________________
-५१.८ ]
लकुच कथानकम्
७३
ततोऽवतीर्य संजातः श्रेणिकस्य महात्मनः । अभयादिकुमारोऽसौ रूपसौभाग्यभाग्यवान् ॥ ८ ॥ ततो द्वावपि तौ तत्र समाधिं प्राप्य वाणिजौ । सौधर्मे धर्मसंभारादभूतां विबुधौ परौ ॥ ९ ॥ ॥ इति श्रीधर्मानुरागसहितजिनदत्तवसुदत्तसोमशर्मकथानकमिदम् ॥ ४९ ॥
*
५०. लकुचकथानकम् ।
अथावन्ती महादेशे श्रीमदुज्जयिनी पुरी । धनवर्मोऽभवद् राजा धनवर्माऽस्य वल्लभा ॥ १ ॥ अत्यन्तप्रेमसंभारसंसक्तमनसोस्तयोः । बभूव लकुचः पुत्रो युवराजो विचक्षणः ॥ २ ॥ अन्यदा कालपूर्वेण म्लेच्छेनोपद्रुतं द्रुतम् । स्वदेशं लकुचः कोपात् तं जगाम ससाधनः ॥ ३ ॥ प्राध्वंकृत्य तकं जन्ये बहुशत्रुक्षयावहे । विवेश स्वपुरीं शीघ्रं लकुचः प्रीतमानसः ॥ ४ ॥ जनकस्य ततोऽनेन कालम्लेच्छे समर्पिते । जगाद भूपतिः पुत्रं वरं ब्रूहि मनोगतम् ॥ ५ ॥ निशम्य जनकस्योक्तं लकुचो निजगावमुम् । कामचारं वरं देहि मह्यं जनक सांप्रतम् ॥ ६ ॥ पुत्रवाक्यं समाकर्ण्य जगाद जनकोऽपि तम् । दत्तस्तेऽभिमतस्तोक' कामचारो वरो मया ॥ ७ ॥ लकुचोऽभ्यन्तरे कामी तोषपूरितमानसः । लब्धकामवरस्तस्थौ श्रीमदुज्जयिनीपुरि ॥ ८ ॥ अन्यदा यौवनोन्मत्तां पङ्गुश्रेष्ठिवधूं पराम् । नागवर्माभिधां तत्र परासक्तां ददर्श सः ॥ ९ ॥ लकुचोऽपि तया साकं तिष्ठति प्रीतमानसः । तदानीं पङ्गुलश्रेष्ठी धैर्यमासाद्य तस्थिवान् ॥ एवं सति गते काले लकुचः क्रीडितुं मुदा । नागवर्मासमं यातो नन्दनोपपदं वनम् ॥ ११ ॥ धर्मसेनमुनिं तत्र दृष्ट्वा नत्वा च तं पुनः । धर्मं श्रुत्वा विहायेमां लकुचोऽयं तपोऽग्रहीत् ॥ १२ ॥ विहृत्य' देशमागत्य पूर्वोक्तां नगरीमसौ । महाकालवने तस्थौ कायोत्सर्गेण निश्चलः ॥ १३ ॥ अथासौ पङ्गुलश्रेष्ठी दृष्ट्वा तं लकुचं मुनिम् । पूर्ववैरानुबन्धेन चुकोपारुलोचनः ॥ १४ ॥ कायोत्सर्गस्थितस्यास्य श्रेष्ठी लोहशलाकिकाः । सर्वसन्धिषु दुष्टात्मा निचखान महामुनेः ॥ १५ ॥ 20 धर्मानुरागयुक्तोऽसौ धर्मध्यानपरायणः । अरोषो मृत्युमासाद्य नाकलोकं ययौ क्षणात् ॥ १६ ॥ ॥ इति धर्मानुरागयुक्त लकुचकथानकमिदम् ॥ ५० ॥
१० ॥ "
*
५१. पद्मरथनृपकथानकम् ।
१ ॥
विदेहाख्यमहादेशे मिथिला नगरी परा । अस्यां पद्मरथो राजा पद्मा भार्याऽस्य चाभवत् ॥ अन्यदा ध्वजमालाभी रुवाऽऽदित्यप्रभोत्करम् । अयं प्रजापतिः शीघ्रं सूर्याभं नगरं ययौ ॥ २ ॥ 2” सौधर्माख्यगणेन्द्राच्च चतस्रो ज्ञानिनः कथाः । आक्षेपिण्यादिका दिव्याः शुश्रुवानत्र भूपतिः ॥ ३ ॥ धर्मं श्रुत्वा जिनेनोक्तं सर्वसत्त्वसुखावहम् । सम्यक्त्वादिकमादाय पप्रच्छेममिदं नृपः ॥ ४ ॥ लोकत्रयेsपि किं नाथ विद्यतेऽन्यो भवत्समः । ब्रुवाणो धर्ममीदृक्षं भव्यजन्तुहितप्रदम् ॥ ५ ॥ श्रुत्वा पद्मरथं वाक्यं सुधर्ममुनिरब्रवीत् । अमुं विस्मयचेतस्कं तोषकण्टकिताङ्गकम् ॥ ६ ॥ अङ्गाख्यविषयेऽस्तीह चम्पाSSख्या नगरी श्रुता । अस्यां त्रिलोकपूजार्हो वासुपूज्यो जिनेश्वरः ॥ ७ ॥ त्रिलोकशेखरीभूतसरणे समवादिके । पुरन्दरशतस्तुत्यस्त्रिलोकसदसि स्थितः ॥ ८ ॥
1 प तोक-भो पुत्र. 2 has an additional reading विहारं. 3फ आक्षेपिण्या दिव्या. 4 फ कण्टकिताङ्गकः. 5 फ शेखरीभूतः; ज शेखरीभूता.
बृ० को ० १०
For Private & Personal Use Only
Jain Education International
5
10
www.jainelibrary.org