________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[४७. १५दृष्टोपचारतः क्षिप्रमारक्षकमनेन च । किंवदन्ती समस्ता सा भूभुजे विनिवेदिता ॥१३॥ ततस्तद्वचनं श्रुत्वा सत्यहीनं वदन्नपि । जगावारक्षकं भूयो द्रुतमेनं समानय ॥ १४ ॥ भूषवाक्यं समाकर्ण्य तदानीं जनसंनिधौ । नागदत्तश्चकारेमा प्रतिज्ञा भोगनिःस्पृहः ॥१५॥ उपसर्गोऽयमीक्षो यदि क्षेमेण यास्यति । ममातः पाणिपात्रेण पारणं प्रभविष्यति ॥१६॥ जिभधमोनुरागस्थो धर्मध्यानपरायणः । कायोत्सर्गेण संतस्थे नागदत्तो गिरीन्द्रवत् ॥१७॥ जानन्नपि च सद्भावं नागदत्तस्य शोभनम् । जनापवादरक्षार्थं खड्ग जग्राह भूपतिः ॥१८॥ यावजघान तं राजा कृपाणेन गले रुषा । तावद्धारलता जाता दिव्यमुक्ताफलान्विता ॥ १९॥ नभस्थैरमरैस्तुष्टैर्गन्धामोदितदिग्मुखा । नागदत्तोपरि क्षिप्रं पुष्पवृष्टिः प्रपातिता ॥ २०॥
अहो धर्मानुरागोऽयं परमो जिनशासने । विबुधैर्नागदत्तस्य समुद्रुष्टा प्रघोषणा ॥ २१॥ 10 दृष्ट्वाऽतिशयमेतस्य प्रशान्ता बहवो नराः । श्रामण्यं जिनधर्मं च प्रतिपन्ना महाधियः ॥ २२ ॥ अनेन भूभुजा सार्धं ज्ञात्वा संसारफल्गुताम् । समीपे धर्मसेनस्य नागदत्तोऽग्रहीत् तपः ॥२३॥
॥ इति श्रीजिनधर्मानुरागसहितनागदत्तकथानकमिदम् ॥४७॥
४८. वसुमित्रकथानकम् । विनीताविषयेऽयोध्यापुरे धर्मोदयो नृपः । विद्यते सुन्दरी चास्य सुवर्णश्री रविप्रभा ॥१॥ ॥ अस्यैव भूपतेः श्रेष्ठी वसुमित्रोऽभवद्धनी । अत्यन्तश्रावको विद्वान् कीर्तिच्छन्नदिगम्बरः ॥२॥ जिनवरचरणद्वन्द्वकुशेशयमधुव्रतः । प्रेमानुरागरक्तोऽसौ निर्मले जिनशासने ॥३॥ अन्यदा वसुमित्रोऽसौ जिनभक्तिसमन्वितः । नक्तं प्रतिमया तस्थौ स्वगृहे शुद्धमानसः॥४॥ एवं स्थितस्य तस्यान्यो देवः कुटिलमानसः। 'उपसर्गे चकारेमं तत्परीक्षणकारणात् ॥५॥
तत्पुत्ररमणीबन्धुधनधान्यादिकं तदा । आदाय सवकं देवस्तत्पुरो निदधौ सकः॥६॥ ० सम्यक्त्वदृढसच्चित्तो निश्चलो दृढशासने । प्रेमानुरागरक्तोऽयं प्रतिमास्थो वितिष्ठते ॥ ७॥ ततो देवोऽपि संतुष्टस्तत्पूजां प्रविधाय सः। आकाशगामिनी विद्यां दत्त्वाऽस्मै प्रययौ दिवम् ॥८॥ तस्यातिशयमालोक्य केचिद्दीक्षां प्रपेदिरे । जैन धर्म तथाऽन्ये च क्षान्तिविन्यस्तचेतसः॥९॥
॥ इति श्रीप्रेमानुरागयुक्तवसुमित्रकथानकमिदम् ॥४८॥
४९. जिनदत्तादिकथानकम् । 25 अथ सागरबुद्ध्याख्यः सार्थवाहो महाधनः । वसति स्म गुणावासः श्रीमदुज्जयिनीपुरि ॥१॥ द्वौ वाणिजौ वणिज्यायै श्रावको श्रुतिसागरौ । तत्समं प्रस्थितौ गन्तुं परमं दक्षिणापथम् ॥ २॥ उशीरमलयं गच्छद्विलसत्यटवीवने । स सार्थों लुण्टितश्चौरैः सधनो भीमविग्रहैः ॥३॥ जिनववादिकौ दत्तौ जिनशासनभावितौ । विनयाचारसंपन्नौ धर्मविन्यस्तचेतसौ ॥४॥
धर्मानुरागरक्तौ तौ प्रत्याख्यानं द्विभेदकम् । वने जगृहतु/रौ स्वशरीरेऽपि निःस्पृहौ ॥ ५॥ 30 तत्रैवान्यो द्विजो भद्रः सोमशर्मा महामतिः । तयोः पार्थं परिप्राप्य धर्म शुश्राव सौख्यदम् ॥६॥ पिपीलिकादिजीवानां क्षुद्राणामुपसर्गकम् । सहित्वा कालमासाद्य सौधर्मेऽजन्यसौ सुरः ॥७॥
1 प दुष्टोपचारतः 2 फज क्षिप्रमारक्षिक. 3 फज जगावारक्षिकं. 4 फज कथानकम्, 5 [उपसर्ग ]. 6 प सचकं, but सकलं in the margin; [ समकं]. 7 ज जिनवस्त्रादिको. 84 युग्मम, फ युगकाम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org