________________
-५३. २३ ]
जिनदासकथानकम्
चक्री पञ्चनमस्कारं यावन्मर्दयति द्रुतम् । पादेन तावदभ्येत्य तं ममार सुरोऽम्बुधौ ॥ २१ ॥ ब्रह्मदत्तो मृतः सन् स सप्तमं नरकं ययौ । हीनसत्त्वं दुराचारं न हि कोऽपि विमुञ्चति ॥ २२ ॥ सामन्तमत्रिणो मुख्या अन्तः पुरमहत्तराः । चिन्तयन्तो नमस्कारपञ्चकं भक्तितत्पराः ॥ २३ ॥ उपसर्गं सहित्वाऽऽशु तदानीं देवनिर्मितम् । श्वाश्रीं गतिं गतश्चक्री नमस्कारविलोपनात् ॥ २४ ॥ स्ववैरनिग्रहं कृत्वा तापसामरदुष्टधीः । नाकलोकं ययौ शीघ्रं मन्दिर स्थिरमानसः ॥ २५ ॥ ॥ इति श्रीदर्शनभ्रष्टब्रह्मदत्तचक्रवर्तिकथानकमिदम् ॥ ५२ ॥
*
५३. जिनदासकथानकम् ।
५ ॥
६ ॥
७ ॥
११ ॥
अत्रास्ति पाटलीपुत्रे जिनदत्तः पुरोत्तमे । तद्वल्लभा प्रिया चावीं जिनदासी कलखना ॥ १ ॥ तयोः पुत्रोऽभवद्धन्यो धनकोटीश्वरो महान् । श्रावको जिनदासाख्यः कीर्तिच्छन्नन्दिगाननः ॥ २ ॥ अन्यदा जिनदासोऽसौ श्रावकवतभूषितः । सम्यग्दर्शनसंपन्नः स्वर्णदीपं ययौ मुदा ॥ ३ ॥ " योजनानां शतं चैकं साधिकं प्राप्य वारिधौ । बोधिस्थं द्रव्यसंपूर्ण जिनदासो ययौ क्षणात् ॥४॥ ततो जलधिमध्ये च जलकल्लोलसंकुले । 'कालिकाख्यसुरो गर्जन् सरोषं निजगावमुम् ॥ जीवितं यदि युष्माकं वल्लभं नितरां भवेत् । जिनस्य शासनं नास्ति वदतैवं वचो बुधाः ॥ भणिष्यथ न चेदेवं जिनशासनभाविताः । यदा सर्वजनाध्यक्षं दण्डोऽयं क्रियते मया ॥ तदा लोकसमूहानां भयव्याकुलचेतसाम् । हियेऽहं चोत्तमाङ्गानि वल्लभान्यपि संततम् ॥ ८ ॥ 15 प्रकृतीनां गुणान् सारान् विदन्तो वणिजोऽखिलाः । तं कुशास्त्रविनिर्माणाः प्रपृच्छन्ति भयातुराः ॥ ९ ॥ निशम्य तद्वचस्तत्र जिनशासनभावितः । जिनदासोऽवदत् तांश्च तत्प्रत्यक्षं कुशाग्रधीः ॥ १० ॥ उत्तमं सर्वधर्माणां सम्यक्त्वं विधुनिर्मलम् । देववाक्येन संत्यज्य जीवितार्थी मतिभ्रमात् ॥ मार्ष्टि स्म यः खपादेन महामत्रं पुरातकम् । किं न पश्यत चक्रेशं ब्रह्मदत्तमधोगतम् ॥ जिनदासवचः श्रुत्वा वणिजो धीरचेतसः । प्रत्याख्याना हितस्वान्ता जिनशासनभाविताः ॥ सम्यक्त्वाहितचेतस्का मस्तकन्यस्तपाणयः । प्रणम्येशं महावीरं निगदन्ति परस्परम् ॥ पोतं नयतु चान्यत्र राक्षसश्चूर्णयत्वरम् । नापवादं जिनेन्द्राणां विधास्यामो महात्विषाम् ॥ नत्वेति तं महावीरं जल्पितं पुटपाणिभिः । मुञ्चद्भिस्तैः प्रसूनानि जिनपादाम्बुजालिभिः ॥ उत्तरादिकुरोर्यातं भानूदयसुपिञ्जरम् । सुरैर्बहुभिरत्युग्रं देवचक्रं प्रपश्यति ॥ १७ ॥ स रक्षो मकुटेऽनेन निहतो भग्नदर्पकः । छिन्नरश्मिरिवेन्दुः खात् पतितो वडवानले ॥ धरते वरुणः पोतं धावति श्रीः कराम्बुजा । पोतो जलभरात्तीरं संप्राप्तो विघ्नतो विना ॥ ततस्ते दृष्टिमासाद्य प्रातिहार्यं च देवताः । सुखेन पाटलीपुत्रं खपुरं प्रापुरुतमम् ॥ दृष्ट्वातिशयमीदृक्षं बहवो नरकुञ्जराः । सम्यक्त्वं संयमं प्राप्ताः तथा मध्यस्थतां परे ॥ जिनदासोऽवधिज्ञानलोचनं वीक्ष्य योगिनम् । उपसर्गविधानं च पप्रच्छ विनयानतः ॥ २२ ॥ जिनदासोदितं श्रुत्वा योगी धर्मरुचिस्तदा । जगावाख्यानकं चास्य वैरसंबन्धकारणम् ॥ २३ ॥ 30 ॥ इति श्रीसम्यक्त्वसमन्वितजिनदासकथानकम् ॥ ५३ ॥
१६ ॥
२० ॥
२१ ॥
*
Jain Education International
1 प युग्मम्, फज युगलम् 2 फज श्रावकधर्मभूषितः 3 प बोधिस्थं प्रोहणस्थम्. 4 फज कलिकाख्य.. 5 पफज त्रिकलम् 6 [ पुरातनम् ] 7 पफज युग्मम्. 8 फज कथानकमिदम्.
For Private & Personal Use Only
5
१२ ॥
१३ ॥ 2
१४ ॥
१५ ॥
१८ ॥ ४
१९ ॥
www.jainelibrary.org