________________
-४६. १३८ ]
असत्यभाषणकथानकम् अधुना भूभुजा सार्धं प्रासादे तिष्ठता मया । दृष्टं चारणयुग्मं हि कुर्वद्धर्मकथां पराम् ॥ १०६॥ श्रुत्वा संघश्रियो वाक्यं बुद्धश्रीनिजगाद तम् । अनवस्थां च मा कुर्यान्मोहान्धतमसावृतः॥१०७॥ किं न श्रुतं त्वया वाक्यं यत्प्रोक्तं पिटकत्रये । यथा शून्यमिदं सर्वे नितान्तं प्रतिभासते ॥ १०८॥ महेन्द्रजालसंवेदी यो भूपोऽस्ति भुवस्तले । मायया दर्शितं तेन तव चारणयुग्मकम् ॥ १०९॥ अलीकं मानुषं रूपं दृष्ट्वा गगनगोचरम् । तेन त्वं मोचनं भद्र बुद्धधर्मस्य मा कुरु ॥ ११०॥5 इदं सतां मनोहारि प्रसिद्धं सत्कथानकम् । कथ्यमानं मया स्पष्टं शृणु त्वं सुसमाहितः ॥१११॥ काशीजनपदे रम्ये वाराणस्यां पुरि प्रभुः । उग्रसेनोऽभवच्छ्रीमान् धनश्रीवल्लभाऽस्य सा ॥११२॥ तस्य पुरोहितो विप्रः सोमशर्माऽभवत् सुधीः । भार्या पद्मावती चास्य पद्मपत्रनिभेक्षणा ॥ ११३॥ पद्मश्रीरनयोः पुत्री स्नेहनिर्भरचेतसोः । कुमारी रूपसंपन्ना बभूव कलभाषिणी ॥ ११४ ॥ सोमशर्मा द्विजस्तत्र गुणी भागवते मठे । चकार महती पूजां परिव्राजकसंहतेः ॥ ११५॥ ॥ नानाविधालयं कृत्वा सितीकृतनभस्तलम् । ददावाहारदानं स तेभ्यो भक्तिसमन्वितः ॥११६ ॥ अत्रान्तरे परो विद्वान् रूपयौवनगर्वितः । परिव्राजकसंयुक्तो भगवो विहरन् कचित् ॥ ११७॥ आगत्य दूरतः खिन्नो मन्दमन्दं गतिक्रियः । सोमशर्मालये तस्थौ सुवर्णखुरनामकः ॥ ११८ ॥ अन्नं प्रसाधितं साधु परिविष्टं तया परम् । पद्मश्रिया प्रहृष्टात्मा भुक्ते स्वर्णखुरो हसन् ॥ ११९॥ अत्यागमनतो नित्यं सरागेक्षणभाषणात् । अनयोः प्रेमसंबन्धो बभूव रतिकारणात् ॥ १२० ॥ पद्मश्रिया विना चाा स्थातुं क्षणमपि स्फुटम् । सुवर्णखुरकः साऽपि तं विना नाशकत् तदा ॥१२१॥ घनागमावसाने तो स्नेहनिर्भरमानसौ । निर्जग्मतुः पुराच्छीघ्रं मुदितौ धनसंपदा ॥ १२२॥ निशम्य सोमशर्माऽयं पद्मश्रीहरणं तदा । धावति स्म तयोः पश्चात् कोपारुणनिरीक्षणः ॥१२३॥ पद्मश्रियं यदा नायं पश्यति स्म स्ववल्लभाम् । तदाऽऽशु भूपतिं प्राप्य विललाप सुदुःखितः ॥१२४॥ विलोक्य सोमशर्माणं महाकारुण्यसंगतः । विलापकारणं राजा पप्रच्छेमं पुरःस्थितम् ॥ १२५ ॥ ३॥ महीपालवचः श्रुत्वा सोमशर्मा जगाद तम् । नीता स्वर्णखुरेणाशु पद्मश्रीमत्सुता नृप ॥ १२६ ॥ सोमशर्मवचः श्रुत्वा तलारं प्राह भूपतिः । तं परिव्राजकं दुष्टं सकन्यं शीघ्रमानय ॥ १२७॥ ततस्तेन तलारेण नृपवाक्येन वेगतः । प्राध्वंकृत्यायमानीतो भूपतेः पुरतः कृतः ॥ १२८॥ दुराचारमिमं दृष्ट्वा सुवर्णखुरमग्रतः । पप्रच्छ भूपतिर्विप्रास्तदानीं धर्मपाठकान् ॥ १२९॥ विहितं येन दुष्टेन कन्यया सह साहसम् । तस्मै को दीयते दण्डो ब्रूत शीघ्रं द्विजाः स्फुटम् ॥१३०॥ 23 नृपेन्द्रवचनं श्रुत्वा वदन्तीमं पुनर्द्विजाः । अनेन च विधानेन नीयतामेष पञ्चताम् ॥ १३१ ॥ ब्राह्मणस्य यथा रक्तं भूम्यां न पतति ध्रुवम् । तथायं मार्यतां भूप धर्मो हि मनुभाषितः ॥१३२॥ ततो ब्राह्मणवाक्येन शुष्कवृक्षे श्मशानके । उल्लम्बितो नृपेणासौ गतः कालेन पञ्चताम् ॥ १३३॥ उल्लम्बितं तमाकर्ण्य सुवर्णोपपदं खुरम् । पद्मश्रीः शोकसंतप्ता बभूव क्षणमात्रतः ॥ १३४ ॥ श्रीखण्डपुष्पताम्बूलधूपवस्त्रादिकं तदा । पद्मश्रीनक्तमादाय ययौ तं प्राणवल्लभम् ॥ १३५ ॥ 30 वस्त्रभूषणसंयुक्तं पुष्पताम्बूलभूषितम् । तत्कलेवरमालिङ्गय पद्मश्रीः प्रययौ गृहम् ॥ १३६ ॥ ततो विलोक्य भूपेन श्वो वस्त्रादिविभूषितम् । तत्कलेवरमानीतं भास्मतां कोपतः क्षणात् ॥१३७॥ भूयः सर्वविधानेन नक्तमागत्य बालिका । तभूतिपुलकं कृत्वा चिक्षेप स्रग्विलेपनम् ॥ १३८ ॥
1फ चारणयुग्मे. 2 फ कुलभाषिणी. 3 फ interchanges 117 and 118. 4फ पराम: 5 फ नृपः. 6 फ°पमानीतो. 7 फ तत्कडेवर. 8 फ तत्कडेवर. 9 फ नग्नमागत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org