________________
६८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[४६.७२श्रावकाणुव्रतोपेतो धार्मिकः श्रुतसंगतः । कलाविज्ञानसंपन्नो जिनशासनभावितः ॥ ७२ ॥ सर्वकालं सभामध्ये जिनधर्मकथामलम् । आक्षेपण्यादिकामेष विदधाति चतुर्विधाम् ॥७३॥' एवं धर्मकथां नूनं तदा कथयताऽमुना । समस्तोऽपि जनस्तत्र नीतः श्रावकतां पराम् ॥ ७४ ॥
तथा स्वमेदिनी सर्वा ग्रामपत्तनकादिका । विहिताऽनेन सा तेन जिनायतनमण्डिता ॥ ७५ ॥ । अत्रैकं दैवयोगेन कोऽपि बौद्धः समुन्नतम् । विहारं सौगतं शुभ्रं कारयामास भक्तितः ॥७६॥ तस्मिन् बौद्धविहारेज नानाशास्त्रविचक्षणः । बुद्धश्रीर्भिक्षुरेको हि वसति प्रीतमानसः ॥ ७७॥ उपासकोऽस्य शिष्योऽस्ति संघश्री वि विश्रुतः। धनदस्य महामत्री जिनधर्मपराङ्मुखः ॥ ७८ ॥ अस्य संघश्रियो भार्या विमलश्रीः प्रकीर्तिता । सुताऽनयो सुरूपा स्याद् विमलादिमतिः परा ॥७९॥
सा च राज्ञो महादेवी सर्वान्तःपुरनायिका । विहाय सौगतं धर्म जिनधर्ममुपाश्रिता ॥ ८०॥ 10 मत्री पुनः सदा सभ्यः संघश्रीर्जिनभाषितम् । धर्म कथयतोऽपीमं न गृह्णाति महीपतेः ॥ ८१॥
राजाऽन्यदा महादेवीमत्रियुक्तः प्रतिष्ठते । वर्णयन् सौधमूर्धस्थश्चारणानां गुणान्तरम् ॥ ८२ ॥ दिशावलोकनं कुर्वन् व्योग्नि चारणयुग्मकम् । ददर्श धनदो भूपो भक्तिहृष्टतनूरुहः ॥ ८३॥ प्रोत्थाय विष्टरादाशु भूपतिः पदसप्तकम् । तत्सन्मुखमभिप्राप्य वन्दित्वेमौ बमाण सः॥ ८४॥
खामिनौ ज्ञानसंपन्नौ सर्वसत्त्वकृपान्वितौ । धर्म कथयतां सारं दयां कृत्वा ममोपरि ॥ ८५ ॥ 15 श्रुत्वा तद्वचनं साधू चारणौ गगनादरम् । अवतीर्य तदभ्याशं प्राप्तवन्तौ शमाम्बुधी ॥ ८६ ॥
सत्यं ब्रूहि त्यजादत्तं संगं च परयोषितः । दयां सकलसत्त्वेषु धर्म कुरु जिनोदितम् ॥ ८७॥ साधुवाक्यं समाकर्ण्य प्राहेदं वसुधापतिः । अम्बरेचरयोगीन्द्रसंगनिधूतकल्मषः ॥ ८८॥ जिनधर्ममयं मन्त्री संघश्रीनामको मम । कथ्यमानं बुधैः श्रेष्ठं मनसाऽपि न वाञ्छति ॥ ८९ ॥
स्पृशतीमं यथा बाढं श्रद्धत्ते रोचतेऽपि वा। विधातव्यं तथा स्पष्टं भवद्भिर्हितमिच्छुभिः ॥९॥ 20 मुनिनाऽस्य तथा धर्मः कथितो जिनदेशितः। यथाऽयं जातसंतोषो दध्यौ विस्मितमानसः ॥९१॥
अहो जैनस्य धर्मस्य माहात्म्यं परमं भुवि । सर्वकालमहं पापो वञ्चितोऽस्मि कुहेतुभिः ॥ ९२ ॥ देवपाषण्डमोहादिवर्जितं जिनदेशितम् । धर्म जग्राह संघश्रीः सम्यग्दृष्टिमहामतिः ॥ ९३॥ ग्राहयित्वा मुनी धर्म मत्रिणं जिनभाषितम् । चारणौ जग्मतुः क्वापि गतिकर्मोदयादरम् ॥ ९४ ॥ ततो जगाद राजेन्द्रो मत्रिणं प्रीतमानसः । मम मातुल संतोषो जातस्त्वद्धर्मसंग्रहात् ॥ ९५॥ 25 अपरं च त्वया साधो सभामध्यगतस्य मे । प्रभाते खलु वक्तव्यं चारणद्वन्द्वमादरात् ॥ ९६ ॥ निशम्य भूपतेर्वाक्यं संघश्रीः परमोदयम् । जगादेमं विनीतात्मा तोषपूरितमानसः॥ ९७॥ त्वं महाराज तिष्ठ श्वो विशिष्टजनसंसदि । निराकरोम्यहं धर्म बौद्धादीनां स्वहेतुभिः ॥ ९८॥ तिर्यग्नरकदुःखान्तं स्वर्गमोक्षप्रदायकम् । प्रकाशयामि जैनेन्द्रं धर्म भव्यसुखावहम् ॥ ९९ ॥
चारणानां युगं वच्मि मया दृष्टं सभाऽन्तरे । एवं कृतप्रतिज्ञोऽसौ निर्जगाम नृपान्तिकम् ॥१०॥ 30 संघश्रीः प्रीतचेतस्को निर्गत्य नृपमन्दिरात् । बुद्धश्रियं परिप्राप्य तस्थौ विनयवर्जितः ॥१०१॥
दृष्ट्वा संघश्रियं स्तब्धं वन्दनादिविवर्जितम् । बुद्धश्रीः स्थविरः प्राह कोपलोहितलोचनः ॥१०२॥ बभूवोपासको बौद्धो मद्धर्मेण सुभावितः। बुद्धस्य मम वा कस्माद् वन्दनां न करोषि किम् ॥१०३॥ बुद्धश्रीवचनं श्रुत्वा संघश्रीनिजगावमुम् । बुद्धधर्मेण शून्येन चिरकालं प्रवञ्चितः ॥ १०४॥ जिनधर्म गृहीत्वाऽहं सांप्रतं समुपागतः । बुद्धधर्म च नेच्छामि मनोवाकायकर्मभिः ॥ १०५॥
1 पफज त्रिकला. 2 फ तत्सन्मुखमपि प्राप्य. [नृपान्तिकातू].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org