________________
७४
हरिषेणाचार्यकृते बृहत्कथाकोशे एकयोजनसन्मार्ग प्रयान्त्या हि जघन्यतः । भारत्योत्कृष्टतो नूनं भूप द्वादशयोजनम् ॥ ९॥ भव्यश्रवणहारिण्या मितया हितयाऽङ्गिनाम्' । अर्धमागधया वाण्या धर्मं कथयति स्म यः ॥१०॥ सुधर्मवचनं श्रुत्वा भक्तिहृष्टतनूरुहः । उवाचे महाभक्त्या भोगनिःस्पृहमानसः ॥ ११ ॥ गुणरत्नोदधिः सर्वो युष्माकमधिको यदि । द्रष्टव्योऽवश्यमेवाशु वासुपूज्यजिनो मया ॥१२॥ । सुधर्ममुनिमानम्य भक्तिरागरतो जिने । भोगोपभोगकं हित्वा निर्जगाम पुरान्नृपः ॥१३॥ गच्छतः पथि भूपस्य विश्वानलसुरेण च । पुरदाहो जलं युद्धं सिंहरूपं महाभयम् ॥ १४ ॥ म्लेच्छानां च बलं भीमं समुद्रो ग्राहसंकुलः । विकुर्वाणाकृतं सर्वमेतदस्य पुरो लघु ॥ १५ ॥ हित्वोपदेशमीदृक्षं हारं तूर्यं कलखनम् । प्रातिहार्य च लब्ध्वाऽगाद् वासुपूज्यजिनान्तिकम् ॥१६॥
अनित्यतां परिप्राप्य शरीरादेनराधिपः । वासुपूज्यजिनस्यान्ते प्रवव्राज महामतिः ॥१७॥ 10 राधान्तपारमासाद्य तथा पद्मरथो मुनिः । महागणधरो जातो जिनभक्त्या विशुद्धधीः ॥१८॥
॥ इति श्रीजिनभक्तिसहितपद्मरथनृपगणधरप्राप्तिकथा ॥५१॥
५२. ब्रह्मदत्तचक्रवर्तिकथानकम् । काम्पिल्यनगरे रम्ये राजा ब्रह्मरथोऽभवत् । रामिलाऽस्य महादेवी रूपयौवनशालिनी ॥१॥ तयोः पुत्रः कलाधारो निधिरत्नादिनायकः । ब्रह्मदत्तोऽभवच्चक्री नेमिपार्श्वजिनान्तरे ॥२॥ अन्यदाऽयं क्षुधाग्रस्तो ब्रह्मदत्तोऽरलाञ्छनः । भोक्तुं महानसे विष्टः साधितारातिमण्डलः ॥३॥ पायसं सूपकारेण जयसेनेन शोभनम् । अतीवोष्णं वितीर्णं तद् ब्रह्मदत्तस्य भाजने ॥ ४ ॥ पायसेन पुनस्तेन दग्धश्चक्री प्रकोपतः । तदस्य मस्तके क्षिप्तं भूभुजाऽयं मृतः क्षणात् ॥५॥ ततः क्षारसमुद्रान्ते रत्नद्वीपे मनोहरे । जातोऽयं व्यन्तरो देवो रूपराजितविग्रहः ॥६॥
ज्ञात्वा पूर्वभवं देवो ब्रह्मदत्तनिपातितम् । चुकोपाशु प्रदुष्टात्मा स्वनादात्पूरिताम्बरः ॥७॥ 20 कदलीनालिकेरादिफलानि विविधानि सः। आदाय तानि तं द्रष्टुं परिव्राजकवेषभाक् ॥ ८॥ दृष्ट्वा तानि फलान्युच्चैर्भूपतिस्तोषसंगतः । विनयाचारसंपन्नो जगादेमं पुरःस्थितम् ॥९॥ तातेदृशानि पक्वानि नानास्वादयुतान्यलम् । फलान्येतानि किं सन्ति न वा ब्रूहि यथायथम् ॥१०॥ ब्रह्मदत्तवचः श्रुत्वा तपस्वी वदति स्म तम् । मठिकायां ममैतानि सन्ति राजन्ननेकशः ॥ ११ ॥ ब्रह्मदत्तनृपं नीत्वा वार्धिमध्यं फलार्थिनम् । उपसर्ग चकारास्य स देवः क्रुद्धमानसः ॥ १२॥ 25 उपसर्गमिमं ज्ञात्वा प्रत्याख्यानं विधाय च । सावलम्बं नृपस्तत्र दध्यौ पञ्चनमस्कृतिम् ॥ १३॥ देवोऽपि तं पुनः पञ्चनमस्कारपरायणम् । अशक्तः पञ्चतां नेतुं रुष्टोऽपि बलवानपि ॥ १४ ॥ अशक्नुवन्निमं हन्तुं स देवोऽरुणलोचनः । जगाद निष्ठुरं वाक्यं धीरिणामपि भीतिदम् ॥१५॥ अहं स सूपकारोऽस्मि मस्तके यस्त्वया हतः । पायसेनोष्णकेनाशु गतः कालेन पञ्चताम् ॥ १६ ॥ रे रे पाप दुराचार नीतिहीन कलाधम । करोमि हिंसनं तेन तवाद्यैव विसंशयम् ॥१७॥ 10 अथवाऽस्ति तवोपायो जीवितस्य नराधिप । अनेन विधिना नूनं वक्ष्यमाणेन चारुणा ॥१८॥
भूम्यां यदि नमस्कारं लिखित्वा चरणेन चेत् । मार्टि ते जीवितोपायो नान्यथा गदितं मया ॥१९॥ लिखित्वाऽनेन सत्पञ्चनमस्कारो धरातले । तदानीं देववाक्येन खपादेनोपमर्दितः ॥ २० ॥
1फ हितयाङ्गिताम्. 2 फ सः. 3 पफज चतुष्कलम्. 4 पफज युग्मम्, 5 फज दत्तोरिलाञ्छनः, पअर-चक्र. 6 फज चुकोपासौ. 7 फ आशक्तः. 8 [माक्षि] 9 पज जीविनोपायो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org