________________
५३
-३३. २०]
हरिषेणश्रीसमागमनकथानकम् स्थित्वा हंससमं तत्र स्तोकवेलां स घूककः । प्राप्य तदक्षिणं भागं चकार ध्वनिमाकुलम् ॥२२॥ श्रुत्वा घूकखरं राजा कोपलोहितलोचनः । चापमारोपयामास मण्डलीकृतविग्रहम् ॥ २३॥ आकर्णाकृष्टमत्युग्रमनुशब्दं नराधिपः। क्रोधपूरितचेतस्कः कर्णिकाण्डं मुमोच सः ॥ २४ ॥ अनेन कर्णिकाण्डेन भूपमुक्तेन सत्वरम् । निदोषोऽपि हतो हंसो घूको दुष्टः पलायितः ॥२५॥ निर्दोषोऽपि यथा हंसो निहतो घूकदोषतः । प्रजापालेन भूपेन क्रोधसंभारमीयुषा ॥ २६ ॥ तपोज्ञानगुणाधारः संयतश्विरदीक्षितः। तथा दुर्जनसंगेन महान्तं दोषमाप्नुयात् ॥ २७॥
तथा चोक्तम्अकालचर्यां विषमैस्तु गोष्ठी कुमित्रसेवां न कदाऽपि कुर्यात् ।
पश्याण्डजं पद्मवने प्रसूतं धनुर्विमुक्तेन हतं शरेण ॥ २८ ॥ ॥ इति श्रीदुष्टघूकसंगतप्रजापालभूपतिहतहंसकथानकमिदम् ॥ ३२॥ ॥
३३. हरिषेणश्रीसमागमनकथानकम् । अथाङ्गाख्यमहादेशे काम्पिल्यनगरं परम् । राजा सिंहध्वजो रूपी सिंहविक्रमराजितः ॥१॥ सम्यग्दर्शनसंपन्ना द्वादशाणुव्रतान्विता । रूपयौवनसंयुक्ता शीलभूषणधारिणी ॥२॥ आषाढे कार्तिके मासे फाल्गुने च महामहम् । जिनानां या चकारास्य वप्रा सा वल्लभाऽभवत् ॥३॥ कलाविज्ञानसंपन्नो रूपराजितविग्रहः । हरिषेणोऽभवत् पुत्रोऽनयोश्चक्री भविष्यति ॥४॥ 15 मिथ्यात्वमोदितस्वान्ता सौभाग्यमदविह्वला । चण्डकोपा खरस्वाना जिनधर्मपराङ्मुखी ॥५॥ दुष्टचित्ता भुजङ्गीव गुञ्जाफलविलोचना । अन्या लक्ष्मीवती तस्य भूपतेरभवत् प्रिया ॥६॥ अथ वा रथं जैनं यावदष्टाह्निकामहे । नगराभ्यन्तरे रम्ये मुदा भ्रमयति स्फुटम् ॥ ७॥ तावलक्ष्मीमती क्रुद्धा प्राप्य वप्रागृहं तदा । जगादैतां पतिस्नेहगर्वान्मन्थरनादिनी ॥ ८॥ पुरे ब्रह्मरथः पूर्वं मदीयो भ्रमतु द्रुतम् । पश्चाज्जैनरथो वप्रे त्वदीयोऽपि यथाविधिः ॥ ९ ॥ 20 एवं निगद्य तां वां पतिवल्लभकारणात् । लक्ष्मीमती जगामारं संतुष्टा निजमन्दिरम् ॥ १०॥ श्रुत्वा लक्ष्मीवतीवाक्यं बाष्पविप्लुतलोचना । चक्रे मनसि वा च प्रतिज्ञामतिदुःखिता ॥ ११ ॥ प्रथमं हि रथो जैनो भ्रमिष्यति पुरे यदि । ततो मम प्रवृत्तिः स्यादाहारादेर्न चान्यथा ॥ १२ ॥ यावदेवं च दुःखार्ता वा तिष्ठति मन्दिरे । हरिषेणोऽपि संप्राप मातरं तावदाकुलाम् ॥ १३ ॥ विलोक्य जननीं गेहे हरिषेणो जगाद ताम् । ब्रूहि केन कृतं मातस्तव शोकस्य कारणम् ॥१४॥ 25 हरिषेणवचः श्रुत्वा जगौ माताऽपि तं सुतम् । लक्ष्मीमत्या रथो जैनो निषिद्धो विचरन् पुरे ॥१५॥ पूर्वं ब्रह्मरथो मेऽद्य तावद्धमतु पत्तने । पश्चाद्वप्रारथो जैनस्त्वदीयोऽपि मनोहरः ॥ १६ ॥ मयाऽपि तद्वचः श्रुत्वा प्रतिज्ञेयं कृता सुत । यदि जैनरथः पूर्वं भविष्यति मम ध्रुवम् ॥ १७॥ भोजनं जलताम्बूलपुष्पगन्धानुलेपनम् । ग्रहीष्यामि ततः पुत्र नान्यथाऽहं कदाचन ॥ १८ ॥ अनेन च निमित्तेन शोकसंतप्तमानसा । स्थिताऽहं वेणिकां बद्धा रुदन्ती कथितं तव ॥ १९ ॥° 30 मातुर्वचनमाकर्ण्य दुःखपूरितमानसः। हरिषेणो महासत्त्वो दध्यौ मनसि धीरधीः ॥ २० ॥
___14 धूषकः. 2 फ अनेक. ३ पफज युग्मम्. 4 प लक्ष्मीमती. 5 पफज युग्मम् . 6 प रथम. 74लक्ष्मीमती. 84 जननीगेहं. 9फ मया. 10 पफज चतुष्कलकम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org