________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ३३. १४९
मणिस्वर्णजिनार्चानि जिनवेश्मानि सर्वतः । हरिषेणो विशुद्धात्मा कारयामास भक्तितः ॥ १४९ ॥ चक्रवर्तिश्रियं तत्र भुञ्जानोऽलं हताहितम् । हरिषेणोऽधिकं राज्यं चकार सरसं सुधीः ॥ १५० ॥ ग्रामेऽपि नगरे घोषे मडम्बे कर्वटादिके । बभूव सकले लोके हरिषेणमयी कथा ॥ १५१ ॥ दुष्टपूषकनादेन मुञ्चन् म्लेच्छसमाश्रयम् । कलकीरनिनादेन शतमन्युपदं भजन् ॥ १५२ ॥ ॰ यथा समस्तसामन्तमस्तकोपात्तशासनम् । हरिषेणो महाराज्यं प्राप्तवान् साधुसंश्रयात् ॥ १५३ ॥ तथा मुनिरपि क्षिप्रं त्यजन् दुर्जनसंगमम् | यशोऽपवर्गमाप्नोति सत्संगस्य समाश्रयात् ॥ १५४ ॥ ॥ इति श्रीदुर्जनाश्रयत्यर्जन सत्संगगमनहरिषेणश्रीसमागमनकथानकमिदम् ॥ ३३ ॥
10
५८
३४. विष्णु-प्रद्युम्न कथानकम् ।
I
११ ॥
सौराष्ट्रैकदेशेऽस्ति द्वारवत्यां पुरि प्रभुः । वासुदेवोऽस्य भार्या च रुक्मिणी मनसः प्रिया ॥ १ ॥ अनयोर्विनयसंपन्नः सर्वलोकमनोहरः । बभूव नन्दनो रूपी प्रद्युम्नः कुलनन्दनः ॥ २॥ गुणानुरञ्जनाख्यायां कथायामनुरक्तधीः । सौधर्मो विबुधाध्यक्षं जगौ नरगुणान्तरम् ॥ ३॥ सौधर्मेन्द्रवचः श्रुत्वा धरानरगुणस्तवम् । कोऽपि देवो जगादैनं कौतुकव्याप्तमानसः ॥ ४ ॥ किं गुणो विद्यते देव नराणां भूमिवासिनाम् । येन त्वं देवराजोऽपि करोषि नरकीर्तनम् ॥ ५ ॥ देववाक्यं समाकर्ण्य नरमात्सर्य संगतम् । बभाण भासुराकारस्तं तदाऽयं पुरन्दरः ॥ ६ ॥ द्वारवत्यां पुरि श्रीमान् वासुदेवः सुतान्वितः । अन्येषां दोषमप्येष गुणं गृह्णाति शुद्धधीः ॥ ७ ॥ सौधर्मेन्द्रस्य सद्वाक्यं निशम्य विबुधः कुधा । जगाम सहसा सोऽरं पुरीं द्वारावतीमसौ ॥ ८ ॥ अत्रान्तरे महीपालः सेनया चतुरङ्गया । ऊर्जयन्ते ससंतानः प्रतस्थे वन्दितुं जिनम् ॥ ९ ॥ अथ हस्तिसमाकारं दुर्गन्धामोदिताशकम् । महाकुष्ठपरिग्रस्तं क्रिमिराशिसमाकुलम् ॥ १० ॥ 20 विधाय ' माण्डलं वेषं मृतरूपं भयानकम् । पपात तत्पथे देवस्तदानीं तत्परीक्षितुम् ॥ तदा तद्गन्धमाघ्राय देवैरपि सुदुःसहम् । प्राणरोधं विधायाशु सर्वं सैन्यं पलायितम् ॥ १२ ॥ शूरः सहः समर्थोऽपि जिनशासनभावितः । ज्ञातपुद्गलसद्भावो हरिस्तस्थौ स तत्पुरः ॥ १३ ॥ विष्णुं पुरः स्थितं दृष्ट्वा देवो ब्राह्मणरूपकम् । विधाय तं जगादेति तत्परीक्षणकारणात् ॥ महाराज जयश्रीमान् बहुकालं मनोभव । त्वमुत्तिष्ठामुतः स्थानाद्गन्धो प्रातुं न शक्यते ॥ १५ ॥ 2s विप्रस्य वचनं श्रुत्वा विस्मयव्याप्तचेतसः । जगाविति हरिस्तं च तद्गुणाकृष्टमानसः ॥ १६ ॥ चन्द्रकान्तमणिच्छाया शोभना द्विजसंततिः । रक्तोत्पलदलाभोगा पद्मरागसमप्रभा ॥ १७ ॥ मुखमध्यस्थिता चार्वी जिह्वा यस्य विराजते । समुज्ज्वलतयोपेतमधुपिङ्गललोचने ॥ १८ ॥ एवमादिगुणोपेतं शरीरं यस्य राजते । स कथं निन्द्यते विप्र मण्डलो दीप्तिमण्डलः ॥ १९ ॥ श्रुत्वा विष्णुवचो देवस्तोषकण्टकिताङ्गकः । दिव्यरूपधरः श्रीमान् जगादेमं सविस्मयः ॥ २० ॥ 30 यथा त्वं वर्णितो राजन् सौधर्मेण सुतान्वितः । तथाधिकगुणाम्भोधिस्त्वत्समो नापरः पुमान् ॥२१॥ कथयित्वा स्ववृत्तान्तं दत्त्वाऽस्मै हारमुज्वलम् । स्मृत्वा गुणान्तरस्योच्चैर्देवः स्वं प्रययौ दिवम् ॥२२॥
१४ ॥
15
*
1 पफज युग्मम्. 2 फज त्यजन्. 3 Here has an additional line, the same as the first line of 2. 4 प माण्डलं श्वानं 5 पफज चतुष्कलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org