________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[३५. २८आकर्ण्य वसुदेवस्य साकल्येन सुभाषितम् । बमाण भूपतिर्भूयस्तं तदानीं कुतूहलात् ॥ २८ ॥ यद्येवं ते स्फुटं भद्र मातृवाक्यं प्रमाणकम् । ततो याहि द्रुतं वत्स तामानय मदन्तिकम् ॥ २९ ॥ भूपवाक्येन संप्राप्य मातरं पुत्रवत्सलम् । अग्रतस्तां विधायाशु राजान्तिकमसावितः ॥ ३०॥ दृष्ट्वा तन्मातरं राजा प्राहेमां प्रीतमानसः' । ब्रूहि भद्रे वरं श्रेष्ठं शीघ्रं संपादयामि ते ॥ ३१॥ । वचनं ब्रह्मदत्तस्य निशम्य प्रीतमानसा । वसुमित्रा जगादैतं सरसं स्नेहतत्परम् ॥ ३२॥ भोज्यं भवगृहे भुक्त्वा मणिकाञ्चनभाजने । विचित्रपुष्पताम्बूलवस्त्राभरणपूर्वकम् ॥ ३३॥ ततः षट्खण्डमेदिन्यां त्वदीयायां नराधिपः । भोज्यं गृहे गृहे भुक्त्वा परिपाट्या यथाक्रमम् ॥३४॥ भूयोऽपि भोजनं भोक्ष्ये त्वगृहे पुत्रसंगता । चोल्लकाख्यमिदं भोज्यं देहि मे भोजनं ध्रुवम् ॥३५॥
ततस्तद्वचनं श्रुत्वा भूपतिस्तोषसंगतः । तद्भोजनं विधानं तु विधिना दातुमुद्यतः ॥ ३६॥ 10 स्लापयित्वा विधानेन भोजयित्वा प्रदाय च । वस्त्राभरणताम्बूलमणिरत्नाधिकं धनम् ॥ ३७॥ यथेदं भोजनं भद्रं महे विहितं मुदा । तथा मन्मेदिनीवेश्मभोजनं प्रविधाय च ॥ ३८॥ भूयोऽपि मगृहं प्राप्य भोजनं कुरुतं क्रमात् । एवमुक्त्वा तकौ शीघ्रं ब्रह्मदत्तो विसृष्टवान् ॥३९॥" अन्तःपुरादिगेहेषु तद्भूमण्डलवेश्मसु । वस्त्राशनं परं लब्ध्वा पुत्रेण सहिता पुनः ॥४०॥
चक्रवर्तिगृहं भूयो वसुमित्रा सुतान्विता । कदाचिदैवयोगेन समायाति ससंभ्रमा ॥ ४१॥ 15 मनुष्यजन्मकल्याणं प्राप्य चैकत्र जन्मनि । भूयश्चतुर्गतीर्घान्त्वा जीवो नाप्नोति निश्चितम् ॥४२॥" मनुष्यभवमासाद्य भवकोटिसुदुर्लभम् । व्रतशीलगुणेष्वेषु यत्नः कार्यों विचक्षणैः ॥ ४३ ॥
॥ इति श्रीचोल्लकाख्यानककथानकमिदम् ॥ ३५ ॥
३६. पासकद्यूतकथानकम् । 'मगधाख्यमहादेशे शतद्वारं पुरं महत् । शतद्वारो नृपस्तस्य शतद्वाराऽस्य सुन्दरी ॥१॥ 20 चित्रचित्रितसर्वाशं जननेत्रमनोहरम् । शतद्वाराख्यभूपेन तत्र द्वारशतं कृतम् ॥२॥ चित्ररूपविचित्राणां स्तम्भानां मणिशालिनाम् । एकैकस्मिन् सति द्वारे शतान्येकादशाभवन् ॥३॥ एकैकस्तम्भनोऽभूवन् नूनं षण्णवतिः परा । अंसिकास्तासु चैकैकमक्षद्यूतं प्रवर्तते ॥४॥ रममाणासु तं द्यूतं द्वारं स्तम्भांसिकास्वरम् । द्यूतकारान् परिप्राप्य शिवशर्मा द्विजोऽवदत् ॥ ५॥
भवतां द्यूतकाराणां द्वारादिस्थानजायिनाम् । यदि दायः पतत्येकः समर्पयत तं मम ॥ ६॥" 25 शिवशर्मवचः श्रुत्वा द्यूतकारा जगुस्तकम् । एकदायोद्भवं द्रव्यं दास्यामस्ते वयं द्विज ॥७॥ एवं निवेदिते तस्य तद्धने दिनसंभवे । स एवं पतितो दायस्तत्रत्यानां प्रदीव्यताम् ॥ ८॥ ततस्तत्सकलं द्रव्यं संख्यानपरिवर्जितम् । द्यूतकारैः ससंतोपैर्वितीर्णं शिवशर्मणे ॥ ९॥" लब्ध्वा लामं ततो विप्रस्तोषपूरितमानसः । आशीर्वादं ददौ तेभ्यो वेदस्मृतिसमुद्भवम् ॥१०॥ भूयः प्रतीक्षते विप्रस्तामेव परिपाटिकाम् । नासावागच्छति कापि तस्य लुब्धस्य तिष्ठतः ॥ ११ ॥ ॥ अथवा स कदाचिच्च यद्यागच्छति तिष्ठतः। मानुषत्वं गतं नूनं जीवो न लभते पुनः ॥ १२ ॥
॥ इति श्रीपासकद्यूतकथानकमिदम् ॥ ३६॥
1 पज प्रीतिमानसः. 2 पफज चतुष्कुलम्. 3 पफज चतुष्कलम्. 4 पफज त्रिकलम्. 5 फज चोल्लकाख्यानकथानकम्. 6 प मगधाक्ष. 7 फ स्तम्भयोभूवन् , [स्तम्भकेऽभूवन्]. 8 प अंसिका द्यूतकारोपवेशनस्थानम्. 9 ज चैकैकमद्यूतं वर्तते,फ चैकैकमद्यूतं वर्तते हृदि. 10 पफज युग्मम्. 11फ दिनसंस्तवे. 12 पफज त्रिकलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org