकम् । लाटदेशैकदेशेऽस्ति तोणिमं गिरिपार्श्वगम् । धनधान्यबुधावासं नगरं गुडखेडकम् ॥ १॥ जिनदत्तोऽभवत्तत्र श्रावको जिनपूजकः । जिनदत्ताऽस्य सत्कान्ता जिनधर्मपरायणा ॥२॥
तयोः सुता कलाधारा जिनशासनमाविता । बभूव विनयोपेता जिनोपपदिका मतिः ॥३॥ 5 अस्मिन्नेव पुरे श्रेष्ठी नागदत्तोऽभवद्धनी । रूपयौवनसंपन्ना नागदत्ताऽस्य गेहिनी ॥४॥ अनयोर्नन्दनो रूपी नन्दिताशेषबान्धवः । रुद्रदत्तोऽभवद् गुण्यो रुद्रधर्मपरायणः ॥५॥ अन्यदा नागदत्तोऽसौ रुद्रदत्तनिमित्तकम् । जिनादिमतिका कन्यां जिनदत्तं प्रयाचते ॥६॥ नागदत्तवचः श्रुत्वा जिनदत्तो जगावमुम् । अहं जैनेश्वरोऽत्यन्तं वं च माहेश्वरः परः ॥ ७॥
श्रावकाणां हि संबन्धो घटते न मनागपि । माहेश्वरजनैः सार्धं विपरीतजडात्मभिः ॥ ८॥ 10 जैनदत्तं वचः श्रुत्वा रुद्रदत्तोऽपि तं जगौ । एक एव परं धर्मों न विशेषोऽस्य विद्यते ॥ ९॥ जिनधर्म प्रगृह्णामि मातुलाहमपि द्रुतम् । एवमुक्त्वा जिनावासं रुद्रदत्तो ययौ तदा ॥ १० ॥ मुनेः समाधिगुप्तस्य समीपं प्राप्य लोभतः । हित्वा माहेश्वरं धर्मं जिनधर्ममसौ सृतः ॥ ११ ॥ रुद्रदत्तमिमं ज्ञात्वा जिनधर्मपरायणम् । जिनदत्तो ददावस्मै तदा जिनमतिं सुताम् ॥ १२ ॥ परिणीय तकां कन्यां रुद्रदत्तोऽतिवञ्चकः । जिनधर्म विहायाशु शिवधर्म गृहीतवान् ॥१३॥ 15 अथ प्रस्तावमासाद्य रुद्रदत्तः सगोचरम् । भुक्त्वा सुखोपविष्टां तां जगौ जिनमतिं मुदा ॥ १४ ॥
सर्वदुःखान्तकृद्दीक्षा विशुद्धा दोषवर्जिता । पशुभ्योऽपि हिता तन्वि रुद्रेण परिभाषिता ॥ १५॥ नाकार्यलक्षतो दीक्षा शैवी सा परिहन्यते । हिताय द्रोहिणां पुंसामाह गौरीसखो हरः ॥ १६ ॥
तथा चोक्तम्पापच्छेदकरी दीक्षा निरवद्या सुनिर्मला ।।
पशूनां तु हितार्थाय महादेवेन भाषिता' ॥ १७॥ न चाकार्यशतेनापि शिवदीक्षा विहन्यते । गुरुद्रोहयुजां पुंसामित्याह परमेश्वरः ॥१८॥ जिनधर्म विहायेमं विशिष्टजनवर्जितम् । शैवं धर्मं गृहाण त्वं मुक्तिसौख्यविधायकम् ॥ १९ ॥ भर्तृवाक्यं निशम्योचे तदा जिनमतिर्धवम् । जिनधर्म प्रिय त्यक्तुं मनो मे न विकल्पते ॥ २० ॥ किं पुनस्त्वं विहायमं शिवधर्म मनःप्रियम् । जिनधर्म मनस्युच्चैः स्थिरं कुरु बुधप्रियम् ॥ २१ ॥ 23 भार्यावचनमाकर्ण्य रुद्रदत्तो जगाविमाम् । शिवदीक्षां विहायाध जैनो धर्मः कथं वरः ॥ २२ ॥
भूयोऽपि जिनमत्याऽयमवाचि दयितस्तदा । कुरु त्वं शैवधर्मं तु जिनधर्म करोम्यहम् ॥ २३ ॥ रमणीवाक्यमाकर्ण्य रमणो निजगावमूम् । जिनधर्ममहं भद्रे न विधातुं ददामि ते ॥ २४ ॥ धर्मश्रवणयाऽन्योन्यं कदाचित्कलहेन च । वादधारणकेनापि याति कालस्तयोरयम् ॥ २५ ॥
रुद्रदत्तः प्रियां प्राह भूयोऽपि पुरतः स्थिताम् । विनयाचारसंपन्नां जिनशासनभाविताम् ॥ २६ ॥ 10 पश्यामि यदि गच्छन्ती कदाचिजिनमन्दिरम् । मुनिभ्यो ददती भिक्षां गृहान्निःसारयाम्यहम् ॥२७॥
रुद्रदेवकुलं गत्वा शैवेभ्यो यदि भक्तितः । भिक्षां दत्से ततः कान्ते भवतीं पूजयाम्यतः ॥२८॥ रुद्रदत्तवचः श्रुत्वा जगौ जिनमतिर्बुवम् । कारापयसि मामेतद्यदि नाथ मराम्यहम् ॥ २९॥ अथवा गच्छ मा नाथ रुद्रदेवकुलं क्वचित् । जिनार्चा वन्दितुं नूनं न यामि जिनमन्दिरम् ॥३०॥ विधाय द्वावपि क्षिप्रं प्रतिज्ञां स्वस्वगोचराम् । स्वस्वधर्म प्रकुवाणौ तस्थतुर्निजमन्दिरम् ॥ ३१॥
1 फ भक्षिता. 2 फ जगाविमम्. 3 फ म्यरम्. 4 फज कारापयामि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org