________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[३१. २९श्रुत्वा नृपवचो विप्रो जगौ भूपं क्रुधान्वितम् । मद्यं पिबाम्यहं नैव राजन् दुग्धमिति ब्रुवन् ॥२९॥ अवाचि भूभुजा भूयः शिवभूतिः कुतूहलात् । छदि कुरु पुनर्येन दुग्धं पश्यामि सांप्रतम् ॥ ३०॥ दत्त्वाऽङ्गुलिमयं छ िचकार नृपशासनात् । क्षीरभावपरित्यक्तां विलोक्येमां नृपो रुषा ॥ ३१॥ अर्धचन्द्रं गले दत्त्वा शिवभूतिं करेण सः । पुरान्निःसारयामास खलीकृत्य नरेश्वरः ॥ ३२॥ 5 यथा दोषविहीनोऽपि गुणवान् लोकपूजितः । कल्लालसंगतो राज्ञा विप्रो निर्धाटितः पुरात् ॥३३॥ तथा साधुरपि क्षिप्रं तपस्वी संयमी गुणी । निर्दोषी दोषमाप्नोति स्फुटं दुर्जनसेवया ॥ ३४ ॥
तथा चोक्तम् - न स्थातव्यं न गन्तव्यं सहात्र दुष्टकर्मणा ।
शौण्डैः सह पयः पीतं वारुणीं मन्यते जनः॥ ३५॥ ॥इति कल्लालमित्रसंगतिशिवभूतिनिर्धाटनकथानकमिदम् ॥ ३१ ॥
___
३२. घूकसंगतहंसकथानकम् । अथास्ति मगधादेशे पुरं पाटलिपुत्रकम् । प्रजापालोत्र भूपालो वनमालाऽस्य वल्लभा ॥१॥ घूकस्तगोपुरद्वारगुहामध्ये समानके । अन्यत्र भ्रमणं कृत्वा वसति प्रीतमानसः॥२॥ सोऽन्यदा विहरन् कापि गङ्गापुलिनसंगतान् । प्रययौ शर्वरीमध्ये नन्दध्वानान् कलखनान् ॥३॥ 15 दत्त्वा मृणालखण्डानि संभाषणपुरस्सरम् । वृद्धहंसो जगादैनं कौशिकं सुस्थतामितम् ॥ ४॥
कोऽसि त्वं शोभनाकारः कुतो वेह समागतः । एतत्सर्वं मम स्पष्टं कथयाशु महामते ॥५॥ धूकोऽपि तद्वचः श्रुत्वा जगादेमं पुरः स्थितम् । हंससंततिमध्यस्थं विनयानतमस्तकम् ॥ ६॥ अहं सखे धरानाथो महावंशसमुद्भवः । अहं समस्तसामन्तमस्तकोपात्तशासनः ॥७॥ चन्द्रप्रियः कलाधारः क्रीडामुदितमानसः । एवंविधोऽपि सस्नेहं युष्मद्रष्टुं समागतः ॥ ८॥ 20 कौशिकस्य वचः श्रुत्वा मरालः प्रीतमानसः। जगावमुं कलध्वाननादिताशेषपुष्करः ॥ ९ ॥ महाराज महीनाथ भवद्भिः शोभनं कृतम् । यदस्मान् द्रष्टुमायातः पालनीयाननारतम् ॥ १०॥ भूयो मृणालखण्डानि कोमलानि धनानि च । प्रददौ राजहंसोऽस्मै स्नेहनिर्भरमानसः ॥ ११ ॥ अन्योन्यप्रेमसंबन्धतुष्टमानसयोस्तयोः । बभूव परमा मैत्री मयूरघनयोरिव ॥ १२ ॥ ततो जगाद तं हंसं घूको मुदितमानसः । मम प्राघूर्णको ोहि मित्रस्य मत्पुरो भव ॥ १३॥ 25 मन्दखाननिषिद्धोऽपि खमुत्पत्य त्वराऽन्वितः । ययौ तद्गोपुरद्वारं हंसो घूकसमं निशि ॥ १४ ॥
अत्रान्तरे प्रजापालः स्कन्धावारेण भूयसा । तदा दिग्विजयं कर्तुं चचाल नगरादरम् ॥१५॥ अथ घूको जगौ हंसं तन्मुखाहितलोचनः । भूपति सहसा मित्र व्रजन्तं धारयामि किम् ॥१६॥ घूकवाक्यं समाकर्ण्य हंसोऽपि निजगौ तकम् । गच्छन्तं भूपतिं मित्र मत्पुरो धारय द्रुतम् ॥ १७॥ निशम्य तद्वचो घूको गोपुरद्वारतः क्षणात् । हंसेन सह निःसृत्य प्राप राजान्तिकं सकः ॥ १८॥ . घूकस्तद्दक्षिणे भागे चकार विरसं स्वरम् । भूपोऽपि तवनिं श्रुत्वा तस्थौ तत्र ससैन्यकः ॥ १९॥ मुहूर्तमेकमास्थाय तत्र घूकः सहंसकः । तद्वाक्यतः पुनः प्राप्य वामभागं स भूपतेः ॥ २० ॥ तत्रस्थः कौशिको भूयश्चके शब्दं मनोरमम् । प्रजापालोऽपि तं श्रुत्वा चचाल बलसंयुतः ॥२१॥
1 पफज निकलम्. 2 फज महद्भिः. 3 पज मित्र मत्पुरो. 4 फ मन्दस्थान, 5 फज हितलोचनम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org