________________
-३५. २७]
चोल्लकाख्यानकथानकम् गृह्णन्नन्यगुणान् विष्णुर्यथा देवेन पूजितः । प्रद्युम्नपुत्रसंयुक्तो भद्रसद्भावसंगतः ॥ २३ ॥ तथा साधुरपि स्पष्टं पूज्यते सुरकुञ्जरैः । असमानगुणाधारः प्रकृत्यार्जवभूषितः ॥ २४ ॥
॥ इति श्रीविष्णुप्रद्युम्नगुणग्रहणकथानकमिदम् ॥ ३४ ॥
३५. चोल्लुकाख्यानकथानकम् । विनीताविषये कान्ते साकेता नगरी परा । अस्यां चक्राधिपो भोगी ब्रह्मदत्तो बभूव सः ॥ १॥ । सामन्तोऽस्य महासत्त्वः सहस्रभटनामकः । नानाग्रामपतिर्धन्यो वसुमित्राऽभवत् प्रिया ॥२॥ वसुदेवोऽनयोः पुत्रो बभूव गुणवर्जितः । नानायुधसमासंगपरिज्ञानपराङ्मुखः ॥३॥ अन्यदा पञ्चतां प्राप्तः सहस्रादिभटो बली । कृतान्तमुखतः को वा बलवानपि नश्यति ॥४॥ तदभावे नृपेणेदं सहस्रभटजीवनम् । निखिलं दत्तमन्यस्मै हेतिश्रमविधायिने ॥ ५ ॥ वसुदेवस्ततो दुःखी जनन्या वसुमित्रया । तदानीं मूषिकोत्खाते तस्थौ जीर्णकुटीरके ॥६॥ 10 वसुदेवोऽनया शीघ्रं धावनं वसुमित्रया । शिष्यापितोऽश्ववत् सोऽपि धावति स्म त्वरान्वितः ॥७॥ गन्धताम्बूलमाल्यौषैर्भक्षभोजनकारिभिः । भृतं गौणत्वकं चास्मै ददौ शिक्षा तथाऽम्बिका ॥८॥ त्वत्पिताऽपि सुताधावत् ब्रह्मदत्तपतेः पुरः । तस्मादस्य प्रयत्नेन कुरु सेवां यथोचिताम् ॥ ९॥ कक्षामूले विधायाशु तदा गौणत्वकं परम् । जननीवाक्यतः सोऽपि ब्रह्मदत्तान्तिकं ययौ ॥१०॥ वसुदेवः क्षुधां पम्पां गणयेन्नाभिमानतः । कष्टसेवां चकारासौ ब्रह्मदत्तस्य चक्रिणः ॥ ११ ॥ 15 अन्यदा ब्रह्मदत्तोऽयं दुष्टाश्वेन हृतोऽटवीम् । नीतोऽनेन समं धीमान् वसुदेवो ययौ तदा ॥१२॥ ततस्तुरङ्गमात् खिन्नादनेनोत्तारितो भुवि । वसुदेवेन भूपालः क्षुधापम्पाकदर्थितः ॥ १३ ॥ ततः शिलातले दिव्ये पातयित्वाऽग्निमत्र च । तापयित्वाऽग्निनानेन पाषाणनिकरानपि ॥ १४ ॥ निक्षिप्य तान् जले स्तोके स्नापयित्वाऽमुना नृपम् । स्वस्थीकृत्य पुनश्चास्मै ददौ लड्डकभोजनम्॥१५॥ तदन्ते पुष्पताम्बूलं गन्धामोदितदिग्मुखम् । वसुदेवो ददावस्मै भृत्यसन्मानकारिणे ॥ १६ ॥ 20 वस्थीभूततनुः पश्चादानीतो नगरान्तिके । ब्रह्मदत्तोऽमुना शीघ्रं तदा परमबन्धुना ॥ १७॥ वसुदेवाय दत्त्वाऽस्मै स्वनामाङ्कितकङ्कणम् । ब्रह्मदत्तो विवेशायं स्वगृहं सैन्यसंपदा ॥ १८॥ आस्थानमण्डपस्थोऽयं नताशेषनराधिपः । ब्रह्मदत्तो बभाणेदं वचनं निजसंसदि ॥१९॥ विशतो मे पुरं वेगात् खनामाङ्कितकङ्कणम् । पतितं वापि तरिक्षप्रं तलारान्विष्यतामिति ॥२०॥" भूपालवचनं श्रुत्वा सप्रमाणं ततो गतः । आपणान्तं तलारोऽपि नानाजनसमाकुलम् ॥ २१ ॥ 25 ददन्तं हट्टमध्ये च मूल्येन नृपकङ्कणम् । वसुदेवं परिज्ञाय जग्राहेमं तलारकः ॥ २२ ॥ प्राध्वंकृत्य" तकं साधुं विशिषान्तरमध्यतः । वसुदेवं निनायासौ ब्रह्मदत्तान्तिकं तदा ॥ २३॥ वसुदेवं विलोक्येमं निबद्धं दृढबन्धनात् । विधाय मोचनं खेन ब्रह्मदत्तान्तिकं तदा ॥ २४॥ त्वदीयस्योपकारस्य तादृशस्य महात्मनः । प्रतीकारं न शक्नोमि विधातुं भवतोऽधिकम् ॥ २५॥ तथाऽपि त्वं वरं ब्रूहि मनोवाञ्छितमुत्तमम् । तद्धिताहितचेतस्क वसुदेव ददामि ते ॥ २६ ॥3॥ ब्रह्मदत्तवचः श्रुत्वा वसुदेवो जगाद तम् । मन्माता विद्यते नाथ सा जानाति वरं प्रति ॥ २७ ॥
1फज भाषितः.2 फ पश्यति. 3 फजीवनः.4 फ मूखिकोत्खाते. 5 पसुताधावन्. 6फ गोणत्वकं. 7प पम्पां-तुषां. 8 पफज चतुष्कलम्. 9 The page of फ being torn, some letters are lost here and there. 10 ज ददतं. 11ज प्राब्ध, पप्राध्वंकृत्यः बन्धयित्वा. 12[ब्रह्मदत्तोऽब्रवीत्तदा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org