________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
३०. मृतकसंसर्गनष्टमालाकथानकम् ।
११ ॥
१२ ॥
॥
अथोत्तरापथे देशे बलदेवपुरस्य च । प्रतापनिहिताराती राजाऽऽसीद् बलवर्धनः ॥ १ ॥ रूपराजितसर्वाङ्गी नीलोत्पलदलाम्बका । बभूवास्य नरेन्द्रस्य रमणी कुलवर्धनी ॥ २ ॥ तस्मिन्नेव पुरे चासीदृक्क श्रेष्ठी महाधनः । धनदत्तोऽस्य सद्भार्या धनदत्ता प्रकीर्तिता ॥ ३ ॥ रूपयौवनसंयुक्ता मुखनिर्जितचन्द्रिका । कनत्कनकसद्वर्णा धनदेवी सुताऽनयोः ॥ ४ ॥ अत्रैव नगरे श्रीमान् टक्कश्रेष्ठी प्रियंवदः । पूर्णभद्रोऽभवच्चास्य' पूर्णचन्द्रा प्रिया वरा ॥ ५ ॥ तयोः परस्परप्रेमासक्तमानसयोः सुतः । पूर्णचन्द्रोऽभवद् भव्यः पूर्णचन्द्रसमाननः ॥ ६ ॥ ययाचे पूर्णभद्रस्तं धनदत्तं मनोहरीम् । सुताय पूर्णचन्द्राय धनदेवीं कलावतीम् ॥ ७ ॥ पूर्णभद्रवचः श्रुत्वा धनदत्तो वभाण तम् । यच्छामि कुटिकां तेऽहं यदि देहि धनं बहु ॥ ८ ॥ 10 निशम्य धनदत्तोक्तं पूर्णभद्रो जगावमुम् । कुटिकां देहि मे शीघ्रं गृहाण त्वं धनं बहु ॥ ९ ॥ ततो दत्त्वा धनं तस्मै परिणीताऽमुना सका । धनदेवी कलखाना धनदेवीव रूपिणी ॥ १० ॥ यस्मिन्नेव दिने वोढा धनदेवी निशि द्रुतम् । तस्मिन्नेव दिने बाला मृता कन्दोट्टलोचना ॥ ततो मृतां सुतां दृष्ट्वा शोकविह्वलमानसः । धनदत्तस्तदा दध्यौ किंकर्तव्यविमूढधीः ॥ धनेनानेन मे किंचिन्नितान्तं न प्रयोजनम् । अहं शोभां करोम्यस्या धनदेव्याः प्रभावतीम् ॥१३॥ 15 धनेनानेन सर्वेण पुष्पमालां मनोहराम् । गृहीत्वा धनदत्तोऽपि सुतोपरि ददौ तदा ॥ अथ श्रुत्वा तदा श्रेष्ठी खुषां पञ्चत्वमागताम् । पूर्णभद्रो धनाकाङ्क्षी धनदत्तान्तिकं ययौ धनदत्तं परिप्राप्य पूर्णभद्रोऽपि तं जगौ । धनदेवी मृता देहि मदीयं सकलं धनम् ॥ पूर्णभद्रगिरं श्रुत्वा धनदत्तो वभाण तम् । पुष्पमाला समादत्ता त्वदीयेन धनेन मे ॥ किंच पञ्चत्वमापन्ना त्वदभाग्येन मत्सुता । यत्सुता च स्थितं भाण्डं नश्येद्धानिं सहेत सः ॥ १८ ॥ 20 लौकिकानामयं न्यायस्तमुल्लङ्घयतस्तव । महाजन कृतो दण्डो भवेद्दण्डस्य किं विभोः ॥ १९ ॥ मृतपुत्रीपरिप्राप्तां नानापुष्पसमन्विताम् । पुष्पमालां गृहाणेमां तारापालीमिवोज्वलाम् ॥ २० ॥ निशम्य भारतीमस्य पूर्णभद्रो जगावमुम् । देहि मे सकलं द्रव्यं मालया न प्रयोजनम् ॥ एवं कलकलालापे प्रवृत्ते परुषे तयोः । विशिष्टौघः समायातः समाहूतस्तदन्तिकम् ॥ कोऽपि वृद्धो जगौ तत्र पूर्णभद्रं महामतिः । अनेन धनदत्तेन संबन्धश्चेत्तकं वद वृद्धवाक्यं समाकर्ण्य पूर्णभद्रो वभाण तम् । धनदेव्या धनं दत्तं बहु मे तदात्वयम् ॥ पूर्णभद्रोदितं श्रुत्वा वर्षीयान्निजगावमुम् । धनदत्त वचः सत्यं ब्रूहि मत्पुरतोऽनघम् ॥ वृद्धस्य वचनं श्रुत्वा धनदत्तोऽवदत्तकम् । धनेन सकलेनास्य पुष्पमाला मया हृता ॥ सुतोपरि कृतां मालामुपशोभानिमित्ततः । भूयोऽपीमामयं क्षिप्रं गृह्णातु कुसुमोज्वलाम् ॥ २७ ॥ वृद्धवाक्येन सा माला गृहीताऽनेन शोभना । पूर्णभद्रः समादाय तां ययौ विशिषान्तरे ॥ २८ ॥ 30 पुष्पमालां न कोऽप्येतां गृह्णाति' मृतकाश्रिताम् । कपर्दकेन चैकेन बहुमूल्यामपि क्षितौ ॥ २९ ॥ यथा सा बहुमूल्याऽपि पुष्पमाला मनोहरी । सर्वैरपि परित्यक्ता जनैर्मृतकसंगता ॥ ३० ॥ तथा दुर्जनसंसर्गात् पुरुषो वाचालोऽपि वा । अन्यैरपि नरैस्तुङ्गो बलवान् परिभूयते ॥ ॥ इति श्रीमृतकसंसर्गनष्टमाला कथानकमिदम् ॥ ३० ॥
२१ ॥
॥
३१ ॥
25
५०
*
1 फ भवेच्चास्य. 2 प कुटिकां = कन्याम्. फज युगलम् 6 फ विशिषान्तरम् 7फ गृह्णामि.
Jain Education International
[ ३०. १
For Private & Personal Use Only
१४ ॥
१५ ॥
१६ ॥
१७ ॥
२२ ॥
२३ ॥
२४ ॥
२५ ॥
२६ ॥
पomits 9. 4 प त्वदभागेन. 5 प युग्मम्, 8 फ कन्दर्पकेन, ज कापर्दकेन. 9 प संपूर्णम्.
www.jainelibrary.org