________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ४६. १३९
१३९ ॥
१४० ॥
१४१ ॥
॥
१४२ ॥
॥
१४३ ॥
॥
१४७ ॥
१४८ ॥
१४९ ॥
तद्भस्मपुञ्जमालिङ्ग्य तत्प्रेम्णाऽतिगरीयसा । मुक्तकण्ठं रुरोदासौ साधुमानसदुःखदम् ॥ पद्मश्रियं तत्र रुदन्तीमतिविह्वलाम् । तद्भस्म तत्पिता दुःखी चिक्षेप सरितो हृदे ॥ ततः पूर्वविधानेन तं हृदं प्राप्य दुःखिता । रोदिति स्म सका तत्र तद्भवेषणकारिणी ॥ मृतकालिङ्गने तत्र गूढे च जलभस्मनोः । किं कदाचित् सुखं प्राप्तं किं दृष्टो वल्लभोऽनया • यथा सुखं तया नातं मनस्संकल्पकल्पितम् । पद्मश्रिया न दृष्टो वा प्रियः स्वर्णखुरो धवः तथा बुद्धिविहीनानां बौद्धधर्ममकुर्वताम् । उपोपपद्यते ज्ञानं सत्त्वानां न कदाचन ॥ तपःसंयमचारित्रं मोक्षसंप्राप्तिकारणम् । विद्यतेऽल्पं यथा सर्वं त्वं विद्धि परशासने ॥ नास्ति किंचिद्ध्रुवं वस्तु स्व॒सिद्धान्ते प्रदर्शितम् । ज्ञानबुद्धेन बुद्धेन लोककारुण्यकारिणा ॥ सर्वं शून्यमिदं वस्तु प्रकारैः सकलैरपि । न श्रुतं सौगतं वाक्यं येन त्वं यासि मूढताम् to इदं बौद्धं मतं शून्यं जानन्नपि नरेशिना । कुहेतुभिः कुदृष्टान्तैर्भूयो नीतो विमूढताम् बुद्धश्रियो निशम्येदं वाक्यं सांशयिक तराम् । अमुं जगाद संघ श्रीः संदेह जडमानसः ॥ यदि राजा प्रभाते मां सभास्थो वदति ध्रुवम् । त्वया चारणयुग्मं च किं दृष्टं वद सांप्रतम् ॥ १५० ॥ एवं भूपतिना पृष्ठे सभामध्ये विपश्चिता । अस्माभिः किं प्रवक्तव्यं तत्पुरो ब्रूहि सांप्रतम् ॥ १५१ ॥ श्रुत्वा संघश्रियो वाक्यं संदेहमलभूषितम् । भूयो वभाण बुद्धश्री.द्धराद्धान्तकोविदः ॥ १५२ ॥ 15 परमोपासको भूत्वा विज्ञातपरमार्थकः । बुद्धधर्मं विहायेमं जिनधर्मं प्रकाशसे ॥ १५३ ॥ तेन सर्वप्रकारेण चारणं युगलं मया । न दृष्टं जातुचिद् वाक्यं प्रवक्तव्यमिदं त्वया ॥ १५४ ॥ अपरं च त्वया साधो प्रभाते नृपमन्दिरम् | सन्मानदानलाभेन न गन्तव्यं यशस्विना ॥ १५५ ॥ श्रुत्वा तस्य वचो गत्वा भुक्त्वा मौनं विधाय च । संधैश्रीर्मञ्चके तस्थौ बद्धलोचनपट्टकः ॥१५६॥ ततोऽन्यदिवसे जाते प्रभाते रविसंगते । 'प्राभातिकीं क्रियां कृत्वा तस्थौ सदसि भूपतिः ॥ १५७ ॥ क्षणमेकं ततः स्थित्वा तत्रत्यान् पार्श्ववर्तिनः । सभ्यानिति स राजेन्द्रो जगौ विस्मितमानसः ॥ १५८ ॥ मया मद्भार्यया संघश्रिया मत्पार्श्ववर्तिभिः । चारणानां युगं दृष्टं व्याख्यानं विदधत् परम् ॥ १५९ ॥ धर्माख्यानं विधायोच्चैर्भव्यपापविनाशनम् । जगाम देवमार्गेण पवित्रं तत्पुनर्बुधाः ॥ श्रुत्वा नरेन्द्रसद्वाक्यं बुधविस्मयकारणम् । ऊचुर्नरेश्वरं हृष्टा महासामन्तकुञ्जराः ॥ १६९ ॥ मुनयश्चारणाभिख्या राजन्नम्बरगामिनः । विपुण्यैर्नूनमस्माभिर्न दृष्टा धर्ममूर्तयः ॥ १६२ ॥ 25 सभ्यानां वाक्यमाकर्ण्य चारणेक्षणमिच्छताम् । जगाद भूपतिर्भूयस्तान् दृढीकर्तुमादरात् ॥ १६३॥ भवतां न प्रतीतिश्चेज्जायते मम भाषिते । ततः संघश्रियं पृष्ट्वा निश्चयं कुरुतात्र भोः ॥ १६४ ॥ एवमस्त्येव चेदीश संघ श्रीर्भवनादिह । आकार्यतां यथा वक्ति सर्वसंतोषकारणम् ॥ १६५ ॥ राज्ञा तद्वचनाच्छीघ्रं प्रेषिताः स्वहिता नराः । तदन्तिकं परिप्राप्य ते वदन्ति यथायथम् ॥ १६६ ॥ माम किंचित्परं कार्यमुत्तिष्ठ सचिव द्रुतम् । एहि भूपतिसामीप्यमग्रतो भव सांप्रतम् ॥ १६७ ॥ तेषां वाक्यमुपश्रुत्य संघ श्रीस्तान् जगौ पुनः । नाहं गन्तुं प्रशक्नोमि मम लोचनवेदना ॥ १६८ ॥ तद्वाक्यतः पुनः सोऽयं भाषितोऽमीभिरादरात् । अवश्यमेव गन्तव्यं समीपं भूपतेस्त्वया ॥ १६९॥ ततस्तद्वचनात् सोऽपि बद्धलोचनपट्टकः । राजान्तिकं परिप्राप्य यथासनमुपाविशत् ॥ १७० ॥ ततः सुखोपविष्टं तं सस्नेहं सरसं नृपः । उवाच प्रीतिचेतस्कः सामन्तान्तःपुरान्वितः ॥ १७१ ॥
१६० ॥
30
20
७०
Jain Education International
॥
1 पफज युग्मम्. 2 फज शांसयिकां 3 फज संदेहजल 4 फ यशखिनः 5 फज संघ श्रीमञ्च के. 6 पज प्रभातिकीं 7 फ दृष्ट्रा
For Private & Personal Use Only
१४४ ॥
१४५ ॥
१४६ ॥
www.jainelibrary.org