________________
५४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ३३.२१
यदि लक्ष्मीमतीं हन्मि पिता शोकेन गृह्यते । रुदन्तीं मातरं चाहं न शक्नोमि समीक्षितुम् ॥ २१ ॥ ततस्तेन समं युद्धं किं करोम्यविवेकिना । ममैतदपि नो युक्तं कर्तुं क्षुद्रविचेष्टितम् ॥ २२ ॥ इदं चेतसि संचिन्त्य हरिषेणो महामतिः । वैराग्याहितचेतस्को निर्जगाम गृहादरम् ॥ २३ ॥ पुरं ग्रामं सरोदेशं गोकुलं पर्वतं नदीम् । अतिक्रम्य वनं भीमं हरिषेणो विवेश सः ॥ २४ ॥ मेपलीं महापल्लीं सकलासुफलप्रदाम् । पश्येत् स्वल्पान्तरे यावत्तावच्छुश्राव स ध्वनिम् ॥ रोधनं छेदनं भेदं बन्धनं कुरुतास्य रे । युष्माकं येन राजाऽयं ददाति विविधं धनम् ॥ श्रुत्वा वाऽशोभनं रावं शुकस्य भयकारणम् । ततो निवृत्तयामास हरिषेणस्त्वरान्वितः ॥ ततो निवृत्तमानः सन् यावद्वजति सोऽन्यतः । शुश्राव तावदन्यस्य शुकस्य कलनिस्वनम् आसनं भोजनं शुद्धं ताम्बूलं वस्त्रयुग्मकम् । बहुमूल्यं कुमाराय सुकुमाराय दीयताम् ॥ 10 इमं कीरकलध्वानं निशम्य मनसः प्रियम् । जगादेति शुकं हृष्टो हरिषेणो गतश्रमः ॥ त्वत्समः कोऽपि मां वीक्ष्य वदति क्रूरमानसः । मारणादिकमेतस्य दस्यवः कुरुत द्रुतम् ॥ ३१ ॥ देवोऽसि किं मनुष्योऽसि किं मायी कोऽपि दानवः । किं मां छलयितुं प्राप्तस्त्वं सत्यं ब्रूहि कोऽसि मे ॥ * हरिषेणवचः श्रुत्वा पूषकोऽपि जगावमुम् । तदागमनसंतोषनादपूरितपुष्करः ॥ ३३ ॥ मम तस्य विहङ्गस्य मातैका जनकोऽपि वा । नीडादहं समानीतो मुनिभिः स गवाशनैः ॥ ३४ ॥ 15 गवाशनसमूहस्य शृणोति वचनं सकः । अहं योगिनिकायस्य श्रुतयुक्तस्य भूपते ॥ ३५ ॥ भवद्भिवींतसंदेहैः' कार्यमेतद्विलोकितम् । संसर्गसंभवा दोषा गुणा वा स्युर्महीतले ॥ ३६ ॥
1
तथा चोक्तम् -
माताऽप्येका पिताऽप्येको मम तस्य च पक्षिणः ।
अहं मुनिभिरानीतः स चानीतो गवाशनैः ॥ ३७ ॥ गवाशनानां वचनं शृणोति अहं च राजन् मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवताऽपि दृष्टं संसर्गजा दोषगुणा भवन्ति ॥ ३८ ॥
20
25
॥
Jain Education International
२५ ॥
२६ ॥
२७ ॥
पूषकोक्तं समाकर्ण्य तोषपूरितमानसः । हरिषेणो जगामेमं शतमन्युसमाश्रयम् ॥ ३९ ॥ हरिषेणं विलोक्यायं शतमन्युः ससंभ्रमः । चकारास्य महापूजां भोजनाच्छादनादिकम् ॥ ४० ॥ शतमन्योर्महादेवी चासीन्नागवती परा । चम्पापुरीप्रभुः श्रीमान् सुतोऽपि जनमेजयः ॥ ४१ ॥ रूपराजितसर्वाङ्गी बालमुग्धमृगेक्षणा । शतमन्युसुता चाव तरुणी मदनावली ॥ ४२ ॥ उष्ट्राधिपतिना तेन याचिता सा प्रयत्नतः । न दत्ता नागवत्यस्मै महाविभवभागिने ॥ ४३ ॥ नैमित्तिकेन चादिष्टं त्वत्सुता मदनावली | भविष्यति कलाधारा स्त्रीरत्नं चक्रवर्तिनः ॥ ४४ ॥ उष्ट्राधिपतिनाऽऽगत्य चम्पाख्या नगरी रुषा । स्वसैन्यसमुदायेन सर्वतः परिवेष्टिता ॥ ४५ ॥ अत्रान्तरे भयग्रस्ता सुतामादाय मातृका । शतमन्युसमीपं च गता सा तत्सुरङ्गया ॥ ४६ ॥ 30 परस्परं समालोक्य स्नेहनिर्भरयोस्तयोः । " प्रव्राज - मदनावल्योः सानुरागो महानभूत् ॥ ४७ ॥ देशिकेन समं स्नेहं किं करोषि वृथा सुते । चक्रवर्तिप्रिया क्षिप्रं भविष्यति" तनूदरि ॥ ४८ ॥ एवं नागवतीं पुत्रीं निवारयति तं प्रति । न करोति मतिं मातुस्तथाऽपि मदनावली ॥ ४९ ॥
For Private & Personal Use Only
२८ ॥
२९ ॥
३० ॥
1 फज ततो न च समं. 2 पफ चतुष्कलम् ज चतुष्कलकम्. 3 प मेदपल्ली - भिल्लपल्ली. 4 पफज त्रिकलम्. 5 प गवाशनैः =म्लेञ्छैः, ज=भिलैः; फ सगरासनैः 6 प योगनिकायस्य 7 प संदोहैः. 8 प तरुणा. 9 फज उष्ट्राधिपतिनीलेन. 10 प प्रत्राजः = हरिषेणः:. 11 [ भविष्यसि ] 12 फ तनुदरी 13 प युग्मम्,
फज युगलम्.
www.jainelibrary.org