________________
शिवभूतिकथानकम्
३१. कल्लालमित्रसंगतिशिवभूतिकथानकम् ।
विषये वत्सकावत्यां कौशाम्बी नगरी परा । धनपालो नृपोऽस्यां स्याद् वसुपाला प्रियाऽस्य सा ॥१॥ तस्मिन्नेव पुरे शौण्डः' पूर्णभद्रोऽभवद्धनी । माणिभद्रा प्रिया चास्य वसुमित्रा सुताऽनयोः ॥ २ ॥ चण्डालादिजनः सर्वस्तद्विवाहे निमंत्रितः । भुक्तश्च विधिनाऽत्यर्थं पूर्णभद्रनिकेतने ॥ ३ ॥ शिवभूतिर्द्विजो मित्रं स्मृतिवेदविशारदः । समस्तशास्त्रसंवेदी ब्रह्मेव विदितो बुधैः ॥ ४ ॥ यद्ययं मगृहे विप्रो भोजनं विदधाति नो । धनेन बहुना वाऽपि तदा मे जीवितेन किम् ॥ ५ ॥ एवं ध्यात्वा चिरं शौण्डः पूर्णभद्रस्त्वरान्वितः । शिवभूतिं परं प्राप्य सस्नेहं निजगाविमम् ॥ ६ ॥ यदि मित्र या कार्यं विद्यते तव तन्वपि । ततोऽद्य सरसं साधो मगृहे भोजनं कुरु पूर्णभद्रवचः श्रुत्वा शिवभूतिर्षभाण तम् । त्वयाऽतिशोभनं प्रोक्तं मित्र प्राणमनः प्रियम् ॥ ८ ॥ ब्राह्मणानां कुले किंतु मित्र लोकविरुद्धकम् । तथा स्मृतिविरुद्धं च जायते कार्यमीदृशम् ॥ ९ ॥ " वेदस्मृतिविधिज्ञोऽपि शूद्राहारपरिच्युतः । यदि शूद्रगृहे भुङ्क्ते विप्रो लोकविरुद्धकम् ॥ १० ॥ शूद्रभोजनशुश्रूषा शूद्रप्रेषणता तथा । वितीर्णाऽनेन या वृत्तिर्नरकाय भवेदिदम् ॥ ११ ॥ हविष्कृतं तथोच्छिष्टं मतिं 'धर्मकथानकम् । व्रतं चैतानि शूद्राय न दीयन्ते कदाचन ॥ १२ ॥ तथा चोक्तम् -
७ ॥
-३१.२८ ]
शूद्रान्नं शूद्रशुश्रूषा शूद्रप्रेषणकारिता ।
शूद्रदत्ता च या वृत्तिः पर्याप्तं नरकाय तत् ॥ १३ ॥
1 प शौण्डः = कलालः 2 पफज त्रिकलम् . 3 फ मनः प्रिया, ज 5 दिव्यगृहे. 6 पफज चतुष्कलम् 7 फ यथाशनम् 8 [ भूपतेः ] षिप्रं, ज छिप्रं, [वि].
Jain Education International
१४ ॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ अनेन कारणेनार्य भवद्भवनभोजनम् । करोमि तेन नो मित्र नूनं स्मृतिविरोधतः ॥ शिवभूतिवचः श्रुत्वा पूर्णभद्रोऽपि तं जगौ । स्नेहनिर्भरचेतस्को म्लानवक्रसरोरुहः ॥ मगृहे भोजनं मित्र विरुद्धं यदि जायते । ततो 'विप्रगृहेऽन्नं च संस्कृत्य बहुभेदकम् ॥ द्राक्षाक्रमुकताम्बूलवल्लीवलयितं वनम् । कदलीनालिकेरादितरुखण्डविराजितम् ॥ १८ ॥ ईदृशं वनमासाद्य फलपुष्पमनोहरम् । स्वबन्धुभिरमा मित्र भोजनं कुरु मत्समम् ॥ १९ ॥ मतं तदुपरोधेन तदानीं वनभोजनम् । इच्छता स्नेहसंबन्धं परमं शिवभूतिना ॥ २० ॥ अन्येद्युः पूर्णभद्रोऽपि गृहीतवरभोजनः । शिवभूतिसमं भूत्या ययावुपवनं जनैः ॥ २१ ॥ पूर्णभद्रस्तदा सार्धं बहुभिर्निजबान्धवैः । शिवभूतिरपि क्षिप्रमुपविष्टो यथासनम् ' ॥ २२ ॥ मद्यं पिबन्ति ते तत्र पूर्णभद्रादयो जनाः । शिवभूतिः पुनर्दुग्धं तत्समीपे गुडान्वितम् ॥ २३ ॥ अथ दूरस्थितेनायं शिवभूतिर्विलोकितः । पुरुषेणान्तरङ्गेण भूपतेर्दुग्धमापिबत् ॥ २४ ॥ शिवभूतिं जगौ सोऽपि पिबन्तं मद्यमादरात् । कल्लालेन समं तत्र पूर्णभद्रेण भूपते ॥ राजाऽऽकर्ण्य वचस्तस्य विस्मयव्याप्तमानसः । तमानयेत्यतः शीघ्रं तदन्तं प्राहिणोन्नरम् ॥ तद्गोष्ठीमध्यतस्तेन दूरस्थेन समाहृतः । शिवभूतिः पुनर्मक्षु नीतो राजान्तिकं तदा ॥ २७ ॥ २० दृष्ट्वा पुरःस्थितं क्षिप्रं " शिवभूतिं जगौ नृपः । कनिष्ठ दुष्ट पापिष्ठ मद्यं पिबसि किं खल ॥ २८ ॥
25
For Private & Personal Use Only
5
२५ ॥ २६ ॥
15
१५ ॥
१६ ॥
१७ ॥ 20
मनः प्रियाम् 4फ मतिधर्म. 9 प तमानयत्यतः.
10 फ
www.jainelibrary.org