________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[३९. ३शतानि द्यूतकाराणां पञ्च पञ्च विलासिनाम् । तन्मध्ये सहिकश्चैको द्यूतं मुञ्चति सर्वदा ॥२॥ रममाणैस्तकैः सर्वैः सहिकोऽयं कृतध्वनिः । 'कर्ता कपर्दिकाः सर्वे द्यूतकारैः पराजिताः ॥३॥ सर्वं वित्तं समादाय पत्तनं प्रविहाय तत् । द्यूतकाराः पुनस्सर्वे दिशः सर्वा ययुः क्षणात् ॥४॥ सहिको द्यूतकारास्तु ताः कर्ता कापि संगताः । कदाचित्संभवत्येष परस्परसमागमः ॥५॥ । मनुष्यत्वं परिप्राप्य 'गतं तद्विधियोगतः । भूयो न लभते जीवः शुभकर्मपराङ्मुखः ॥६॥
तथा चोक्तम्सयदारम्मि य णयरे दारे दारेसु पंच सदा । एक्के कम्मि य खलये जूयारा पंच पंच सया ॥७॥ सवेहिं जिदो एक्को पुणो वि तेणेव णेज एकको । सो दु कया वि समाणे दुलहमिह माणुसो लंभो ॥८॥ ॥ इति श्रीयुताख्यानकथानकम् ॥ ३९ ॥
४०. कपर्दकबूतकथानकम् । अथ चैवं समाख्यातं द्यूतस्य च कथानकम् । कोविदैर्गुणसंपन्नैलॊकविख्यातकीर्तिभिः ॥ १॥ पूर्वोक्तनगरे रम्ये शतद्वारादिनामके । द्यूतकारो वसत्येको युक्तो निर्लक्षणाख्यया ॥२॥ ।। एष स्वप्नान्तरेऽपीह न किंचिज्जयति स्फुटम् । द्यूतं च रमते बाढमनिर्विष्णो दिवानिशम् ॥३॥
अनेन रममाणेन कथंचिदैवयोगतः । विजिता द्यूतकाराणां कर्ताः सर्वे कपर्दकाः ॥४॥ ततस्तेषां परिप्राप्य सर्वाङ्गीणं ससत्त्विकः । निर्लक्षणो ददौ सर्वान् देशिकेभ्यः कपर्दकान् ॥५॥ लाभानन्तरमेवैते तोषसंतुष्टमानसाः । निर्गत्य पत्तनाच्छीघ्रं ययुः स्थानं यथायथम् ॥६॥
देशिकेषु गतेष्वेषु कांदिशीकत्वमादरात् । निर्लक्षणं वदन्तीमं द्यूतकाराः पुनः पुनः ॥ ७॥ 20 निर्लक्षणत्वमादाय वर्मलादिधनं बहु । अस्माकमानय क्षिप्रं सर्वाः कर्ताः कपर्दकाः॥ ८॥ निशम्य तद्वचः सोऽपि जगादैतान् पुरःस्थितान् । कौतुकव्याप्तचेतस्कान् विनयाचारसंगमान् ॥९॥ देशिकेभ्यो मया दत्ता नूनं कर्ताः कपर्दकाः। तेऽपि तान् शीघ्रमादाय ययुः स्थानं यथोचितम् ॥१०॥ निशम्य तद्वचस्तेऽपि द्यूतकारा निरुत्तराः । निजं सद्म पुनर्जग्मुः कृतकोलाहलखनाः ॥११॥ निर्लक्षणः कदाचित् स ताः कर्तास्ते कपर्दकाः । नूनमेकीभवन्त्येते तदानीं दैवयोगतः ॥ १२ ॥ ५ प्राप्य मानुष्यकं सारं जन्मकोटिषु दुर्लभम् । जीवो न लभते नष्टं रत्नं वा सागरेऽनघम् ॥ १३॥
॥ इति श्रीकपर्दकद्यूतकथानकम् ॥ ४०॥
४१. मनुष्यत्वप्राप्त्यादिकथानकम् । भरतः सगरश्चक्री मघवान् बलसंयुतः । तथा सनत्कुमारोऽभूच्छान्तिः कुन्थुररोऽपरः ॥ १॥
महापद्मः सुभूमोऽपि हरिषेणो विशुद्धधीः । जयसेनोऽपरो विद्वान् ब्रह्मदत्तोऽभवद् बली ॥२॥ 30 एष चूडामणिवैनितान्तं परिरक्षितः । ते देवाः स मणिस्ते च पृथिवीकायिकाऽङ्गिनः॥३॥ ___ 1 [कर्ताः]. 2 4 युग्मम् , फज युगलम्. 3 फ खमादाय. 4 [कर्ताः]. 5 ५ गते. 6 प (अपराक्रमः). 7 फज कथानकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org