________________
-३३. १४८ ] हरिषेणश्रीसमागमनकथानकम्
५७ अश्वै रथैर्गजैश्चित्रैभेटैरपि ससंभ्रमैः । सहितौ चेलतुस्तूर्णं गङ्गाधर-महीधरौ ॥ ११६ ॥ सैन्यद्वयमपि प्राप्तं कृतान्योन्यमहारवम् । नानायुधकृतोद्योतं वैतालिककलस्वनम् ॥ ११७ ॥ गजो गजेन संलग्नस्तुरङ्गेन तुरङ्गमः । रथो रथेन च क्षिप्रं भटेनापि भटो रुषा ॥ ११८ ॥ एवं महति संजाते संग्रामे भयदायिनि । परस्परकलध्वानपूरिताकाशभूतले ॥ ११९ ॥ केनापि वारणो ध्वस्तः केनापि च तुरङ्गमः । रथस्थेन रथो बाणैः पदिकोऽपि पदातिना ॥१२०॥ हरिषेणबलेनेदं गङ्गाधरबलं तदा । भयवेपितसर्वाङ्गं हतं शस्त्रैः पलायितम् ॥ १२१॥ दृष्ट्वा पलायितं सैन्यं निजं गङ्गाधरो बलः । समं तेन वरेणापि तस्थौ नो तत्सुखे परः ॥ १२२॥ दृष्ट्वा पुरःस्थितं वीरं गङ्गाधरखगेश्वरम् । तत्संमुखमभीयाय हरिषेणः कलध्वनिः ॥ १२३ ॥ गङ्गाधरं विलोक्येमं चक्रहस्तं पुरःस्थितम् । हरिषेणो जगौ मन्दं मुञ्चास्त्रं क्रोधयामि ते ॥१२४॥ श्रुत्वा तं निनदं क्रुद्धो गङ्गाधरखगेश्वरः । तत्संमुखं मुमोचेदं चक्रं रविसमप्रभम् ॥ १२५॥ ॥ आगत्य वेगतश्चक्रं त्रिः परीत्य समुज्वलम् । हरिषेणकरे तस्थौ पुण्यतः किं न सिध्यति ॥१२६॥ हरिषेणः करणेदं चक्रं यावद्विमुञ्चति । गङ्गाधरः खगस्तावद्रणाच्छीघ्रं पलायितः ॥ १२७ ॥ ततो भग्नं समालोक्य सिंहविक्रमराजितः । हरिषेणोऽसिपाणिः सन्निर्जगाम रणादरम् ॥ १२८ ॥ परिगृह्य ततो 'बन्दीर्जयनन्दावकारिभिः । मागधैः कलनिस्वानैः स्तूयमानः समङ्गलम् ॥ १२९ ॥ हस्तिभिर्मदसंयुक्तैः सप्तिभिश्चलचामरैः । स्यन्दनैश्चक्रचीत्कारैर्भटेवल्गनकारिभिः ॥ १३०॥ 15 तां श्रीशङ्खकलस्वानैस्तूर्यध्वनैर्विमिश्रितैः । हरिषेणो विवेशारं श्वशुरस्य पुरं पराम् ॥ १३१॥ पञ्चवर्णमणिबातैर्मण्डिते मणिविस्तरे । चतुष्के चोपविष्टस्य हरिषेणस्य धीमतः ॥ १३२ ॥ सुवर्णमणिकुम्भौधैः श्वशुरः स्वकरोद्धृतैः । अभिषेकं चकारास्य कलमङ्गलनिस्वनैः ॥ १३३॥ षट्खण्डां पृथिवीं सारां नगराकरमण्डिताम् । वशीचकार संक्षेपात् सप्तभिर्वासरैरयम् ॥ १३४ ॥ यस्य चञ्चलसृक्कानां कोट्योऽष्टादश वाजिनाम् । हस्तिनां च तथा लक्षाण्यशीतिश्चतुरुत्तरा ॥१३५॥ ३० द्वात्रिंशच सहस्राणि भूपतीनां स्फुरत्त्विषाम् । रमणीनां सहस्राणि नवतिस्तु षडुत्तरा ॥ १३६ ॥ चतुर्दश च रत्नानि निधयोऽपि नवाऽपरे । रथानां हस्तिसंख्यानं चारुभोगो दशाङ्गकः ॥१३७॥ अर्धाष्टकोटयः सन्ति धेनूनां सुपयस्विनाम् । सुवर्णशृङ्गयुक्तानां हलकोटी तथा परा ॥ १३८ ॥ इत्यादिचक्रसंभूतां राज्यश्रियमहीनकाम् । हरिषेणः समं प्राप जिनधर्मसमागमात् ॥ १३९ ॥ श्रेणिद्वये यके खेटा विद्याबलसमन्विताः । तकान् सर्वान् वशीकृत्य चकार श्वशुरानुगान् ॥१४०॥ 25 आपृच्छय शकचापं स तथा बुद्धिमतीमपि । जयचन्द्रां समादाय ययौ तापसपल्लिकाम् ॥१४॥ शतमन्युसुतां चोद्यां विधिना मदनावलीम् । स्वसैन्यसमुदायेन प्राप काम्पिल्यपत्तनम् ॥ १४२॥ चक्रवर्तिश्रियं प्राप्तं हरिषेणं विलोक्य सः । सिंहध्वजनृपो वा परितोषं ययौ परम् ॥ १४३ ॥ आनन्दं परमं तत्र हरिषेणसमागमे । सिंहध्वजश्चकारायं तदानीं नूनसंपदा ॥ १४४ ॥ लक्ष्मीमतीरथं ब्राह्मं मणिकाञ्चननिर्मितम् । हरिषेणः वहस्तेन चूर्णयामास कोपतः ॥ १४५ ॥ 30 अष्टाह्निकमहं कृत्वा शहतूर्यादिभिः स्वनैः । हरिषेणो रथं जैनं मातुमयति स्म सः ॥ १४६॥ वेणिकां मोचयित्वाऽऽशु जिनपूजाविधानतः । शोकापनयनं मातुश्चकारायं विशुद्धधीः ॥१४७॥ षट्खण्डपृथिवीमध्ये पर्वते निम्नगातटे । सरोवरे नदीप्रान्ते ग्रामपत्तनकादिके ॥ १४८ ॥
1प बन्दीजय. 2 पफज त्रिकलम् . प युग्मम् , फज युगलम् . 4 प नगराकार. 5प षडुत्तराः. 6 प चतुर्भिः कुलकम् , फ चतुर्भिः कलकम् , ज चतुष्कलम् .
वृ० को०८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org