________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ४६.५संस्तरं यदि गृह्णाति कृत्तिकायां विशुद्धधीः । उत्तराफाल्गुनीभे च मध्याह्ने मरणं व्रजेत् ॥५॥ क्षपकः संस्तरं लाति रोहिण्यां यदि शुद्धधीः । कालं श्रवणनक्षत्रे निशीथे विदधाति सः॥६॥ मृगादिशिरसाभेन क्षपकः संस्तरं श्रितः। पूर्वफाल्गुनिनक्षत्रे ततः कालं करोति सः ॥७॥ आर्द्रायां यदि नक्षत्रे क्षपकः संस्तरं व्रजेत् । ततस्तदिवसे सोऽयं कालं कुर्यात्समाधिना ॥ ८॥ 5 अथवा तद्दिने कालं कदाचिन्न क्वचिद्भजेत् । क्षपकः शुद्धचेतस्कः प्रभाते विदधाति सः ॥९॥ पुनर्वसुनि नक्षत्रे लाति संस्तरकं यदि । अपराह्ने ततोऽश्चिन्यां क्षपकः कुरुते मृतिम् ॥१०॥ क्षपकः पुष्यनक्षत्रे लाति संस्तरकं यदि । मृगादिशिरसा कालं नक्षत्रेण करोत्ययम् ॥११॥ क्षपकोऽश्लेषनक्षत्रे संस्तरं भजते यदि । चित्रयाऽयं ततः कालं विदधाति समाधिना ॥ १२॥ यदा मघाख्यनक्षत्रे संस्तरं प्रतिपद्यते । क्षपकस्तद्दिने नूनं कुर्यात् कालं तदा सुधीः ॥१३॥ 10 "पूर्वफाल्गुनिनक्षत्रे क्षपकः संस्तरं भजेत् । धनिष्ठायां ततः कालं मध्याह्ने विदधाति सः॥१४॥
उत्तरोपपदायां चेत् फाल्गुन्यां संस्तरं भजेत् । ततो मूलेन भेनायं प्रदोषे कुरुते मृतिम् ॥१५॥ क्षपको हस्तनक्षत्रे संस्तरं भजते यदि । ततो भरणिनक्षत्रे प्रभाते कुरुते मृति ॥१६॥ लाति चित्राख्यनक्षत्रे क्षपकः संस्तरं यदि । मृगादिशिरसा भेन निशीथे कुरुते मृतिम् ॥१७॥
क्षपकः स्वातिनक्षत्रे वाऽऽदत्ते संस्तरं यदि । ततो रेवतिनक्षत्रे प्रभाते भजते मृतिम् ॥ १८ ॥ 15 विशाखाख्येऽथ नक्षत्रे क्षपको लाति संस्तरम् । दिवसेऽश्लेषनक्षत्रे कुर्यात् कालमयं सुधीः ॥ १९ ॥
अनुराधाख्यनक्षत्रे क्षपकः संस्तरं श्रयेत् । ततः पुष्येण संध्यायां कालं कुर्यात् समाधिना ॥२०॥ यदि ज्येष्ठाख्यनक्षत्रे क्षपकः संस्तरं भजेत् । पूर्वभद्रपदाख्ये भे दिने कालं करोति सः ॥२१॥ क्षपको मूलनक्षत्रे यदि गृह्णाति संस्तरम् । उत्तरादिकभद्रान्ते भे दिनार्धे मृतिं भजेत् ॥ २२ ॥ पूर्वाषाढाख्यनक्षत्रे लाति संस्तरकं यदि । क्षपकस्तद्दिने कालं त्वपराले करोति सः ॥ २३॥ 20 उत्तराषाढनक्षत्रे यदि गृह्णाति संस्तरम् । ततस्तद्दिवसे योगी चापराले मृतिं भजेत् ॥ २४ ॥
यदि श्रवणनक्षत्रे क्षपकः संस्तरं गतः । उत्तरादिकभद्रान्ते मे मृतिं तद्दिने व्रजेत् ॥ २५ ॥ धनिष्ठायां च नक्षत्रे यदि गृह्णाति विस्तरम् । क्षपकस्तद्दिने कालं करोति स्म समाधिना ॥२६॥ अथवा दैवयोगेन कदाचित्तद्दिने न तम् । ततोऽन्यस्मिन् दिने कालं क्षपको विदधात्ययम् ॥२७॥ नूनं शतभिषाख्ये तु नक्षत्रे संस्तरं भजेत् । यदि योगी धनिष्ठायां कुर्यात्कालं दिनात्यये ॥२८॥ 25 पूर्वभद्रपदायां च क्षपकः संस्तरं श्रयेत् । पुनर्वसुनि नक्षत्रे नक्तं कालं करोत्ययम् ॥ २९ ॥ नक्षत्रे चोत्तराभद्रपदायां यदि संस्तरम् । क्षपको लाति कालं च तद्दिने विदधाति सः॥३०॥ खत्यां यदि गृह्णाति क्षपकः संस्तरं ततः । मघायां कुरुते कालमध्यासितपरीषहः ॥३१॥ इदं सर्व परित्यज्य नक्षत्रादिकमादरात् । कालानुरूपसंभूतैर्निमित्तैर्बहुधा स्थितैः ॥ ३२॥ परीक्ष्य बलसत्त्वानि तथा निर्यापकानपि । क्षपकं संस्तरारूढं कारापयति तं गणी ॥ ३३॥ ७ अथ दक्षिणदेशेऽस्ति चान्ध्रदेशसमीपतः । श्रीपर्वतः समुत्तुङ्गो नानानोकुहसंकुलः ॥ ३४ ॥ तत्पश्चिमदिशाभागे मन्दपूर्वदला नदी । तुङ्गभद्रेऽभवत्तुङ्गजलकल्लोलसंकुला ॥ ३५॥ तद्दक्षिणे तटे रम्यं वल्लूरमभवत् पुरम् । राजा यशोधरोऽमुष्मिस्तद्भार्याऽपि वसुंधरा ॥३६ ॥ अनन्तोपपदो वीर्यः श्रीधरः प्रियचन्द्रकः । तस्या इमे त्रयः पुत्रा बभूवुः पृथुकीर्तयः ॥ ३७॥
• 1 फ omits two lines here. 2 फ पूर्वाफाल्गुनि. 3 फ पूर्वाफाल्गुनि. 4 फ वादत्ते सस्तरं यदि. 55 omits two lines here. 6 फ श्रियेत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org