________________
६४
हरिषेणाचार्यकृते वृहत्कथाकोशे
[४४. ३सुभूमचक्रिणश्चक्रममोघास्त्रं सुदर्शनम् । पृथिवीकायिका जीवा देवयक्षसहस्रकम् ॥ ३॥ धर्मपिण्डप्रदेशस्य कर्मणोऽपि विरोधिनः । एकत्रावस्थितं दृष्ट्वा पूर्वयोगविधानतः ॥ ४ ॥ नूनं कदाचिदेतेषां सर्वेषां समवस्थितिः । न पुनर्जातु नष्टस्य मनुष्यभवजन्मनः ॥५॥ वाधौं स्वयंभूरमणे कच्छपो 'नन्दनात्मकः । संतिष्ठते महाकायो निद्राघूर्णितलोचनः ॥६॥ । केनापि वह्निना बाढं तप्यमानस्य चर्मणः। भूयोऽपि बोधमायाति नन्दो वर्षसहस्रतः ॥७॥
'नन्दः प्राप्नोति तच्छिद्रं भूयः कार्येण केनचित् । दुर्लभं हि मनुष्यत्वं कुतो बोधिसमाधिता ॥८॥ तिर्यग्लोकस्य सर्वस्य स्वयम्भूरमणोदधिः । अर्धप्रमाणमात्रोऽसौ वाक्यमेतजिनेशिनाम् ॥ ९ ॥ "एकाक्षः कच्छपस्तत्र नन्दनामा महाबलः । वज्रापधनसंयुक्तो वसति प्रीतमानसः ॥१०॥
नूनं तचर्मणो मूले जलमध्ये विसारिणः । तच्चाऽपि समानं स्यात् स्वयम्भूरमणोदधेः ॥ ११ ॥ 10 गच्छताऽष्टसहस्रेण यन्मध्ये जलसंकुले । नन्देन जातुचिदृष्टश्चर्मरन्ध्रेण भास्करः ॥ १२ ॥ दृष्ट्वाऽऽश्चर्यमिदं यावन्नन्दो दर्शयते रविम् । स्वजनानामसौ तावजगामादृश्यतां क्षणात् ॥ १३ ॥ अथवाऽयमपि स्पष्टो दृष्टान्तो गदितो बुधैः। समस्तजनताचित्तरञ्जनासक्तमानसैः ॥ १४ ॥ विस्तीर्णपूर्वदेशस्थजलमध्ये वसन् सकः । दृष्ट्वा मध्याह्नवेलायां मार्तण्डं चर्मरन्ध्रतः ॥१५॥
यावत्सुबन्धुमित्राणां नन्दो दर्शयते रविम् । तावत्तच्छिद्रमप्याशु नष्टं वापि भयादिव ॥१६॥ 15 पुनः पुनः कदाचिच्च तच्छिद्रं पश्यति स्म सः। मानुष्यकमिदं नष्टं न जीवो लभते ध्रुवम् ॥१७॥
पूर्ववाओं परिक्षिप्तं शमिलाऽपरवारिधौ । युगं तयोः समासंगः कदाचिदपि जायते ॥ १८॥ चतुर्गतिकसंसारे क्रोधमानादिनीरके । नृजन्म श्रेष्ठमाणिक्यं न जीवो लभते गतिम् ॥ १९ ॥ गोपदण्डचतुर्हस्तः सर्वेषां चक्रिणां भवेत् । कृतभेदमसौ भूयः परमाणोः क्षयं व्रजेत् ॥ २० ॥ सुरास्ते देहिनस्ते च स दण्डश्चक्रिणो भुवि । दुर्लभं साधु मानुष्यं कुतो बोधिः समाधिना ॥२१॥
॥ इति श्रीनन्दकच्छपकथानकमिदम् ॥ ४४ ॥
४५. समुद्रदत्तकथानकम् । विषये वत्सकावत्यां कौशाम्बी नगरी परा । अस्यां बभूव भूपालः प्रजापालो गुणाकरः ॥१॥ सितमुक्तासमानाभदन्तोद्योतितखावनिः । बभूव भूपतेर्भार्या जयादिमतिरुत्तमा ॥२॥
तस्यामारक्षिको नाम यमदण्डो यमोपमः । बभूव भासुराकारो भीषयन् सकलं जनम् ॥३॥ 25 अस्यामेव पुरि श्रीमान् कीर्तिव्याप्तनभोधरः । श्रेष्ठी सागरदत्तोऽभूद् गुणरञ्जितभूतलः ॥४॥ तद्भार्या रूपसंपन्ना हरिणीलोललोचना । बभूव विनयोपेता दत्तान्ता सागरादिका ॥ ५॥ बालः समुद्रदत्तोऽभूत्तयोरत्यन्तवल्लभः । रममाणः पुरे भ्राम्यन् दिव्याभरणभूषितः॥६॥ अत्रैव नगरे निःखो वामनो नाम वाणिजः । सप्तव्यसनसंयुक्तो बभूव क्रूरमानसः ॥७॥ योषित्पानं च पापर्द्धिद्यूते विलसितं तथा । एतचतुष्टयं नूनं कामजं परिकीर्तितम् ॥ ८॥ 30 आद्यं वचनपारुष्यं दण्डपारुष्यमेव च । अर्थस्य दूषणं चेति क्रोध त्रिविधं मतम् ॥ ९॥
अथवा द्यूतकं पानं कुत्सिता वनिता वधः। परयोषिददत्तं च मांसभक्षणमेव च ॥१०॥ एतानि सप्त निन्द्यानि व्यसनानि भुवस्तले । दुःखदायीनि जन्तूनां निगदन्ति मनीषिणः ॥११॥
1 [नन्दनामकः ]. 2 फ नन्दा, ज नन्दां. 3 ज omits some lines here. 4 प एकाख्यः. 5प विज्ञापधन, ज प्रज्ञापधन. 6 पफज युग्मम्. 7 पफज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org