________________
-४७. १२]
नागदत्तकथानकम् मया त्वया महादेव्या प्रासादोपरि तिष्ठता । अपराह्नेऽम्बरे माम दृष्टं चारणयुग्मकम् ॥ १७२ ॥ श्रुत्वा नरेश्वरस्येदं वचनं बुधसंसदि । बभाण भूपतिं शीघ्रं संघश्रीर्मूढमानसः ॥ १७३॥ अहो सभ्या मया जातु न दृष्टं चारणं युगम् । अत्र काले कुतो दृश्या चारणानामवस्थितिः॥१७४॥ असत्यभाषणादस्य लोचने पतिते भुवि । पृष्टो भूयोऽपि भूपेन सत्यं वद यथायथम् ॥ १७५ ॥ भूयोऽपि भाषितं तेन नियतं भूपवाक्यतः । न दृष्टं तन्मया कापि चारणानां युगं बुधाः ॥१७६॥ एवं निगदितेऽनेन विष्टरात् पतितो भुवि । अयं पृष्टो नरेन्द्रेण सत्यं ब्रूहि यथायथम् ॥ १७७॥ निशम्य भूभुजो वाक्यं न दृष्टं वक्ति तन्मया। धरातो नरकं प्राप्य संघश्रीर्दुष्टमानसः ॥ १७८॥ तन्मुखेनोदयं प्राप्तं कर्म तस्य दुरात्मनः । व्यन्तरा अपि साहाय्यं कुर्वन्ति कलिलाशयाः॥ १७९॥ तावन्मानं तदायुश्च तद्व्याजात् पाकमागतम् । असंभाव्यं महापापभराद् यद्वा न किंचन ॥१८०॥ अज्ञातधर्मसद्भावो मिथ्यात्वग्रहदूषितः । अलीकभाषणासक्तो जातोऽसौ दीर्घसंसृतिः ॥ १८१॥" ततस्तदन्वये सर्वे जात्यन्धास्तनवोऽभवन् । तदुपार्जितदोषेण मिथ्यात्वं हि मलीमसम् ॥ १८२ ॥ दृष्ट्वाऽतिशयमीक्षं बहवो नरकुञ्जराः । मिथ्यात्वविषमुत्सृज्य बभूवुः श्रावकास्तदा ॥ १८३॥ राज्यं दत्त्वार्हदासाय सुताय नरकुञ्जरैः । अन्ते समाधिगुप्तस्य दीक्षां जग्राह भूपतिः ॥ १८४॥ विमलादिमतिर्देवी सर्वान्तःपुरसंगता । जिनदत्तार्जिकापाचँ गुरुं नत्वा दधौ तपः ॥ १८५ ॥ ततोऽनेकसमाः कृत्वा नानाविधतपांसि तु । धनदः स मुनिर्विद्वानाध्यासितपरीषहः॥१८६॥ 15 दिव्यनामपुरीपार्थस्थितगोवर्जपर्वते । जगाम निर्वृतिं वीरो गिरीन्द्रस्थिरमानसः ॥ १८७॥ विमलादिकमत्यन्ताधर्यिकाः शुद्धचेतसः । नानातपो विधायोचैर्भावयोग्यं दिवं ययुः ॥१८८॥
॥ इति असत्यभाषणकथानकमिदम् ॥ ४६॥
४७. नागदत्तकथानकम् । अथावन्तीमहादेशे श्रीमदुजयिनी पुरी । अस्यामभून्महीपालो धर्मपालः प्रतापवान् ॥ १॥ धर्मश्रीरस्य भार्याऽभूत् धर्मतत्परमानसा । विनयाचारसंपन्ना कामिनीव मनोभुवः ॥२॥ अस्याभवन्महाश्रेष्ठी दत्तान्तः सागरादिकः । तद्भार्याऽपि सुभद्राऽऽख्या भद्रभावा प्रियंवदा ॥३॥ कान्तो नागकुमाराभो नागदत्तोऽभवत् सुतः । अनयो रूपसंपन्नः पुत्रजन्माभिलाषिणोः॥४॥ अस्यामेव पुरि श्रेष्ठी धनधान्यसमन्वितः । समुद्रोपपदो दत्तो भार्या तन्नामसंगता ॥५॥ रूपयौवनसंपन्ना कन्दोट्टदललोचना । अनयोः पद्मसद्वका प्रियङ्गुश्रीः सुताऽभवत् ॥ ६॥ 25 नागदत्तकुमाराय सुकुमाराय धीमते । पितरौ दत्तवन्तौ तौ प्रियङ्गुश्रियमूर्जिताम् ॥ ७॥ प्रियङ्गुश्रियमालोक्य वितीर्णामस्य भोगिनः । तदा मैथुनिकः क्षिप्रं नागसेनो दधौ रुषम् ॥ ८॥ अन्यदा नागदत्तोऽपि मन्दिरं जैनपुङ्गवम् । सोपवासः परिप्राप्य धर्मं शुश्राव शुद्धधीः ॥ ९॥ जिनभावानुरक्तोऽयं जिनमन्दिरबाह्यतः । तस्थौ प्रतिमया धीरो नागदत्तस्तमीमुखे ॥ १०॥ प्रतिमास्थं विलोक्येमं जिनभक्तिपरायणम् । नागसेनो मुमोचाशु स्वहारं तत्पदोपरि ॥ ११ ॥ धृत्वा हारमयं दिव्यं तत्पदोपरि दुष्टधीः । चौरं ब्रुवन्निमं वाचा पुरान्तर्धावति द्रुतम् ॥ १२ ॥
2 फज दिव्यमासपुरा.
3 पफज युग्मम्.
4 फज संघश्रीअसत्य.
. 1 पज असंभाव्यमहा. 5फ श्रीमते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org