________________
३९.१]
सर्षपादिधान्यकथानकम्
३७. सर्षपादिधान्यकथानकम् । पल्यमेकमधःखातं योजनानां पृथुत्वतः । पल्यं चकार कोऽपीदं जम्बूद्वीपप्रमाणकम् ॥ १॥ सिद्धार्थकादिधान्येन निबिडं' परिपूर्यते । भीमसेनसमेनेदं पुरुषेण बलीयसा ॥ २॥ आकर्णाकृष्टनिर्मुक्तं तत्र काण्डं विमुच्यते । नरेणार्जुनकायेन दोर्दण्डबलशालिना ॥३॥ तत्पल्योपरि निःखातं द्विगुणीकृतवककम् । विज्ञायते भृतं तद्धि पुरुषैः पुरुबुद्धिभिः ॥ ४ ॥ सर्षपादिकधान्यानां शतमेकं दिने दिने । निरस्यते नरेणाशु कौतुकव्याप्तचेतसा ॥५॥ एवंविधमपि स्पष्टं कदाचिदैवयोगतः । जम्बूद्वीपप्रमाणं वा तत्पल्यं रिक्ततां व्रजेत् ॥६॥ मनुष्यजन्मतो जीवो निर्गतः पर्यटन् भवे । नानाकुयोनिलक्षाणि परिपाट्या समाप्य च ॥७॥ अणिमादिगुणोपेतो यद्देवोऽपि तदिच्छति । तत्पवित्रं मनुष्यत्वं देही न लभते पुनः ॥८॥
यथा चोक्तम्धण्णादिसरिसवाणं जंबूदीवं तु पल्लयं भरियं । उव वरिससरिसवाण य देवो मवणिजदे सयलं ॥९॥ एवमवणिजमाणं समणो जहु सो दु सरिसवं धण्णं । इह दुल्लहमाणुसय बोहिसमाही कुदो होदि ॥ १० ॥ ॥ इति सर्षपादिधान्यकथानकम् ॥ ३७॥
३८. श्रीधान्यकथानकम् । अथ चैवं प्रवक्तव्यं धान्याख्यानकमुत्तमम् । साधुभिर्जिनराद्धान्तसमासंगविचक्षणैः ॥१॥ विनीताख्यमहादेशे विनीता नगरी परा । अस्यां बभूव भूपालः प्रजापालः प्रजाप्रियः ॥२॥ विद्यते मगधादेशे पुरं राजगृहं नृपः । जितशत्रुः प्रिया चास्य रूपिणी रूपशालिनी ॥३॥ अन्यदा कोपमासाद्य प्रजापालस्य भूभुजः । जितशत्रुश्चचालोचैर्विनीताविषयं प्रति ॥४॥ 2॥ तस्माद्भयं समासाद्य स्वधान्यानि जनैस्तदा । निक्षिप्तानि समस्तानि चैकस्मिन्नृपकोष्ठके ॥ ५॥ एवंकृतेषु धान्येषु जितशत्रुरशक्नुवन् । प्रजापालं वशीकर्तुं जगाम स्वपुरं पुनः ॥ ६॥ जितशत्रु गतं ज्ञात्वा प्रजाः संप्राप्य भूपतिम् । स्वस्तधान्यानि याचन्ते तदा सुस्थितमानसाः ॥७॥ याचमानाः प्रजा वीक्ष्य स्वस्खधान्यं पुरःस्थिताः । प्रजापालः पुनः प्राह कौतुकव्याप्तमानसः ॥८॥ स्वस्खधान्यं परिज्ञाय जनसंघ गृहाण तत् । परकीये गृहीते हि धान्ये दोषः प्रजायते ॥ ९॥ 25 कदाचित्ताः प्रजा धान्यमेकत्र मिलितं निजम् । विज्ञाय तत्समर्थाः स्युः स्वीकतुं चिरकालतः॥१०॥ नानाकुयोनिधान्येषु मत्वा सक्तेषु देहवान् । मनुष्ययोनिधान्येषु पृथक्कर्तुं न शक्नुयात् ॥ ११॥
॥ इति श्रीधान्यकथानकमिदम् ॥ ३८ ॥
३९. द्यूताख्यानकथानकम् । शतद्वारपुरे सारे द्वारा पञ्चशतानि च । एकैकस्मिन् सति द्वारे रमन्ते मणिराजिते ॥१॥
1 प निवडं. 2 पफज युग्मम्. 3 फज तत्पलं. 4 प युग्मम् , फज युगलम्. 5 [°माणुसए]. 6पज मानसः 7फ confuses some lines. 8 फ omits No.9. 9प कथानकं संपूर्णम्. 10 फद्वारात्पञ्चशतानि च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org