________________
-३३. ८१]
हरिषेणश्रीसमागमनकथानकम् ज्ञात्वाऽनयोः परां प्रीतिं शतमन्युः कुशाग्रधीः । तत्सुताहितचेतस्कं हरिषेणं विसृष्टवान् ॥५०॥ शतमन्युवचः श्रुत्वा सुता भयपराङ्मुखम् । हरिषेणसमं कृत्वा देशं सिन्धुनदं ययौ ॥५१॥ तस्मिन् सिन्धुनदीतीरेऽभवत् सिन्धुनदं पुरम् । राजा सिन्धुनदःश्रीमानस्य सिन्धुमती प्रिया॥५२॥ मुखेन कमलं चन्द्रं नादेन कलवल्लकीम् । जयन्ती कोकिलामासीत् सिन्धुदेवी सुताऽनयोः ॥५३॥ अथ कन्याशतोपेता जलक्रीडनकौतुका । सिन्धुदेवी परिणाप तदा सिन्धुनदीह्रदम् ॥ ५४॥ शतमन्युसुतास्नेहरागरञ्जितमानसः । हरिषेणोऽपि तं प्राप वीरः सिन्धुनदीह्रदम् ॥ ५५॥ कन्याशतं विलोक्यायं मकरध्वजमानदम् । खकान्तिद्योतिताकाशं कामबाणैः समाहतः ॥५६॥ कन्याशतं विलोक्येमं जलक्रीडां विहाय तत् । तत्सन्मुखमभीयाय तपाहृतमानसम् ॥ ५७॥ यावत्परस्परालोकसुखसंगतमानसम् । वज्राज कन्यकावृन्दं सुरूपं व्यवतिष्ठते ॥ ५८॥ यावगिरिसमुत्तुङ्गो मन्दमन्दगतिक्रियः । संप्राप्तो मत्तमातङ्गस्तं हृदं निजलीलया ॥ ५९॥ 10 विलोक्य तं नगाकारं तदानीं राजहस्तिनम् । सिन्धुदेव्यादिकन्योघो बभूव भयविह्वलः ॥ ६०॥ दृष्ट्वा करिणमायान्तं हरिषेणो मदाच्युतम् । विश्रब्धीकृत्य कन्यौघं दध्यौ मनसि धीरधीः ॥६१॥ वामलूरं खनत्युक्षा विषाणाभ्यां न पर्वतम् । छिनत्ति हि नरो रम्भा खड्ङ्गेन न शिलां घनाम् ॥ ६२॥ मृदोः परिभवं कुर्याजनो दुर्जनचेष्टितः । विधातुमसुखं क्लीबो न वाञ्छति बलीयसि ॥ ६३॥ भ्रूणास्ते तापसा हीना येषां क्षान्तिर्मया कृता । न हि हस्ती परावृत्तो हस्तिनो भवति क्षितौ ॥६४॥ 15 इति संचिन्त्य तुष्टात्मा सिंहनादं विधाय सः। आधोरणं जगौ मन्दं हरिषेणो भयच्युतः ॥६५॥ रेरे हस्तिपक क्षिप्रं हस्तिनं दूरतो नय । अन्यथा मरणं मत्तः प्राप्स्यसि त्वं खलाधुना ॥६६॥ श्रुत्वा हस्तिपको वाक्यं हरिषेणस्य धीमतः । जगावमुमयं वीरः कोपारुणनिरीक्षणः ॥ ६७ ॥ आत्मानं हस्तिनं मूढ मन्यसे मतिदुर्विधः । जरत्तृणमिवाजस्रं हस्तिनं तं मदालसम् ॥ ६८॥ मूढ त्वं जम्बुको भूत्वा समं सिंहेन किं कलिम् । करोषि किं गतायुस्त्वं निर्विण्णोऽसि खजीविते॥६९॥ १ आधोरणवचः श्रुत्वा हरिषेणो जगावमुम् । मत्सन्मुखमिभं मुञ्च निर्मदं विदधाम्यहम् ॥ ७॥ हरिषेणवचः श्रुत्वाऽऽधोरणो रक्तलोचनः । मुमोच हस्तिनं वेगादूर्ध्वहस्तं तकं प्रति ॥ ७१॥ दृष्ट्वा हस्तिनमायान्तं कुण्डलीकृतवस्त्रकम् । मुमोच तत्पुरः शीघ्रं हरिषेणो विचक्षणः ॥ ७२ ॥ यावत्करी करणेदं गृह्णाति स पुरः स्थितः । तावद्दन्तान्तरे पादौ विधायाधिरुरोह तम् ॥ ७३ ॥ क्षिप्त्वा हस्तिपकं भूमौ विमदीकृतकुञ्जरम् । नानाकरणमार्गेण हरिषेणो हि दान्तवान् ॥ ७४ ॥25 येन राजकरी दान्तो देवानामपि दुर्दमः । तस्मै कन्याशतं दत्तमस्माभिः प्राप्तसंगरैः ॥ ७५ ॥ तूर्यशङ्खनिनादेन कलमङ्गलराजिना । गत्वा तं समुदायेन शीघ्रमानयत स्फुटम् ॥ ७६ ॥ श्रुत्वा भूमिपतेर्वाक्यं निर्गत्य वरवर्त्मनः । हरिषेणं परिप्रापुर्महाबलसमन्विताः ॥ ७७॥ तूर्यैर्मधुरनिर्घोषैरानादितनभस्तलैः । तदुक्तो हरिषेणोऽपि विवेश नृपमन्दिरम् ॥ ७८॥ हरिषेणोऽवतीर्याशु हस्तिनो मदशालिनः । कृतभूपतिसन्मानः स्वासने चोपविष्टवान् ॥ ७९ ॥ 30. सुखोपविष्टमालोक्य हरिषेणं नराधिपः । जगाद विस्मितस्वान्तस्तोषपूरितमानसः॥ ८०॥ दुर्दमेभवशीकारादस्माभिस्तोषमागतैः। तुभ्यं कन्याशतं दत्तं स्वरूपजितदेवतम् ॥ ८१॥
1प विसृष्टवान् गमनं प्रति आज्ञां दत्तवान्. 2 पज हरिषेणः समं. 3 प वल्लकी-वीणाम्. 4 प सिन्धुनदं हृदम्. 5फ जनलीलया. 6प करिणमायातं. 7 पफज चतुष्कलम्. 8प आधोरणं-हस्त्यारोहम्. 9 हस्तिनमायातं. 10 पज ते निर्गत्य.
दम. 5 फ जनलीलया. 6 प करिणमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org