________________
-४६.७१]
असत्यभाषणकथानकम् अन्यदा सुतदारौधैरमाऽपश्यदिगन्तरम् । प्रासादशिखरारूढस्तदा राजा यशोधरः ॥ ३८॥ गगनं पश्यताऽनेन हिमाचलसमप्रभः । दृष्टो विमानसंकाशो नीरदश्चित्रकूटकः ॥ ३९ ॥ विलोक्येमं नराधीशश्चिन्तामेतामुपागतः । कारापयामि जैनेन्द्र मन्दिरं मन्दरोपमम् ॥४०॥ यावदेवं धरापृष्ठे लिखति स्म महीपतिः । तावद्विलयमापन्नो मेघोऽयं सहसा दिवि ॥ ४१ ॥ दृष्ट्वा घनं क्षयं यातं भोगनिःस्पृहमानसः । यशोधरो निनिन्दायं मनुष्यविभवादिकम् ॥ ४२ ॥ कदलीगर्भनिस्सारं यौवनं देहिनां भवेत् । आयुस्तडिद्विलोलं च तरङ्गचपलाः श्रियः ॥४३॥ चिन्तयित्वा चिरं राजा राज्यश्रियमहीनकाम् । ज्येष्ठपुत्राय निश्शेषां तदानीं दातुमुद्यतः ॥४४॥ नेच्छतीमां तनूजोऽयं ज्येष्ठो भोगपराङ्मुखः । श्रीधराय पुना राजा वितरीतुं श्रियं श्रितः॥४५॥ श्रीधरोऽपि यदा राज्यं न वाञ्छति मनागपि । तदा यशोधरो राजा प्रियचन्द्राय तद्ददौ ॥४६॥ यशोधरः 'सुपुत्राभ्यां हित्वा सर्व परिग्रहम् । वरदत्तमुनेः पार्थे दीक्षां केवलिनोऽग्रहीत् ॥४७॥ 10 शुक्लध्यानगजारूढो व्रतकङ्कणभूषितः । गुप्त्युत्थितसितच्छत्रः "समितिशुक्लचामरः ॥४८॥ तपोबाणेन शातेन शिरश्छित्त्वा यशोधरः। संसारप्रतिपक्षस्य प्राविशत् सिद्धिपत्तनम् ॥४९॥ आराधनां समाराध्य कृत्वा कालं समाधिना । विधिनाऽनन्तवीर्योऽपि प्राप्तोऽनुत्तरवासिताम् ॥५०॥ अथ नानातपो घोरं कुर्वाणः श्रीधरः शुचौ । कायोत्सर्गेण संतस्थे श्रीपर्वतमधिष्ठितः ॥५१॥ प्रपश्यन्नाटकं दिव्यमतिमुक्तकमण्डपे । प्रियचन्द्रो भुजङ्गेन दष्टः पञ्चत्वमागतः ॥ ५२ ॥ प्रियचन्द्रे नृपे जाते पञ्चतां दैवयोगतः । न कोऽपि राज्ययोग्योऽस्ति तद्वंशे विधुनिर्मले ॥५३॥ अत्रान्तरे शुचं प्राप्य परां सर्वेऽपि मत्रिणः । यशोधरादियोगीशान् प्रजिघ्युः पुरुषानरम् ॥ ५४॥ सर्वा दिशः परिभ्रम्य तद्वार्तामवगम्य ते । प्राप्य स्वमत्रिसामन्तांस्तद्वृत्तान्तं बभाषिरे ॥ ५५॥ निहत्याशेषकर्माणि मोक्ष प्राप्तो यशोधरः । अनुत्तरविमानं च गतोऽनन्तबलोऽपि सः ॥५६॥ श्रीपर्वतं परिप्राप्य श्रीधरोऽपि महामुनिः । जग्राहातापनं योगं ग्रैष्मादित्यकराहतः ॥ ५७ ॥ 20 तद्वाता कथयित्वा ते तोषपूरितमानसाः । तदुद्दिष्टे धराभागे तस्थिवांसो विचक्षणाः ॥ ५८॥ निशम्य तद्वचो मत्री तोषकण्टकिताङ्गकः । श्रीपर्वतं परिप्राप्य ददर्श श्रीधरं यतिम् ॥ ५९॥ प्रणम्य तं मुनि मन्त्री समाप्तनियमं तदा । शोकतोषसमायुक्तो जगाद पुरतः स्थितः ॥ ६॥ भगवन् प्रियचन्द्रोऽसौ मृति प्राप्तो सुतो हितः । तस्मादुत्तिष्ठ गच्छावः कुरु राज्यं सुताप्तये ॥६१॥ आकर्ण्य सचिवस्योक्तं श्रीधरः श्रीसमुत्सुकः । जगाम स्वगृहं शीघ्रं तदानीं संततीच्छया ॥६२ ॥ 25 राजानो मत्रिणः सर्वे तूर्यमङ्गलनिस्वनैः । राजपढें बबन्धुस्ते श्रीधरस्य कृतस्तवाः ॥ ६३॥ राज्यपट्टो यतो बद्धस्तस्य तैर्मुण्डमस्तके । ततो मुण्डितराजोऽयं विख्यातो धरणीतले ॥ ६४ ॥ यतः श्रियं परिप्राप्तः श्रीधरः पर्वतेन सः । ततः श्रीपर्वतख्यातिं जगामायं महीधरः ॥६५॥ वंशोऽस्य मुण्डिताभिख्यः श्रीधरस्य विलासिनः । समस्तलोकविख्यातः प्रसिद्धिं भुवने गतः॥६६॥ ततो मुण्डितवंशे च भगवान् ज्ञानसागरः । नेमिनाथजिनः श्रीमान् यादवाम्बरचन्द्रमाः ॥ ६७ ॥ ॥ वरदत्तमुनीन्द्रस्य गणेशस्य तदन्वये । जातो मुण्डितवंशोऽयं केवलेन विलासिनः ॥ ६८ ॥ पारंपर्येण भूपानां तदनुक्रमयायिनाम् । अयं मुण्डितवंशोऽपि जगाम भुवि विस्तरम् ॥ ६९ ॥ अन्ध्रदेशैकदेशस्थकर्मराष्ट्रजनान्तके । वेण्यातटपुरं रम्यं विद्यते जनसंकुलम् ॥ ७० ॥ बभूवात्र पुरे राजा मुण्डवंशसमुद्भवः । लोकवात्सल्यसंपन्नो धनदो धनदोपमः ॥ ७१॥
1 फ °द्दिगम्बरम्. 2 फ जातं. 3 पफज त्रिकलम्. 4 फ खपुत्राभ्यां. 5 फ समितिः. 6 पफज युग्मम्. 7 [याते]. 8 प परं. 9 पफज युग्मम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org