________________
-४६.४]
असत्यभाषणकथानकम्
तथोक्तम्द्यूतं पानं कुत्सितवेश्या परदारं हिंसाऽदत्तं मांसमकार्येष्वतिकष्टम् ।
एते दोषाः सप्त च नृणामतिपापाः शिष्टैर्दुष्टा दुर्गतिमार्गान् प्रवदन्ति ॥ १२॥ सौम्यनाम्नी प्रिया चास्य सौम्यः पुत्रोऽनयोः शिशुः । बभूव रूपसंपन्नो दारिद्रध्वजचेतसोः ॥१३॥ शयनं भोजनं स्थानं गमनं रमणं 'तराम् । सौम्यः समुद्रदत्तेन करोति स्म निरन्तरम् ॥ १४ ॥ अन्यदा रममाणौ तौ स्नेहनिर्भरमानसौ । वामनस्य गृहं शीर्णं जग्मतुः कलनिखनौ ॥१५॥ समुद्रदत्तमालोक्य दिव्याभरणभूषितम् । ससुतं स्वगृहे तत्र दध्याविति स वामनः ॥१६॥ चिन्तयित्वा चिरं सोऽपि सालंकारं पुरःस्थितम् । महालोभपरिग्रस्तो ममार क्रूरमानसः ॥१७॥ समुद्रदत्तरुच्यानि बहुमूल्यानि वामनः । आदाय तं परिक्षिप्य खड्डामध्ये सकम्बलम् ॥ १८ ॥ यस्मिन् समये चके तं खट्वान्ते च गतासुकम् । तस्मिन्नेव ददर्शायं तत्सुतः सौम्यसंज्ञकः ॥ १९॥" खपुत्रादर्शनादेतौ विह्वलीभूतमानसौ । तदा तत्पितरौ दीनौ रुदन्तौ तिष्ठतोऽधिकम् ॥ २० ॥ अथ वामनपुत्रोऽसौ रममाणः स्वलीलया । स्मृत्वा "समुद्रदत्तस्य तगृहं प्रययौ मुदा ॥ २१॥ कृत्वा सौम्यकमुत्सङ्गे श्रेष्ठिनी दीनमानसा । पप्रच्छेति तकं स्पष्टं बाष्पविप्लुतलोचना ॥ २२ ॥ समुद्रदत्तनामायं त्वद्वयस्यो ममाङ्गजः। यदि दृष्टस्त्वया क्वापि वद तं पुत्र सांप्रतम् ॥ २३॥ श्रुत्वा सागरदत्ताया वचनं सोऽब्रवीदमुम् । दृष्टः समुद्रदत्तोऽयं मया मद्भवनान्तरे ॥ २४ ॥ 15 आदाय दिव्यरुच्यानि छित्त्वा गर्ने निधाय तम् । प्रदाय कम्बलं तत्र मञ्चकं सुप्तवान् पिता ॥२५॥ श्रुत्वा तद्वचनं सत्यं ज्ञातं सागरदत्तया । वामनेन सुतो मेऽद्य नियतं निहतः कथम् ॥२६॥ किंवदन्ती ततः 'सारा ख्याता सागरदत्तया । तदा सागरदत्तस्य शोकविह्वलचेतसः ॥ २७॥ ततः सागरदत्तोऽपि श्रुत्वा वाक्यं स्वयोषितः । यमदण्डतलारस्य तद्वृत्तान्तमभाषत ॥२८॥ श्रुत्वा सागरदत्तस्य वचनं कोपसंगतम् । यमदण्डो जगामेमं भवनं वामनस्य सः ॥ २९ ॥ ० यावदन्वेषणं तत्र गृहमध्ये करोति सः । तावद्ददर्श तं बालं मृतं भावरविग्रहम् ॥३०॥ धनमादाय निःशेषं खलीकृत्य स दुष्टधीः । वामनो यमदण्डेन नगरादपसारितः ॥ ३१ ॥ यथा वामनपुत्रेण सौम्यकाख्येन भाषितम् । कार्याकार्यमनालोच्य श्रेष्ठिन्याः प्रगुणं भुवि ॥३२॥ "तथेयं क्षपकेणापि सूरिमूले यथास्थिता । आलोचना प्रकर्तव्या संसारोच्छेदमिच्छुना ॥ ३३॥ ॥ इति श्रीकौशाम्बीनगरीसमुद्रदत्तसोमकाख्यकथास्वरूप
निवेदनसागरदत्तकथानकम् ॥ ४५ ॥
४६. असत्यभाषणकथानकम् । अथ प्रणम्य वीरेशमाखण्डलनतक्रमम् । निहताशेषकर्माणं ध्वस्तकन्दर्पवारणम् ॥१॥ यातस्य संस्तरं येन क्षपकस्य सुचेतसः । नक्षत्रेण यदायुः स्यात्तत्प्रवक्ष्यामि सांप्रतम् ॥ २॥ यदा चाश्विनिनक्षत्रे क्षपको लाति संस्तरम् । तदा हि स्वातिनक्षत्रे नक्तं कालं करोति सः ॥३॥ भरणीभे प्रगृह्णाति क्षपकः संस्तरं यदि । कालं करोति रेवत्यां प्रदोषेऽसौ समाधिना ॥४॥ . 1 फज रमणान्तरम्. 2 प स्वसुतं. 3 प सालंकार. 4 फज read महालोभ etc. as the second line of No. 16 and other lines are serially adjusted. 5 प समुद्रदत्तोस्य. 6 पफज युग्मम्. 7 फज सारं. 8 फ जगादेमं. १ फज तथापि. 10 फ मिच्छता.
बृ० को०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org