________________
हरिषेणाचार्यकृते बृहत्कथाकोशे । [३३. ८२शोभने दिननक्षत्रे वारयोगे निशाकरे । तस्य ताभिः समं वृत्तं पाणिग्रहणमङ्गलम् ॥ ८२ ॥ अथ कन्याशतेनोच्चैः प्रासादे सप्तभूमिके । हरिषेणः सुखं तस्थौ संसुप्तः सरसं निशि ॥ ८३ ॥ सुखं सुप्तं कुमारं तं ज्ञात्वा वेगवती तदा । आदाय सहसाज्यासीद् गगनस्थितविग्रहा ॥८४॥ अथ निद्राक्षये जाते समीरणसमागमात् । हरिषेणो जगादैतां क मां नयसि सुन्दरि ॥ ८५ ॥ साऽपि तद्वचनं श्रुत्वा जगौ तं कृतकौतुकम् । सूर्योदयं पुरं रम्यं विजयानगे भवेत् ॥ ८६ ॥ अत्र चेन्द्रधनू राजा तस्य बुद्धिमती प्रिया । कलाविज्ञानसंपन्ना जयचन्द्रा सुताऽनयोः ॥ ८७॥ कोऽपि लोके नरो नास्ति मद्रूपसमविभ्रमः । धवं प्रति विरक्ताऽतो दुर्मनस्का सकाऽन्यदा ॥ ८८॥ अनिच्छन्ती नरं चान्यं त्वद्रपं पट्टसंस्थितम् । दृष्ट्वाऽपि मोहमासाद्य चेतनां चाह मां पुनः ॥ ८९॥ मचित्तलोचनानन्दं यदि नानयसि द्रुतम् । एतं मराम्यहं मुग्धे निर्विकल्पं मनखिनि ॥ ९ ॥ 10 तत्प्रतिज्ञां परिज्ञाय तत्समागमसंभवम् । त्वत्समीपमहं प्राप्य त्वां नयामि तदन्तिकम् ॥ ९१॥
एवं तद्वचनं श्रुत्वा तोषकण्टकिताङ्गकः । मौनमादाय संप्राप्तो हरिषेणस्तदन्तिकम् ॥ ९२ ॥ त्वचित्तचोरणः पुत्रि जयचन्द्रे जनप्रियः । आनीतोऽयं मया भद्रे कुमारस्ते समर्पितः ॥ ९३ ॥ अन्योन्यदृष्टिसंपातजातस्नेहसमागमौ । बभूवतुरुभौ प्रीतौ जातविस्मयकारणौ ॥ ९४ ॥
जयचन्द्रामतं प्राप्य तत्पिताञ समागतः । दृष्ट्वाऽमुं रूपसंपन्नं तोषमाप स तत्क्षणात् ॥ ९५ ॥ 15 सुखोपविष्टमालोक्य जनकं प्राह तत्सुता । तात त्वं देहि मामस्मै नान्यमिच्छाम्यहं धवम् ॥ ९६ ॥
सुतावचनमाकर्ण्य दृष्ट्वा जामातरं तथा । सर्वलक्षणसंपूर्ण प्राहेमां तोषतः पिता ॥ ९७॥ धन्या त्वमसि मुग्धाऽपि चतुरा पुत्रि सांप्रतम् । येन कान्तस्त्वया लब्धो जातानन्दो मनस्विनि ॥९८॥ सुतावचनतोऽनेन शकचापेन शोभनम् । अनयोः कारितं शीघ्रं पाणिग्रहणमङ्गलम् ॥ ९९ ॥
अथ गङ्गाधरः श्रुत्वा जयचन्द्रां मनःप्रियाम् । वितीर्णां देशिकायाशु जगाम क्रोधराशिताम् ॥१०॥ 20 शमं विधाय कोपाग्नेः क्षान्तितोयेन भूयसा । भागिनेयः परं दूतं प्रजिघाय तदन्तिकम् ॥१०१॥
शकचापं परिप्राप्य गङ्गाधरवचोहरः। जगादेति वचो धीरं स्वनाथहितमादरात् ॥ १०२॥ त्वं मातुल सुतां स्वस्य जयचन्द्रांमदावहाम् । अस्मभ्यं देहि तां योग्यां स्वरक्षणनिमित्ततः ॥१०३॥ श्रुत्वा दूतवचः प्रौढं जगादेन्द्रधनुस्तकम् । अनया स्वयमेवायं गृहीतः किं करोम्यहम् ॥१०४॥ इन्द्रचापवचः श्रुत्वा जगौ दूतोऽपि तं पुनः । देहि मह्यं सुतां नो चेत्संग्रामाय भव द्रुतम् ॥१०५॥ 25 एवं निगद्य तं दूतः स्वनाथान्तिकमादरात् । संग्रामनिहितस्वान्तो ययौ स्वामिहितः कृती ॥१०६॥
अथ जामातरं क्षिप्रमाहूय श्वशुरस्तदा । यशोव्याप्तसमस्ताशं जगाद पुरतः स्थितम् ॥ १०७॥ रुष्टो गङ्गाधरः पुत्र भागिनेयो ममोपरि । सुतादानादतस्तिष्ठ त्वमत्रैव पुरे स्थितः ॥ १०८॥ प्रयाम्यहमनेनाशु योद्धं बलवता द्विषा । चतुरङ्गेण सैन्येन सहितोऽतिरुषाऽन्विति ॥ १०९॥ निशम्येन्द्रधनुर्वाक्यं हरिषेणो जगावमुम् । मत्प्रयोजनमेवेदं याम्यतः प्रधनाय तम् ॥ ११० ॥ 30 एकं रथं भृतं शस्त्रैर्निशितैर्बहुभेदकैः । देहि सारथिना युक्तं कुशन न मेऽपरैः ॥ १११॥
जामातुर्वचनं श्रुत्वा श्वशुरो निजगाद तम् । एवमस्त्विति संभाष्य मुक्तोऽनेन समङ्गलम् ॥११२॥ समीरणमनोवेगैस्तुरगैः करिभिः कलैः । रथैः कनकनिर्माणै टैर्यमभयंकरैः ॥ ११३ ॥ एतैरन्यैरपि क्षिप्रं विद्याधरकदम्बकैः । हरिषेणश्चचालायं तदा गङ्गाधरं प्रति ॥ ११४ ॥ श्रुत्वा देशिकाँमातृसमधिष्ठितवाहिनीम् । आयान्तीमिन्द्रचापस्य हसित्वा तौ महाक्रुधा ॥११५॥
1 फज पटसंस्थितम्. 2 पफज षट्कलकम्. 3 फ भयद्रुतम्, 4 [ °रुषाऽन्वितः ]. 5 [देशिकजामातृ॰].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org